भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 6367-6386

6367

उच्छ्मश्रुर्व्यात्तवक्त्रः प्रविततरसनापल्लवालीढसृक्का पि गोग्रभ्रान्तनेत्रः पुलकिततरलोत्तानला गूलनालः ।
कुत्राप्यक्लान्तिगामी क्वचिदतिपिहितः क्वापि तु गाग्रमात्रश् चित्रव्याघ्रोऽयमाप्तुं प्रमदवनमृगीतर्णकांस्तूर्णमेति ॥

6368

उच्छ्रायो जनभीति हेतुरधिकं वैकृत्यमुद्ग्रीवता सर्वत्र प्रतिपर्वविक्रमभवः क्रूरो मरुर्जन्मभूः ।
यस्योच्चैः कटुकण्टकप्रणयिता धिक् कष्टमुष्ट्रे पशौ तस्मिन् राजपरिग्रहः स च महाशब्दद्वयीभाजनम् ॥

6369

उच्छ्वसन् मण्दलप्रान्तरेखमाबद्धकुड्मलम् ।
अपर्याप्तमुरो वृद्धेः शंसत्यस्याः स्तनद्वयम् ॥

6370

उच्छ्वासः खण्डखण्डस्तरलितहृदये मूकतां भूषणानाम् उक्तिप्रत्युक्तिबन्धोऽप्यभिनयविहितः पांसुला भूः सुशय्या ।
तूष्णीमेव प्रसादानुनयनकलहाश् चुम्बनं शब्दशून्यं यत्रैतत् स्वस्ति तस्मै निभृतनिधुवनायेति नान्दी नमोऽस्तु ॥

6371

उच्छ्वासयन्त्यः श्लथबन्धनानि गात्राणि कन्दर्पसमाकुलानि ।
समीपवर्तिष्वधुना प्रियेषु समुत्सुका एव भवन्ति नार्यः ॥

6372

उच्छ्वासहिक्काशयना गभ ग- विष्ठावमिश्वासविजृम्भणानि ।
वक्त्रं शुनोऽर्धोन्मिषितां च दृष्टिं द्युते प्रशंसन्ति च वामचेष्टम् ॥

6373

उच्छ्वासावधयः प्राणाः स चोच्छ्वासः समीरणः ।
समीरणाच्चलं नास्ति यत् प्राणिति तदद्भुतम् ॥

6374

उच्छ्वासोऽपि न निर्याति बाणे हृदयवर्तिनि ।
किं पुनर्विकटाटोप पदबन्धा सरस्वती ॥

6375

उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि साध्वी ।
आनयैनमनुनीय, कथं वा विप्रियाणि जनयन्ननुनेयः ॥

6376

उच्यमानोऽवलम्बेत परमर्मणि मूकताम् ।
स्वकर्मणि तु बाधिर्यस्थैर्यमाधुर्यसोष्मवान् ॥

6377

उज्जागरितभ्रामित- दन्तुरदलरुद्धमधुकरप्रकरे ।
काञ्चनकेतकि मा तव विकसतु सौरभ्यसंभारः ॥

6378

उज्जाडिते यदा ग्रामे गच्छतां दक्षिणस्वराः ।
श्र्गालास् तं पुनः स्थानं कथयन्ति करस्थितम् ॥

6379

उज्जृम्भते कुमुदिनीसुकृतं मृगा को विष्वग्विकीर्णपरिपाटलरश्मिदण्डः ।
उत्सूतविद्रुमकुलो जलधेस् तर गाद् उत्क्षिप्यमाण इव कश्चन राजकम्बुः ॥

6380

उज्जृम्भाननमुल्लसत्कुचतटं लोलद्भ्रमद्भ्रूलतं स्वेदाम्भःस्नपिता गयष्टि विगलद्व्रीडं सरोमाञ्चया ।
धन्यः कोऽपि युवा स यस्य वदने व्यापारिताः सांप्रतं मुग्धे दुग्धमहाब्धिफेनपटलप्रख्याः कटाक्षच्छटाः ॥

6381

उज्ज्वलं सरलं चैव वक्रमारक्तमेव च ।
नेत्रं चतुर्विधं प्रोक्तं तस्य भावाः पृथक् पृथक् ॥

6382

उज्ज्वलम् मित्रसंयोगे सरलं पुत्रदर्शने ।
वक्रं च कामिनीभोगे आरक्तं शत्रुदर्शने ॥

6383

उज्ज्वलगुणमभ्युदितं क्षुद्रो द्रष्टुं न कथमपि क्षमते ।
दग्ध्वा तनुमपि शलभो दीप्रं दीपार्चिषं हरति ॥

6384

उज्ज्वलचम्पकमुकुला- श कितया यः प्रदीपकं स्पृशति ।
कज्जलकल कदाहं मुक्त्वान्यत् तस्य किं घटताम् ॥

6385

उज्ज्वलालोकया स्निग्धा त्वया त्यक्ता न राजते ।
मलीमसमुखी वर्तिः प्रदीपशिखया यथा ॥

6386

उज्झती शुचिमिवाशु तमिस्राम् अन्तिकं व्रजति तारकराजे ।
दिक्प्रसादगुणमण्डनमूहे रश्मिहासविशदं मुखमैन्द्री ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc