महासुभाषितसंग्रह · श्लोक 5926-5945
इदं स्वजनदेहजातनयमातृभार्यामयं विचित्रमिह केनचिद् रचितमिन्द्रजालं ननु ।
क्व कस्य कथमत्र को भवति तत्त्वतो देहिनः स्वकर्मवशवर्तिनस् त्रिभुवने निजो वा परः ॥
इदं स्वस्त्ययनं श्रेष्ठम् इदं बुद्धिविवर्धनम् ।
इदं यशस्यं सततम् इदं निःश्रेयसं परम् ॥
इदं हि पुंसस् तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धदत्तयोः ।
अविच्युतोऽर्थः कविभिर्निरूपितो यदुत्तमश्लोकगुणानुवर्णनम् ॥
इदं हि प्राणयशसं क्रयविक्रयपत्तनम् ।
स्वामिसत्कारशल्यानाम् अत्रैवोद्धरणी क्रिया ॥
इदं हि माहात्म्यविशेषसूचकं वदन्ति चिह्नं महतां मनीषिणः ।
मनो यदेषां सुखदुःखसंभवे प्रयाति नो हर्षविषादवश्यताम् ॥
इदं हि वैदग्ध्यरहस्यमुत्तमं पठेन् न सूक्तिं कविमानिनः पुरः ।
न केवलं तां न विभावयत्यसौ स्वकाव्यबन्धेन विनाशयत्यपि ॥
इदमनन्यपरायणमन्यथा हृदयसंनिहिते हृदयं मम ।
यदि समर्थयसे मदिरेक्षणे मदनबाणहतोऽस्मि हतः पुनः ॥
इदमनुचितमक्रमश् च पुंसां यदिह जरस्यपि मान्मथो विकारः ।
यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा ॥
इदमनुदितहोतुः कोऽपि होमावसान- ज्वलदनलमवादीत् कुण्डमाखण्डलस्य ।
मणिघटमभिषेके प्रातरस्योचुरेके कलितकिरणतोयं मण्डलं चण्डभासः ॥
इदमन्तरमुपकृतये प्रकृतिचला यावदर्थिसंपदियम् ।
विपदि नियतोदयायां पुनरुपकर्तुं कुतोऽवसरः ॥
इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम् ।
यदि शब्दाह्वयं ज्योतिर् आ संसारान् न दीप्यते ॥
इदमन्यच् च देवर्षे रहस्यं सर्वयोषिताम् ।
दृष्ट्वैव पुरुषं हृद्यं योनिः प्रक्लिद्यते स्त्रियाः ॥
इदमपटु कपाटं जर्जरः पञ्जरोऽयं विरमति न गृहेऽस्मिन् क्रूरमार्जारयात्रा ।
शुक मुकुलितजिह्वं स्थीयतां किं वचोभिस् तव वचनविनोदे नादरः पामराणाम् ॥
इदमपरमद्भुततमं युवतिसहस्रैर्विलुप्यमानस्य ।
वृद्धिर्भवति न हानिर् यत् तव सौभाग्यकोषस्य ॥
इदमपास्य विरागि परागिणीर् अलिकदम्बकमम्बुरुहां ततीः ।
स्तनभरेण जितस्तबकानमन्- नवलते वलतेऽभिमुखं तव ॥
इदमप्रतिमं पश्य सरः सरसिजैर्वृतम् ।
सखे मा जल्प नारीणां नयनानि दहन्ति माम् ॥
इदममृतममेयं सेयमानन्दसिन्धुर् मधुमधुरमपीदं किंचिदन्तर्धुनोति ।
यदयमुदयलीलीलालसानां वधूनां रतिविनिमयभाजां केलिभिर्याति कालः ॥
इदमम्लानमानाया लग्नं स्तनतटे तव ।
छाद्यतामुत्तरीयेण नवं नखपदं सखि ॥
इदमयुक्तमहो महदेव यद् वरतनोः स्मरयत्यनिलोऽन्यदा ।
स्मृतसयौवनसोष्मपयोधरान् सतुहिनस् तु हिनस्तु वियोगिनः ॥
इदमशिशिरैरन्तस्तापाद् विवर्णमणीकृतं निशि निशि भुजन्यस्तापाङ्गप्रसारिभिरश्रुभिः ।
अनभिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात् कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0