महासुभाषितसंग्रह · श्लोक 5846-5865
इतो न किंचित् परतो न किंचिद् यतो यतो यामि ततो न किंचित् ।
विचार्यमाणं हि जगन् न किंचित् स्वात्मावबोधादधिकं न किंचित् ॥
इतो भ्रष्टस् ततो भ्रष्टः परमेकान्तिवेषभाक् ।
न सम्सारसुखं तस्य नैव मुक्तिसुखं भवेत् ॥
इतो मृत्युरितो व्याधिर् इतो विपदितो जरा ।
चतुरङ्गा तुल्यबला हन्ति लोकमनित्यता ॥
इतो विद्युत्पुञ्जस्फुरितमसकृद् भावयतु माम् इतः केकानेका हरतु हृदयं निर्दयमिदम् ।
इतः कामो वामः प्रहरतु मुहुः पुङ्खितशरो गतासि त्वं दूरे चपलनयने प्रेयसि यतः ॥
इतो विद्युद्वल्लीविलसितमितः केतकतरु- स्फुरद्गन्धः प्रोद्यज्जलदनिनदस्फूर्जितमितः ।
इतः केकिक्रीडाकलकलरवः पक्ष्मलदृशां कथं यास्यन्त्येते विरहदिवसाः संभृतरसाः ॥
इतो विपिनपङ्क्तयस् तिलकिता रसालाङ्कुरैर् मरुन्मलयभूरितः कलमितः पिकीनां रुतम् ।
इतश्च नवचम्पकैः सुरभिताः समन्ताद् दिशस् तदद्य मयि तां विना भजतु घस्मरत्वं स्मरः ॥
इतो हास्यतरं लोके किंचिदन्यन् न विद्यते ।
यत् तु दुर्जन इत्याह सज्जनं दुर्जनः स्वयम् ॥
इत्थं कविकुटुम्बस्य वचांसि विचिनोति यः ।
अनिद्धवचनस्यापि तस्य वश्या सरस्वती ॥
इत्थं केलिततीर्विहृत्य यमुनाकूले समं राधया तद्रोमावलिमौक्तिकावलियुगे वेणीभ्रमं बिभ्रति ।
तत्राह्लादिकुचप्रयागफलयोर्लिप्सावतोर्हस्तयोर् व्यापाराः पुरुषोत्तमस्य ददतु स्फीतं मुदां संपदम् ॥
इत्थं क्रियासु निवसन्त्यपि यासु तासु पुंसां श्रियः प्रबलसत्त्वबहिष्कृतासु ।
एवं च साहसधनेष्वथ बुद्धिमत्सु संतुष्य दाननिरताः क्षितिपा भवन्ति ॥
इत्यैहिकेन च पुरा विहितेन चापि स्वेनैव कर्मविभवेन शुभाशुभेन ।
शश्वद् भवेत् तदनुरूपविचित्रभोगः सर्वो हि नाम ससुरासुर एष सर्गः ॥
इत्थं चोपार्जितो यत्नाद् गुणोऽपि विधुरे विधौ ।
संपत्तये न न परं जायते तु विपत्तये ॥
मूले ह्यविकृते सदा सिक्ते प्रज्ञानवारिणा ।
नयालवालः फलति प्रायः पौरुषपादपः ॥
इत्थं तल्पतलाधिरोहणमियं पर्णार्पणप्रक्रिया शय्याया वचनक्रमस्य दयितस्यैवंविधाराधना ।
एवं केलिगृहोपदेहलि बलादानीयमाना मुहुश् चाटूक्तिप्रकरैश् चिरं नववधूरालीभिरध्याप्यते ॥
इत्थं तेन निरीक्षितं न च मयाप्येवं समालोकितस् तेनोक्तं सुभगेन तत्र न मया दत्तं वचो मन्दया ।
तत्सत्यं कथयालि किं स सुभगः कुप्येन् न मह्यं गत इत्युक्त्वा सुदृशा कयापि वलितग्रीवं दृशौ स्फारिते ॥
इत्थं दुरवधार्यैव स्त्रीचित्तस्य गतिः किल ।
अन्यासक्तिं च कुर्वन्ति म्रियन्ते च पतिं विना ॥
इत्थं धर्मार्जिता लक्ष्मीर् आसंतत्यनपायिनी ।
इतरा तु जलापाततुषारकणनश्वरी ॥
अतो यतेत धर्मेण धनमर्जयितुं पुमान् ।
राजा तु सुतरां येन मूलं राज्यतरोर्धनम् ॥
इत्थं वृढतरवामित- मनसां पुंसामसांप्रतं पुरतः ।
वेशविलासवतीनाम् अशरीरशरव्यथाकथनम् ॥
इत्थं नारीर्घटयितुमलं कामिभिः काममासन् प्रालेयांशोः सपदि रुचयः शान्तमानान्तरायाः ।
आचार्यत्वं रतिषु विलसन्मन्ममथश्रीविलासा ह्रीप्रत्यूहप्रशमकुशलाः शीधवश् चक्रुरासाम् ॥
इत्थं पशुपतिपेशल- पाशकलीलाप्रयुक्तवक्रोक्तेः ।
हर्षवशतरलतारकम् आननमव्याद् भवान्या वः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0