भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 6267-6286

6267

ईश्वरानुगृहीतो हि कश्चिद् बालोऽपि शाम्यति ।
वृद्धोऽपि न शमं याति कश्चित् कापुरुषः पुनः ॥

6268

ईश्वरा भूरिदानेन यल् लभन्ते फलं किल ।
दरिद्रस् तच्च काकिण्या प्राप्नुयादिति न श्रुतिः ॥

6269

ईश्वरेण समं प्रीतिर् न मे लक्ष्मण रोचते ।
गतस्य गौरवं नास्ति आगतस्य धनक्षयः ॥

6270

ईश्वरोक्ताद् धनुर्वेदाद् व्यासस्यापि सुभाषितात् ।
पदान्याकृष्य रचितो ग्रन्थः संक्षेपतो मया ॥

6271

ईषत्कम्पपयोधरं गुरुकटीप्रौढप्रहाराद्भुतं स्विद्यद्भालमनेकहास्यसरसं संकथ्यपादव्यथम् ।
वारंवारमुरःप्रपातसुभगं संदश्यमानाधरं किंचिद्दत्तनितम्बदेशनखरं धन्यो रतं सेवते ॥

6272

ईषत्तुषारैः कृतशीतहर्म्यः सुवासितं चारुशिरः सचम्पकैः ।
कुर्वन्ति नार्योऽपि वसन्तकाले स्तनं सहारं कुसुमैर्मनोहरैः ॥

6273

ईषत्प्रकटितो मन्दस् तीक्ष्णस् तु पुलकादिभिः ।
स तु तीक्ष्णतरः श्वासशोषितावयवोऽत्र यः ॥

6274

ईषदवशिष्टजडिमा शिशिरे गतमात्र एव चिरमङ्गैः ।
नवयौवनेव तन्वी निषेव्यते निर्भरं वापी ॥

6275

ईषदायच्छमानोऽपि सिंहो मत्तानपि द्विपान् ।
निहन्ति बलवांस् तस्मात् संधेयः शिवमिच्छता ॥

6276

ईषद्वक्रितपक्ष्मपङ्क्तिभिरनाकूतस्मितैर्वीक्षित् ऐः एतैरेव तवाद्य सुन्दरि करक्रोडे जगद् वर्तते ।
अन्तः पांसुलहेमकेतकिदलद्रोणीदुरापश्रियो दोर्मूलस्य निवेदनादिह पुनः क्रूरे किमाकाङ्क्षसि ॥

6277

ईषन्नासानिकोचः खरमुखरसुखप्रेक्षणं हासलेशः स्वाबोधादप्रसादध्वननमसदवद्योक्तिहेलावहेला ।
मौनव्यासङ्गवार्तान्तरपररुचिरश्लोकपाठाद यस् ते सोढव्याः के कियन्तः शिव शिव कविते कुच्छला मत्सराणाम् ॥

6278

ईषन्मीलितदृष्टि मुग्धविलसत्सीत्कारधारावशाद् अव्यक्ताकुलकेलिकाकुविकसद्दन्तांशुधौताधरम् ।
शान्तस्तब्धपयोधरं भृशपरिष्वङ्गात् कुरङ्गीदृशो हर्षोत्कर्षविमुक्तनिःसहतनोर्धन्यो धयत्याननम् ॥

6279

ईषन्मीलितलोचना श्लथसमस्ताङ्गा श्रमोद्वेजिता निश्वासप्रथमा विरत्नरसना संत्यक्तकण्ठस्वना ।
प्रोद्यत्कामजला कलासु कुशला निर्लज्जया कामिनी कान्ता कालवशात् प्रियस्य वशगा जाता रतान्ते क्षणम् ॥

6280

ईषन्मीलितलोललोचनयुगं व्यावर्तितभ्रूयुगं संदष्टाधरवेदनाप्रणयिनं मा मेति मन्दाक्षरम् ।
तन्वङ्ग्याः सुरतावसानसमये दृष्टं मया यन्मुखं स्वेदार्द्रीकृतपाण्डुगण्डयुगलं तत् केन विस्मर्यते ॥

6281

ईषल्लब्धप्रवेशोऽपि स्नेहविच्छेदकारकः ।
कृतक्षोभो नरीनर्ति खलो मन्थानदण्डवत् ॥

6282

ईषल्लोमशभावभाञ्जि कपिशश्यामानुबन्धच्छवी- लिप्तत्वञ्चि चकोरकीरहरितोन्मेषीणि माषीलताः ।
एतास् तर्कय बालवानरवधूहस्ताङ्गुलीलब्ध्रिम- स्पर्धावन्ति फलानि बिभ्रति परीणामाभिरामश्रियः ॥

6283

ईहमानः समारम्भान् यदि नासादयेद् धनम् ।
उग्रं तपः समारोहेन् न ह्यनुप्तं प्ररोहति ॥

6284

दानेन भोगी भवति मेधावी वृद्धसेवया ।
अहिंसया च दीर्घायुर् इति प्राहुर्मनीषिणः ॥

6285

ईहा धनस्य न सुखा लब्ध्वा चिन्ता च भूयसी ।
लभ्दनाशो यथा मृत्युर् लभ्दं भवति वा न वा ॥

6286

उक्तं च वक्ष्यमानं च भर्त्सनं तिर्यगीक्षणम् ।
क्वचिद् यथार्थकथनं व्याख्या तन्त्रस्य षड्विधाः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc