महासुभाषितसंग्रह · श्लोक 5886-5905
इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य संभाव्य चैव ।
श्रोष्यत्यस्मात् परमवहिता सौम्य सीमन्तिनीनां कान्तोदन्तः सुहृदुपनतः संगमात् किंचिदूनः ॥
इत्यादिगुणसंपन्ने लोकयात्राविदि स्थिरे ।
निर्वृतः पितरीवास्ते यत्र लोकः स पार्थिवः ॥
इत्यादि दूष्यान् संदूष्य प्रजानामभिवृद्धये ।
विनयञ् श्रियमुत्कर्षं राजा शल्यं समुद्धरेत् ॥
इत्युक्तवत्या यदलोपि लज्जा सानौचिती चेतसि नश् चकास्तु ।
स्मरस् तु साक्षी तददोषतायाम् उन्माद्य यस् तत्तदवीवदत् ताम् ॥
इत्युद्गते शशिनि पेशलकान्तदूती- संलापसंचलितलोचनमानसाभिः ।
अग्राहि मण्डनविधिर्विपरीतभूषा- विन्यासहासितसखीजनमङ्गनाभिः ॥
इत्येतत् तपसो देवा महाभाग्यं प्रचक्षते ।
सर्वस्यास्य प्रपश्यन्तस् तपसः पुण्यमुद्भवम् ॥
इत्येताः कुटिलतराः क्रूराचारा गतत्रपाश् चपलाः ।
यो नाम वेत्ति रामाः स स्त्रीभिर्णैव वञ्च्यते मतिमान् ॥
इत्येवं बहुहृदया बहुजिह्वा बहुकराश् च बहुमायाः ।
तत्त्वेन सत्यरहिताः को जानाति स्फुटं वेश्याः ॥
इत्येवं योषितो राजन् भेदस्य व्यसनस्य च ।
पराभवस्य च पदं सेवेताशङ्कितोऽथ ताः ॥
इदं कविवरैर्नित्यम् आख्यानमुपजीव्यते ।
उदयप्रेप्सुभिर्भृत्यैर् अभिजात इवेश्वरः ॥
इदं किं ते न्यस्तं वलयिनि करे वक्त्रकमलं न युक्तः कोपोऽयं प्रणयिनि निरागस्यपि जने ।
ब्रुवाणे मय्येवं श्वसनविषमोत्कम्पितकुचं मृगाक्ष्यास् तत्कालं नयनजलमेवोत्तरमभूत् ॥
इदं किलाव्याजमनोहरं वपुस् तपःक्षमं साधयितुं य इच्छति ।
ध्रुवं स नीलोत्पलपत्रधारया समिल्लतां छेत्तुमृषिर्व्यवस्यति ॥
इदं कृतमिदं कार्यम् इदमन्यत् कृताकृतम् ।
एवमीहासुखासक्तं कृतान्तः कुरुते वशे ॥
इदं कृष्णं कृष्णं प्रियतम ननु श्वेतमथ किं गमिष्यामो यामो भवतु गमनेनाथ भवतु ।
पुरा येनैवं मे चिरमनुसृता चित्तपदवी स एवान्यो जातः सखि परिचिताः कस्य पुरुषाः ॥
इदं च त्वां सर्वपरं ब्रवीमि पुण्यं पदं तात महाविशिष्टम् ।
न जातु कामान् न भयान् न लोभाद् धर्मं त्यजेज् जीवितस्यापि हेतोः ॥
इदं ज्ञेयमिदं ज्ञेयम् इति यस् तृषितश् चरेत् ।
अपि कल्पसहस्रेषु नैव ज्ञेयमवाप्नुयात् ॥
इदं तत् कालिन्दीतटमिह हि कंसासुरभिदो यशः शृण्वद् वक्त्रं स्खलितकवलं गोकुलमभूत् ।
भ्रमाद् वेणुक्वाणप्रणयमसृणोत्तारमधुर- स्वराभिर्गोपीभिर्दिशि दिशि समुद्गीर्णमनिशम् ॥
इदं तत् स्नेहसर्वस्वं सममाढ्यदरिद्रयोः ।
अचन्दनमनौशीरं हृदयस्यानुलेपनम् ॥
इदं तावच् चित्रं यदवनितले पार्वणशशी कलङ्कादुन्मुक्तः किमपि च तदन्तर्विलसति ।
प्रवालं माणिक्यं कुवलयदलं मन्मथधनुर् मनोवीणावादध्वनिरिति महच्चित्रमधरम् ॥
इदं ते केनोक्तं कथय कमलातङ्कवदने यदेतस्मिन् हेम्नः कटकमिति धत्से खलु धियम् ।
इदं तद् दुःसाधाक्रमणपरमास्त्रं स्मृतिभुवा तव प्रीत्या चक्रं करकमलमूले विनिहितम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0