महासुभाषितसंग्रह · श्लोक 5906-5925
इदं त्विहोत्पातयुगं प्र्थिव्यां महाभयं शाकुनिका वदन्ति ।
यद् वायसो मैथुनसंनिविष्टो दृश्येत यद् वा धवलः कदाचित् ॥
इदं दूर्वाकाण्डद्युतिमुषि कपोले कतिपयैः श्रमाम्भोभिः कीर्णं सहजबकुलामोदसुभगम् ।
समाकाङ्क्षे ताम्राधरमनुमनुष्व प्रियतमे मनोज्ञं ते पातुं मुखकमलमाघ्रातुमथवा ॥
इदं नभसि भीषणभ्रमदुलूककोलाहले निशाचरविलासिनीनिवहदत्तनेत्रोत्सवे ।
परिस्फुरति निर्भरप्रचुरपङ्कमग्नोल्लसद्- वराहकुलमांसलं प्रबलबन्दमन्धं तमः ॥
इदं नासीन् न चोत्पन्नं न चासीन् न भविष्यति ।
तत् तद् ब्रह्मैव सद्रूपम् इदमित्थमवस्थितम् ॥
इदं नृपप्रार्थिभिरुज्झितोऽर्थिभिर् मणिप्ररोहेण विवृध्य रोहणः ।
कियद्दिनैरम्बरमावरिष्यते मुधा मुनिर्विन्ध्यमरुन्ध भूधरम् ॥
इदं परमसुन्दरं तनुपुरं कुरङ्गीदृशां निवार्य खलु शैशवं स्वयमनेन नीतं बलात् ।
तदागमनशङ्कया मकरकेतुना किं कृतं पयोधरधराधरौ त्रिवलिवाहिनीदुस्तरौ ॥
इदं प्रकृत्या विषयैर्वशीकृतं परस्परस्त्रीधनलोलुपं जगत् ।
सनातने वर्त्मनि साधुसेविते प्रतिष्ठते दण्डभयोपपीडितम् ॥
इदं प्रायो लोके न परिचितपूर्वं नयनयोर् न याच्ञा यत् पुंसः सुगुणपरिमाणं लघयति ।
विशद्भिर्विश्वात्मा स्ववपुषि बलिप्रार्थनकृते त्रपालीनैरङ्गैर्यदयमभवद् वामनतनुः ॥
इदं मघोनः कुलिशं धारासंनिहितानलम् ।
स्मरणं यस्य दैत्यस्त्रीगर्भपाताय कल्पते ॥
इदं मदं चन्द्रमसः समन्ताद् अस्मत्सपत्नस्य हरिष्यतीति ।
यस्मिन् पुरन्ध्रीवदनस्यलक्ष्मीं निजां व्यधुः प्राभृतमम्बुजानि ॥
इदं युगसहस्रेषु भविष्यदभवद् दिनम् ।
तदप्यद्यत्वमापन्नं का कथा मरणावधेः ॥
इदं लब्धमिदं नष्टम् इदं लप्स्ये मनोरथम् ।
इदं चिन्तयतामेव जीर्णमायुः शरीरिणाम् ॥
इदं वक्त्रं साक्षाद् विरहितकलङ्कः शशधरः सुधाधाराधारश् चिरपरिणतं बिम्बमधरः ।
इमे नेत्रे रात्रिंदिवमधिकशोभे कुवलये तनुर्लावण्यानां जलधिरवगाहे सुखतरः ॥
इदं विश्वं कुटुम्बो न इति येषां सुनिश्चयः ।
ते शान्ताः परमोदाराः केषां वन्द्या न साधवः ॥
इदं विश्वं पाल्यं विधिवदभियुक्तेन मनसा प्रियाशोको जीवं कुसुममिव घर्मो ग्लपयति ।
स्वयं कृत्वा त्यागं विलपनविनोदोऽप्यसुलभस् तदद्याप्युच्छ्वासो भवति ननु लाभो हि रुदितम् ॥
इदं व्योमसरोमध्ये भाति चन्द्रसितोत्पलम् ।
मलिनोऽन्तर्गतो यत्र कलङ्को भ्रमरायते ॥
इदं शरीरं पुरुषस्य मोहजं यथा पृथग् भौतिकमीयते गृहम् ।
यथौदकैः पार्थिवतैजसैर्जनः कालेन जातो विकृतो विनश्यति ॥
यथानलो दारुषु भिन्न ईयते यथानिलो देहगतः पृथक् स्थितः ।
यथा नभः सर्वगतं न सज्जते तथा पुमान् सर्वगुणाश्रयः परः ॥
इदं शरीरं श्लथसंधि जर्जरं पतत्यवश्यं परिणामदुर्वहम् ।
किमौषधं पृच्छसि मूढ दुर्मते निरामयं कृष्णरसायनं पिब ॥
इदं शीतं पाथः पिबत पथिका मुञ्चत मनाक् पथः श्रान्तिं कान्तास्मृतिजनितचिन्ताद्विगुणिताम् ।
इति स्फीतापाङ्गं मृदुमधुरवाग्भङ्गिहसितं प्रपापालीमाला हरति तरुणानां पथि गतिम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0