महासुभाषितसंग्रह · श्लोक 6387-6406
उज्झन्त्यः स्वर्णकाञ्चीर्झणिति रशनया चम्पकन्यासमय्या तन्वत्यस्तारहारान् विचकिलकलिकापंक्तिमुद्रावलीभिः ।
किं चाशोकप्रवालैररुणमणिमयान् संत्यजन्त्योऽवतंसान् उत्कीर्णाः कामबाणैरिव हृदि सुहृदो वल्लभानां बभूवुः ॥
उज्झितवृषयोगा अपि रतिसमये नरविशेषनिरपेक्षाः ।
कृष्णौकाभिरता अपि हिरण्यकशिपुप्रियाः सततम् ॥
उज्झितसौभाग्यमद- स्फुटयाच्ञान गभीतयोर्यूनोः ।
अकलितमनसोरेका दृष्टिर्दूती निसृष्टार्थी ॥
उज्झिताहमिति वत्स न दूये राघवेण कुलदूषणभीत्या ।
का त्वमित्यभिहिते बत वन्यान् श्रावये किमिति मुह्यति चेतः ॥
उज्झित्वा दिशमम्बरं वरतरं वासो वसानश्चिरं हित्वा वासरसं पुनः पितृवने कैलासहर्म्याश्रयः ।
त्यक्त्वा भस्म कृता गरागनिचयः श्रीखण्डसारद्रवैर् देवः पातु हिमाद्रिजापरिणयं कृत्वा गृहस्थः शिवः ॥
उडुगणपरिवारो नायकोऽप्यौषधीनाम् अयममृतशरीरः कान्तियुक्तोऽपि चन्द्रः ।
भवति विगतरश्मिर्मण्डलं प्राप्य भानोः परसदननिविष्टः को लघुत्वं न याति ॥
उडुपरिवृढः पत्या मुक्तामयं यदपीडयद् यदपि बिसिनीं भानोर्जायां जहास कुमुद्वती ।
तदुभय मतः श के स कोचितं निजश कया प्रसरति नवार्के कर्कन्धूफलारुणरोचषि ॥
उडुपरिषदः किं नार्हत्वं निशः किमु नौचिती पतिरिह न यद् दृष्टस् ताभ्यां गणेयरुचीगणः ।
स्फुटमुडुपतेराश्मं वक्षः स्फुरन्मलिनाश्मन- च्छवि यदनयोर्विच्छेदेऽपि द्रुतं बत न द्रुतम् ॥
उडुराजमुखी मृगराजकटिर् गजराजविराजितमन्दगतिः ।
यदि सा वनिता हृदये निहिता क्व जपः क्व तपः क्व समाधिरतिः ॥
उड्डायितः पूर्वदिशा क्रमेण प्रकाशर गः पृथुलः पतण्गः ।
पारे वियद्विच्युतरश्मिरर्वाक् पतन्निदानीं क्षपितोऽस्तशैले ॥
उड्डीनं विहगैर्मृतं जलचरैः क्ष्मान्तर्गतं कच्छपैः पाठीनैः पृथुप कपीठलुठनाद्यस्मिन् मुहुर्मूर्च्छितम् ।
तस्मिन्नेव सरस्यकालजलदेनागत्य तच्चेष्टितं येनाकुम्भनिमग्नवन्यकरिणां यूथैः पयः पीयते ॥
उड्डीना गुणपत्रिणः सुखफलान्याराद् विकीर्णान्यधः पर्यस्ताः परितो यशस्तबकिताः संपल्लतापल्लवाः ।
प्रागेवापसृतः प्रमोदहरिणश्च्छाया कथान्तं गता दैवारण्यमत गजेन बलिना भग्नेऽभिमानद्रुमे ॥
उड्डीनानामेषां प्रासादात् तरुणि पक्षिणां प क्तिः ।
विस्फुरति वैजयन्ती पवनच्छिन्नापविद्धेव ॥
उड्डीयागतमिन्दुमण्डलमिदं किं खञ्जरीटद्वयं हित्वा कोरकतां विकस्वरतरे याते किमिन्दीवरे ।
इन्दोर्बिम्बमवाप्य जातरभसौ किं वा चकोराविमाव् आं ज्ञातं शफरीविलासपटुनी नेत्रे कुर गीदृशः ॥
उड्डीयाणं तु सहजं कथितं गुरुणा सदा ।
अभ्यसेदस्ततन्द्रस् तु वृद्धोऽपि तरुणो भवेत् ॥
उड्डीयोर्ध्वं गमने निपत्यवचना वधोन्मुखी शकुनिः ।
वामे यातुर्निधनं दिशति विपक्षे विपक्षस्य ॥
उत वा तृणवान् मार्गः समो गम्यः प्रशस्यते ।
सुशोध्यस् त्रिविधो मार्गः षड्विधं च स्वकं बलम् ॥
उत्कटकण्टककोटी- घर्षणघृष्टानि हृदि न चिन्तयति ।
असदृशरसविवशमतिर् विशत्यलिः केतकीकुसुमम् ॥
उत्कण्ठयति मेघानां माला वृन्दं कलापिनाम् ।
यूनां चोत्कण्ठयत्येष मानसं मकरध्वजः ॥
उत्कण्ठाकुलचक्रवाकयुवतीनिःश्वासदण्डाहतः पीयूषद्युतिरच्छदर्पणतुलामारोहति प्रस्थितः ।
कोकानां कृपयेव कुक्कुटरवैराहूयमाने रवौ दिग् जाता नवधौतविद्रुममणिच्छाया च सौत्रामणी ॥
उत्कण्ठाकुलमस्तु कण्टककुले संजायतां ते मनः सानन्दं पिचुमन्दकन्दलदलास्वादेषु का वा क्षतिः ।
एतत् किं तु तव क्रमेलक कथंकारं सहे दुःसहं तस्मिन् पुण्ड्रककन्दलीकिसलये येनासि निन्दापरः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0