भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 6066-6085

6066

इभकुम्भतुङ्गकठिनेतरेतर- स्तनभारदूरविनिवारितोदराः ।
परिफुल्लगण्डफलकाः परस्परं परिरेभिरे कुकुरकौरवस्त्रियः ॥

6067

इभ्या यदि नृपद्वारे संमन्यन्ते किमद्भुतम् ।
इदानीं विबुधद्वारे तेषामेव पुरस्क्रिया ॥

6068

इमं कनकवर्णाभं भूषणैः समलंकृतम् ।
गृध्रवाक्यात् कथं पुत्रं त्यजध्वं पितृपिण्डदम् ॥

6069

इमं तिलसुमायितं युवतिनासिकासंपुटं विभाव्य सुमनोजनो मनसि मोदमापद्यते ।
सखे भुजगमुत्फणं सविषफूत्कृताहंकृतं विभावय न तत्स्पृहां कुरु जहीहि तद्दृश्यताम् ॥

6070

इमं परित्यज्य परं रणादरिः स्वमेव भग्नः शरणं बुधाविशत् ।
न वेत्ति यत् त्रातुमितः कृतस्मयो न दुर्गया शैलभुवापि शक्यते ॥

6071

इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् ।
गुरुशुश्रूषया त्वेव ब्रह्मलोकं समश्नुते ॥

6072

इमां च विन्द्यादनुरक्तचेष्टां प्रियाणि वक्ति स्वधनं ददाति ।
विलोक्य संहृष्यति वीतरोषा प्रमार्ष्टि दोषान् गुणकीर्तनेन ॥

6073

इमां परीप्सुर्दुर्जाते पराभिभवकातराम् ।
भर्तृप्रियः प्रियैर्भर्तुर् आनृण्यमसुभिर्गतः ॥

6074

इमां विधातुं भुजवल्लिमुज्ज्वलां गृहीतसारं विधिना नतभ्रुवः ।
कठोरभावप्रियमेव केवलं मृणालमन्तस्तरलं कुतोऽन्यथा ॥

6075

इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् ।
महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥

6076

इमानि प्रायशस् तानि वेश्यास्वेवं प्रदापयेत् ।
सा मुञ्चत्यचिरात् सर्वम् उपभोगं तदात्मनः ॥

6077

इमा यदि भवन्ति नो गलितयौवना नीरुचस् तदा कमललोचनास् तरुणमानिनीर्मा मुचत् ।
विलासमदविभ्रमान् भ्रमति लुण्ठयत्री जरा यतो भुवि वधुस् ततो भवति निःस्पृहस् तन्मुखे ॥

6078

इमा रूपस्थानस्वजनतनयद्रव्यवनिता- सुतालक्ष्मीकीर्तिद्युतिरतिमतिप्रीतिधृतयः ।
मदान्धस्त्रीनेत्रप्रकृतिचपलाः सर्वभविनाम् अहो कष्टं मर्त्यस् तदपि विषयान् सेवितुमनाः ॥

6079

इमास्ताः कस्तूरीप्रखरखुरटङ्कक्षततटास् तटिन्योऽरण्यानीमनु कमलिनीच्छन्नसलिलाः ।
जले यासां हंसा बिसकिसलयग्रासरसिकाः सलीलं लीयन्ते युवतिगतिविद्यैकगुरवः ॥

6080

इमास्ता विन्ध्याद्रेः शुकहरितवंशीवनघना भुवः क्रीडालोलद्विरददशनाभुग्नतरवः ।
लताकुञ्जे यासामुपनदि रतक्लान्तशबरी- कपोलस्वेदाम्भःकणचयनुदो वान्ति मरुतः ॥

6081

इमा हिन्दोलासु भ्रमितमहसः कुङ्कुमरुचा त्रपारूपाकारास् तरलतरहाराश् चलदृशः ।
उदञ्चत्काञ्चीनां बहलतरघोषैर्मनसिज- त्रिलोकीसम्राजो दधति जयघण्टालिनिनदम् ॥

6082

इमे तारुण्यश्रीनवपरिमलाः प्रौढसुरत- प्रतापप्रारम्भाः स्मरविजयदानप्रतिभुवः ।
चिरं चेतश्चौरा अभिनवविकारैकगुरवो विलासव्यापाराः किमपि विजयन्ते मृगदृशाम् ॥

6083

इमे पद्मे नाम्भः पुलिनतटमेतन् न तटिनी खमेतन् न व्याप्तिः स्तबकयुगमेतन् न लतिका ।
प्रवालोऽयं नाब्धिः शिशिरकिरणोऽयं न रजनी घनोऽयं न प्रावृट् शिव शिव विधेः शिल्परचना ॥

6084

इमे मम धनाङ्गजस्वजनवल्लभादेहजा- सुहृज्जनकमातुलप्रभृतयो भृशं वल्लभाः ।
मुधेति हतचेतनो भववने चिरं खिद्यते यतो भवति कस्य को जगति वालुकामुष्टिवत् ॥

6085

इमे हि दैन्येन निमीलितेक्षणा मुहुः स्खलन्तो विवशास् तुरङ्गमाः ।
गजाश् च सप्तच्छददानगन्धिनो निवेदयन्तीव रणे निवर्तनम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc