भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 6026-6045

6026

इन्द्रस्य वज्रेण हतो वृत्रासुरमहायशाः ।
मेदसा सर्वविच्छिन्नं तदर्थमुपलेपनम् ॥

6027

इन्द्रस्यार्कस्य वायोश् च यमस्य वरुणस्य च ।
चन्द्रस्य च पृथिव्याश् च नृपः सप्तगुणो भवेत् ॥

6028

इन्द्रात् प्रभुत्वं ज्वलनात् प्रतापं क्रोधो यमाद् वैश्रवणाच् च वित्तम् ।
पराक्रमं रामजनार्दनाभ्याम् आदाय राज्ञः क्रियते शरीरम् ॥

6029

इन्द्राद्या लोकपाला हरिविधुतपना नागविद्याधराद्या द्वेष्याः सर्वेऽपि देवाः प्रिय तव वरदः कोऽस्ति वन्द्यो गरीयान् ।
श्रुत्वा वाचं प्रियाया इति दशमुखतः प्राह वाक्यं दशास्यः शूली शंभुः पिनाकी शिवभवपशुपः शर्व ईशश् च भर्गः ॥

6030

इन्द्राद्यैः किं प्रदत्तं प्रदिशसि धवलं धाम धन्यं यदेभ्यो मह्यं यन् नापि धत्से तृणघटितकुटीं किं मया तेऽपराद्धम् ।
विश्वेभ्यो विश्वमातर्वितरसि यदि वा शर्म कर्मानुसारि प्रोत्तुङ्गायाः कृपायास् तव तुहिनगिरेः पुत्रि कुत्रोपयोगः ॥

6031

इन्द्रानिलयमार्काणाम् अग्नेश् च वरुणस्य च ।
चन्द्रवित्तेशयोश् चापि मात्रा निर्हृत्य शाश्वतीः ॥

6032

इन्द्राभ्यर्थनया पूर्वं भरताय चतुर्मुखः ।
प्रमोदाय महेन्द्रस्य नाट्यं समुपदिष्टवान् ॥

6033

इन्द्राय वीक्षमाणस् तन्मुखमास्वादयन्ननन्ताय ।
स्पृहयामि चाद्य दयिताम् आलिङ्गन् कार्तवीर्याय ॥

6034

इन्द्रियं विजितं येन तेनैव भुवनं जितम् ।
यश् चेन्द्रियैः पराभूतः स सर्वत्र पराजितः ॥

6035

इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत् तौ ह्यस्य परिपन्थिनौ ॥

6036

इन्द्रियाणां जये योगं समातिष्ठेद् दिवानिशम् ।
जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥

6037

इन्द्रियाणां जये शूरो धर्मं चरति पण्डितः ।
सत्यवादी भवेद् वक्ता दाता भवति वा न वा ॥

6038

इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियम् ।
ततोऽस्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् ॥

6039

इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च ।
अहिंसया च भूतानाम् अमृतत्वाय कल्पते ॥

6040

इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् ।
संनियम्य तु तान्येव ततः सिद्धिं नियच्छति ॥

6041

इन्द्रियाणां प्रसङ्गेन धर्मस्यासेवनेन च ।
पापान् संयान्ति संसारान् अविद्वांसो नराधमाः ॥

6042

इन्द्रियाणां प्रसृष्टानां हयानामिव वर्त्मसु ।
धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद् ध्रुवम् ॥

6043

इन्द्रियाणां विचरतां विषयेष्वपहारिषु ।
संयमे यत्नमातिष्ठेद् विद्वान् यन्तेव वाजिनाम् ॥

6044

इन्द्रियाणां हि चरतां यन् मनोऽनुविधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥

6045

इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या ।
भूतेषु सततं तस्यै व्याप्त्यै देव्यै नमो नमः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc