भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 6347-6366

6347

उच्चैर्यद्यस्ति मनः किं विपदा संपदा गन्त्री ।
पुरुषस्य मनसि भग्ने मग्नेवापत्सु लक्ष्यते लक्ष्मीः ॥

6348

उच्चैर्यो मधुपानलुब्धमनसां भृ गा गनानां गणैर् उद्गीतो रचितालयः खगकुलैर्देशान्तरादागतैः ।
आसीद् यश्च निषेवितोऽध्वगशतैर्ग्रीष्मोष्मतान्तिच्छिदे सोऽयं संप्रति दुर्मदेन दलितश् छायातरुर्दन्तिना ॥

6349

उच्चैस्तनन्तमभिगम्य घनं तवाहम् अभ्यागतोऽस्म्यतिथिरेष पयोधरार्थी ।
वक्तुं त्रपा तदपि वच्मि विदूरबन्धोः काठिन्यमस्ति च पयोधरयोर्ममापि ॥

6350

उच्चैस्तरां मत्सरिणोऽपि लोकाः कुर्वन्ति संसत्सु पुरः प्रशंसाम् ।
न पण्डितर्विश्वसितव्यमत्र तत्सौहृदं यत् क्रियते परोक्षम् ॥

6351

उच्चैस्तरादम्बरशैलमौलेश् च्युतो रविर्गैरिकगण्डशैलः ।
तस्यैव पातेन विचूर्णितस्य संध्यारजोराजिरिहोज्जिहीते ॥

6352

उच्चौ कुचौ कृशतरा च कटिर्गभीरो नाभिः समुन्नततरं च नितम्बबिम्बम् ।
निम्नोन्नतेति सुदृशः सुभगे शरीरे मग्नं मनो मम न मां पुनरभ्युपैति ॥

6353

उच्छन्नेव कलौ वृषस्य चरणश्रेणी नवीनां पुनस् तां निर्माय कृतस् त्वया पुनरपि न्यस्तः पदस्यन्दनः ।
भिन्दानैस्तरणिं त्वदस्त्रनियतैरेतत्किलोदीरितं श्रुत्वानूरुरसौ विहाय मिहिरं त्वां देव सेविष्यते ॥

6354

उच्छलन् मत्स्यपुच्छाग्रदण्डपातहतार्णसि ।
जगदुद्यानमम्भोधाव् उन्ममज्ज ममज्ज च ॥

6355

उच्छास्त्रपदविन्यासः सहसैवाभिसंपतः ।
शत्रुख गमुखग्रासम् अगत्वा न निवर्तते ॥

6356

उच्छिद्यते धर्मवृत्तम् अधर्मो वर्तते महान् ।
भयमाहुर्दिवारात्रं यदा पापो न वार्यते ॥

6357

उच्छिद्राणि दिगम्बरस्य वसनान्यर्धा गिनस्स्वामिनो रत्नालंकृतिभिर्विशोषितवपुःशोभाशतं सुभ्रुवः ।
पौराढ्याश्च पुरीः श्मशानवसतेर्भिक्षाभुजोऽप्यक्षमा लक्ष्मीं न व्यतनोद् दरिद्रभरणेष्वज्ञो हि सेनान्वयः ॥

6358

उच्छिन्नाश्रयकातरेव कुलटा गोत्रान्तरं श्रीर्गता तामेवानुगता गतानुगतिकास्त्यक्तानुरागाः प्रजाः ।
आप्तैरप्यनवाप्तपौरुषफलैः कार्यस्य धूरुज्झिता किं कुर्वन्त्वथवोत्तमा गरहितैर गैरिव स्थीयते ॥

6359

उच्छिष्टं करखर्परं पथि गतं मूर्खैर्जडैर्धिक्कृतं विप्रैस् तत्त्वविचिन्तकैर्मनसि तं स्वात्मप्रबोधे कृतम् ।
नृत्यन्तं च दिगम्बरं च जटिलं बालैश्च मुक्तं जडं डिम्भश्चोपहसन्ति चत्वरपथे दत्त्वा मुहुस् तालिकाः ॥

6360

उच्छिष्टं शिवनिर्माल्यं वमनं शवकर्पटम् ।
काकविष्ठासमुत्पन्नाः पञ्चैतेऽतिपवित्रकाः ॥

6361

उच्छिष्टो न स्पृशेत् ख गं निशिकुर्यान्न शीर्षके ।
दिवा च पूजयेदेनं गन्धमाल्यादिसंपदा ॥

6362

उच्छीर्षे पदकं कृत्वा यदि शेते शुनस् तदा ।
आगच्छद्वल्लभं वक्ति तद्वेश्मन्यचिरादपि ॥

6363

उच्छूनारुणमश्रुणिर्गमवशाच् चक्षुर्मना मन्थरं सोष्मश्वासकदर्थिताधररुचिर्व्यस्तालका भ्रूभुवः ।
आपाण्डुः करपल्लवे च निभृतम् शेते कपोलस्थली मुग्धे कस्य तपःफलं परिणतं यस्मै तवेयं दशा ॥

6364

उच्छृ कलेन निरपेक्षतयोन्मदेन येनाकुलीकृतमिदं करिणा बभूव ।
दत्त्वा पदं शिरसि हस्तिपकार्भकेण मन्दः कथं गमित एष वशं प्रसह्य ॥

6365

उच्छेदनं चापचयः पीडनं कर्शनं तथा ।
इति विद्याविदः प्राहुः शत्रौ वृत्तं चतुर्विधम् ॥

6366

उच्छेद्यमपि विद्वांसो वर्धयन्त्यरिमेकदा ।
गुडेन वर्धितः श्लेष्मा यतो निःशेषतां व्रजेत् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc