भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 5866-5885

5866

इत्थं प्रज्ञैव नामेह प्रधानं लोकवर्तनम् ।
जीवत्यर्थदरिद्रोऽपि धीदरिद्रो न जीवति ॥

5867

इत्थं फलति शुद्धेन सिक्तं संकल्पवारिणा ।
पुण्यबीजमपि स्वल्पं पुंसां कृषिकृतामिव ॥

5868

तदेव दूषितं देवि दुष्टसंकल्पपाथसा ।
फलत्यनिष्टम् ... ... ... ... ॥

5869

इत्थं मधूत्थं रसमुद्गिरन्ती तदोष्ठबन्दूकधनुर्विसृष्टा ।
कर्णात् प्रसूनाशुगपञ्चबाणी वाणीमिषेणास्य मनो विवेश ॥

5870

इत्थं युक्तिमुपायानां कुर्वाणस्य चतुष्टयीम् ।
व्रजतीन्दुप्रभागौरं परैरक्षय्यतां यशः ॥

5871

इत्थं विहृत्य वनिताभिरुदस्यमानं पीनस्तनोरुजघनस्थलशालिनीभिः ।
उत्सर्पितोर्मिचयलङ्घिततीरदेशम् औत्सुक्यनुन्नमिव वारि पुरः प्रतस्थे ॥

5872

इत्थं सभापतिर्भूत्वा यः काव्यानि परीक्षते ।
यशस् तस्य जगद्व्यापि स सुखी तत्र तत्र च ॥

5873

इत्थं समुत्थविरहानलतीव्रताप- संतापिताङ्ग करिपुङ्गव मुञ्च शोकम् ।
धात्रा स्वहस्तलिखितानि ललाटपट्टे को वाक्षराणि परिमार्जयितुं समर्थः ॥

5874

इत्थं सुबुद्धिरल्पेन देव यत्नेन बोध्यते ।
न कृच्छ्रेणापि महता निर्विचारमतिः पुनः ॥

5875

इत्थं स्वदुर्नयविपाकवशेन दिव्याः शापच्युता ह्यवतरन्ति मनुष्यलोके ।
भुक्त्वा फलं तदुचितं च निजां गतिं ते पूर्वार्जितेन सुकृतेन पुनः प्रयान्ति ॥

5876

इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम् ।
शाम्येत् प्रत्यपकारेण नोपकारेण दुर्जनः ॥

5877

इत्यगुह्यं निगूहन्ते गुह्यं प्रकटयन्ति च ।
मौर्ख्याभिमानेनादातुं मूर्खाः प्रत्ययमात्मनि ॥

5878

इत्यङ्गैः संयुतः सर्वैर् देहिनो बालकाकृतिः ।
मातुराहाररसतो देहे गर्भोऽभिवर्धते ॥

5879

इत्यज्ञानतमश्छन्नाः स्वदोषोन्मार्गगामिनः ।
अपुरस्कृतसच्छास्त्रदीपा भ्रश्यन्ति निश्चितम् ॥

5880

इत्यनर्थाय शब्दैकपरो तात्पर्यविज् जडः ।
... ... ... ... ... ... ॥

5881

इत्यनुद्वेगशीला ये भव्या धैर्यावलम्बनाः ।
दूरभ्रष्टामपि निजां भूमिं संप्राप्नुवन्ति ते ॥

5882

इत्यन्यदुपचारेण मित्रमन्यत् तु सत्यतः ।
तुल्येऽपि स्निग्धतायोगे तैलं तैलं घृतं घृतम् ॥

5883

इत्यन्यरक्तचित्ता स्त्रीभुजङ्गी हन्त्यसंशयम् ।
... ... ... ... ... ... ॥

5884

इत्यबुद्धिधनाधाननिधानैर्विविधोदयैः ।
कूटपण्यैरसामान्यैस् तारुण्यमतिवाह्यते ॥

5885

इत्यर्थलोभान् मिथ्यैव विज्ञानख्यापनेच्छवः ।
मूर्खाः पुत्रमपि घ्नन्ति न रज्येत् तेषु बुद्धिमान् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc