भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 6006-6025

6006

इन्दुस् त्वद्यशसा जितोऽवनिपते भासांनिधिस् तेजसा कन्दर्पो वपुषा सुधाजलनिधिर्वाचो विलासेन च ।
तथ्यं ते जयशीलमेतदधुना त्वद्दानमद्दैन्ययोर् मध्ये कं नु विजेष्यतीति विषये दोलायते मे मनः ॥

6007

इन्दूदयश् चन्दनमिन्दुवक्त्रश् चैत्रस् तथा यस्य महाय संपत् ।
वपुश् च शृङ्गारमयं स मन्ये संतापकस् त्वं हरवह्नियोगात् ॥

6008

इन्दोः कलाकलापेन पङ्क्तिक्रमनिवेशिना ।
सर्वदुःखापनोदाय बालकानां कृता भुजाः ॥

6009

इन्दोः कान्तिं जडतरकरान् मत्तनागाद् गतिं वा त्रस्तान् नेत्रे हरसि हरिणात् तत्र किं नाम चित्रम् ।
एतच् चित्रं पुनरिह जगज्जैत्रकन्दर्पचाप- श्रीसर्वस्वं यदपहरसि प्रेयसि भ्रूविलासैः ॥

6010

इन्दोः किं द्रुहिणस्य वा सुरपतेः किं वा कृतान्तस्य वा किं भूतेश दिशास्थि भूषणगणेश्वाकृष्य देयं मया ।
इत्थं मण्डनमन्दिरोदरचरव्याहारतो भीकरात् भीता यस्य सुराः प्रसाधनविधौ पायात् स वः शंकरः ॥

6011

इन्दोः संक्षयरक्षिणाक्षतसुधा किं वेधसा निर्मिता किं धैर्यापहरा हरस्य विहिता कामेन कान्ता तनुः ।
किं तारुण्यवसन्तकान्तिललिता शृङ्गारसिक्ता लता किं लावण्यतरङ्गिणी पुनरियं जन्मान्तराप्ता रतिः ॥

6012

इन्दोरगतयः पद्मे सूर्यस्य कुमुदेंऽशवः ।
गुणास् तस्य विपक्षेऽपि गुणिनो लेभिरेऽन्तरम् ॥

6013

इन्दोरस्य त्रियामायुवतिकुचतटीचन्दनस्थासकस्य व्योमश्रीचामरस्य त्रिपुरहरजटावल्लरीकोरकस्य ।
कंदर्पक्षोणिपालस्फटिकमणिगृहस्यैतदाख ण्डलाशा- नासामुक्ताफलस्य स्थगयति जगतीं कोऽपि भासां विलासः ॥

6014

इन्दोरिवास्य पुरतो यद् विमुखी सापवारणा भ्रमसि ।
तत् कथय किं नु दुरितं सखि त्वया छाययेव कृतम् ॥

6015

इन्दोरेककलाया रुद्रेणोद्धृत्य मूर्धनि धृतायाः ।
स्थानमिव तुच्छमेतत् कलङ्करूपेण परिणमति ॥

6016

इन्दोर्लक्ष्म त्रिपुरजयिनः कण्ठमूलं मुरारिर् दिङ्नागानां मदजलमसीभाञ्जि गण्डस्थलानि ।
अद्याप्युर्वीवलयतिलक श्यामलिम्नावलिप्तान्य् आभासन्ते वद धवलितं किं यशोभिस् त्वदीयैः ॥

6017

इन्दोश् चन्दनबिन्दुनैव दशनच्छायं तदीयं मुखं चक्रं लोचनभल्लमार्जनविधौ शाणस्य तत् कुण्डलम् ।
भिन्नानां कुचकन्दरा स्मितसुधाकुल्येव मुक्तावली पादाब्जे ध्वनदिन्द्रनीलवलयं रोलम्बमालैव सा ॥
इन्दौ निन्द्या चकोरैरसमयति निशाजागरः पुण्डरीकैः भृङ्गैः शीधुन्यसङ्गः शरदि समधिका ग्लानिरिन्दीवरैश्च ।
भ्रूभङ्गे यस्य वैराकरयुवतिदृशामेकमेवोपमानं पश्याम्यश्रान्तबाष्पप्रकरमयझरीगूड् हचाराश् चमर्यः ॥

6018

इन्द्रं द्व्यक्षधरं त्वमन्थमुदधिं पञ्चाननं पद्मजं सिन्धुं स्वादुजलं शिवं सितगलं कामं च सद्विग्रहम् ।
शैलान् पक्षधरांस् तथैव च हयांल् लक्ष्मीपतिं पिङ्गलं दृष्टं सर्वमिदं क्वचिन् न रघुराड्दत्तं स्वयं हारितम् ॥

6019

इन्द्रं वै षण्ढमाहुर्मलिनमुडुपतिं माधवं गोपसूनुं व्यासं मत्सीतनूजं गतरसमुदधिं पावकं सर्वभक्षम् ।
वेश्यापुत्रं वसिष्ठं जनपदवचनैः पाण्डवाश् चान्यजाता इत्थं संचिन्त्य मह्यं कथय नरपते कस्य दोषा न सन्ति ॥

6020

इन्द्रः प्रक्षुब्धचित्तो दिशि दिशि सकलान् दिक्पतीन् सावधानान् कुर्वन् वज्रास्त्रपाणिः सुरवरवलितां देवसेनां निगृह्य ।
स्वर्गद्वारे यदीयोद्धतबलिनिहतप्रौढढक्कानिनादं श्रुत्वातिष्ठत् प्रकम्पत्कुचकलशतटीकिन्नरीगीयमानः ॥

6021

इन्द्रः प्रधानं दिवि दैवतेषु विप्रो मनुष्येषु नदीषु गङ्गा ।
गावः पशुष्वेषु धनेषु धान्यं सर्वत्र गात्रस्य शिरः प्रधानम् ॥
इन्द्रगोपकपरम्परा भृशं काननेषु शुशुभे विसर्पिणी ।
प्रावृषः सरभसागमाच् च्युता पद्मरागघटितेव कर्णिका ॥

6022

इन्द्रगोपैर्बभौ भूमिर् निचितैव प्रवासिनाम् ।
अनङ्गबाणैर्हृद्भेदस्रुतलोहितबिन्दुभिः ॥

6023

इन्द्रजिच् चण्डवीर्योऽसि नाम्नैव बलवानसि ।
धिक् धिक् प्रच्छन्नरूपेण युध्यसेऽस्मद्भयाकुलः ॥

6024

इन्द्रनीलशुकपक्षकोमला शङ्खकुन्दकुमुदेन्दुसंनिभा ।
तप्तकाञ्चनविकासिचम्पक- स्पर्धिनी वसुमती प्रशस्यते ॥

6025

इन्द्रस् त्वं नृप सुन्दरी तव शची पुत्रो जयन्तोपमो गेहं भाति च वैजयन्तसदृशं नागोऽभ्रमोर्वल्लभः ।
इत्थं बोधकरैरसत्यवचनैः स्वैरं स्तुतः स्वं हरिं वेत्ति प्रस्फुटविक्रमं स महिमा ज्ञेयो हरेर्मायिनः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc