महासुभाषितसंग्रह · श्लोक 6187-6206
इह मुहुर्मुदितैः कलभै रवः प्रतिदिशं क्रियते कलभैरवः ।
स्फुरति चानुवनं चमरीचयः कनकरत्नभुवां च मरीचयः ॥
इह यत् क्रियते कर्म तत् परत्रोपभुजुयते ।
सिक्तमूलस्य वृक्षस्य फलं शाखासु दृश्यते ॥
इह यत् क्रियते कर्म फलं तत्रैव भुज्यते ।
कर्मभूमिरियं राजन् फलभूमिश् च सा स्मृता ॥
इह यादववंशकृष्णवर्त्मा- नुगतिः साङ्गतया मयान्वभावि ।
अधुना तदवाप्तिचेतसे मे मधुराकामधुरापि रोचते किम् ॥
इह रूपमात्रसारे चित्रकृते कमलकह्लारे ।
न रसो नापि च गन्धो मधुकर बन्धो मुधा भ्रमसि ॥
इह रे बहला लासे बाला राहुमलीमसा ।
सालका रसलीला सा तुङ्गालालि कलारत ॥
इहलोके च पितृभिर् या स्त्री यस्य महामते ।
अद्भिर्दत्ता स्वर्धर्मेण प्रेत्यभावेऽपि तस्य सा ॥
इह लोके हि धनिनः परोऽपि स्वजनायते ।
स्वजनस्तु दरिद्राणां जीवतामेव नश्यति ॥
इह लोके हि धनिनां परोऽपि स्वजनायते ।
स्वजनोऽपि दरिद्राणां तत्क्षणाद् दुर्जनायते ॥
इह लोको हतो न् णां दारिद्र्येण यथा नृप ।
मनुष्याणां तथा जन्म माघस्नानं विना हतम् ॥
इह वटवृक्षे यक्षः प्रतिवसति दिवापि यत्र भयशङ्का ।
तस्मिन्नभिनववध्वा नीता वीतोदयाः क्षणदाः ॥
इह वत्सान् समचारयद् इह नः स्वामी जगौ वंशीम् ।
इति सास्रं गदतो मे यमुनातीरे दिनं यायात् ॥
इह वहति बहुमहोदधि- विभूषणा मानगर्वमियमुर्वी ।
देवस्य कमठमूर्तेर् न पृष्ठमपि निखिलमाप्नोति ॥
इह वा तारयेद् दुर्गाद् उत वा प्रेत्य तारयेत् ।
सर्वथा तारयेत् पुत्रः पुत्र इत्युच्यते बुधैः ॥
इह विकसदशोकास्तोकपुष्पोपकारैर् अयमतिशयरक्तः सक्तसुस्निग्धभावः ।
त्रिभुवनजयसज्जः प्राज्यसा म्राज्यभाजः प्रथयति पृथुमैत्रीं पुष्पचापस्य चैत्रः ॥
इह विचरन्ति किरातास् त्वादृक्स्वच्छन्दतानिहन्तारः ।
तदमीषां गानादौ मा धाः श्रवणे कुरङ्गशाव त्वम् ॥
इह विजयिनि वंशे कीर्तिधाराकलाप- स्नपितसकललोकः श्रीयशोविग्रहोऽभूत् ।
जलघट इव युद्धोत्तालभूपालदर्प- ज्वलनशमनलीलाकोविदः कोऽपि वीरः ॥
इह विधिविषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः ।
क्व जनकतनया क्व रामरामा क्व च दशकन्धरमन्दिरे निवासः ॥
इह विरचयन् साध्वीं शिष्यः क्रियां न निवार्यते त्यजति तु यदा मार्गं मोहात् तदा गुरुरङ्कुशः ।
विनयरुचयस् तस्मात् सन्तः सदैव निरङ्कुशाः परतरमतः स्वातन्त्र्येभ्यो वयं हि पराङ्मुखाः ॥
इह विश्वम्भरापीडे चन्दनं कस्य न प्रियम् ।
अनुस्वारं विलिप्यापि ओकारस्य प्रयोजनात् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0