भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 6046-6065

6046

इन्द्रियाणामनुत्सर्गो मृत्युना न विशिष्यते ।
अत्यर्थं पुनरुत्सर्गः सादयेद् दैवतान्यपि ॥

6047

इन्द्रियाणि च संयम्य रागद्वेषविवर्जितः ।
समदुःखसुखः शान्तः तत्त्वज्ञः साधुरुच्यते ॥

6048

इन्द्रियाणि पराण्याहुर् इन्द्रियेभ्यः परं मनः ।
मनसस् तु परा बुद्धिर् यो बुद्धेः परतस् तु सः ॥

6049

इन्द्रियाणि पशून् कृत्वा वेदीं कृत्वा तपोमयीम् ।
अहिंसामाहुतिं कृत्वा आत्मयज्ञं यजाम्यहम् ॥

6050

इन्द्रियाणि पुरा जित्वा जितं त्रिभुवनं त्वया ।
स्मरद्भरिव तैद्वैरम् इन्द्रियैरेव निर्जितः ॥

6051

... ... ... ... ... ... ।
इन्द्रियाणि प्रमाथीनि हरन्त्यपि यतेर्मनः ॥

6052

इन्द्रियाणि मनः प्राणो ज्ञानमायुः सुखं धृतिः ।
धारणा प्रेरणं दुःखम् इच्छाहङ्कार एव च ॥

6053

प्रयत्न आकृतिर्वर्णः स्वरद्वेषौ भवाभवौ ।
तस्यैतदात्मजं सर्वम् अनादेरादिमिच्छतः ॥

6054

इन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥

6055

इन्द्रियाणि महत् प्रेप्सुर् नियच्छेदर्थधर्मयोः ।
इन्द्रियैर्नियतैर्बुद्धिर् वर्धतेऽग्निरिवेन्धनैः ॥

6056

इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीन् मन एव च ।
निगृह्य समवायेन प्रत्याहारमुपक्रमेत् ॥

6057

इन्द्रियाण्यनुपक्लेश्य लभ्यं श्रेयो गृहाश्रमे ।
अतस्तुर्याश्रमं प्राहुर् अबाधन्यायबाधितम् ॥

6058

इन्द्रियाण्यन्तरङ्गाणि पातयन्ति यथा जनान् ।
अभ्यन्तरास् तथा राष्ट्रे भृत्याः स्वार्थपरायणाः ॥

6059

इन्द्रियाण्येव तत् सर्वं यत् स्वर्गनरकावुभौ ।
निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥

6060

इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः ।
अतिप्रसक्तिं चैतेषां मनसा संनिवर्तयेत् ॥

6061

इन्द्रियैरिन्द्रचन्द्राद्या ह्रेपिता यैः सुरा अपि ।
अपरिम्लानमानत्वं तैर्मर्त्यस्याथवा कथम् ॥

6062

इन्द्रियैरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः ।
तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव ॥

6063

इन्द्रो निन्दति वाहमाह दिनकृत्त्वर्व्वाचमेवार्वतश् चञ्चूर्न्यञ्चति किं न पन्नगरिपोरन्तस्त्रपोद्रेकतः ।
वातः खञ्जति पङ्गुपुञ्जति मनोराजिर्ब्भवद्वाजिषु द्बेषादाजिषु वैरिणामभिमुखं धावत्सु यावत् सुखम् ॥

6064

इन्द्रो यच्छतमन्युरस्ति दहनो यत् पावकोऽप्यन्तकः कीनाशो धनदो विमाननिरतः पाशी जलानां पतिः ।
ईशः कामहरश् चलो यदनिलो यन्नैरृतो राक्षसस् तन् नान्योऽवनिलोकपाल भवतः कश्चित् समः स्याद् गुणैः ॥

6065

इन्द्रो यमोऽसि वरुणोऽसि हुताशनोऽसि ब्रह्मा हरो हरिरसीत्यसकृद् यदुक्तिः ।
भूपालमौलिमणिरञ्जितपादपीठ तस्यानृतस्य फलमिन्धनमुद्वहामि ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc