महासुभाषितसंग्रह · श्लोक 5826-5845
इति राज्यकलत्रमित्रपुत्रान् गृहधामं च तृणाय मन्यमानः ।
गुरुसत्त्वरजस्तमः कलङ्कां प्रकृतिं हातुमगाद् वनं नरेन्द्रः ॥
इति वचनं भूमिपतेः श्रुत्वा मन्त्री विहस्य सासूयः ।
तमुवाच कस्य राजन् वेश्याचरितेऽस्ति विश्वासः ॥
इति वदति सखीजने निमीलद्- द्विगुणितसान्द्रतराक्षिपक्ष्ममाला ।
अपतदलिभयेन भर्तुरङ्कं भवति हि विक्लवता गुणोऽङ्गनानाम् ॥
इति वदति सखीजनेऽनुरागाद् दयिततमामपरश् चिरं प्रतीक्ष्य ।
तदनुगमवशादनायतानि न्यधित मिमान इवावनीं पदानि ॥
इति विरचितबन्धा पद्धतिर्या मयेयं सकलगुणिगणानां प्रीतये सास्तु नित्यम् ।
विपुलविमलदीव्यत्सत्कलानां निधानं तरुणतरणिरुद्धा विद्विषत्कौशिकानाम् ॥
इति विस्मृतान्यकरणीयमात्मनः सचिवावलम्बितधुरं धराधिपम् ।
परिवृद्धरागमनुबन्धसेवया मृगया जहार चतुरेव कामिनी ॥
इति शासति सेनान्यां गच्छतस् ताननेकधा ।
निषिध्य हसता किंचित् तस्थे तत्रान्धकारिणा ॥
इति संसारदुःखार्कतापतापितचेतसाम् ।
विमुक्तिपादपच्छायाम् ऋते कुत्र सुखम् नृणाम् ॥
इति सशरीरया क्षणमिव क्षणदाः क्षपयन् सह विशरीरया दयितया विरसान् दिवसान् ।
दिनरजनीविहारविपरीतमहं चरितै रथचरणाह्वयस्य चरितानि विडम्बितवान् ॥
इति स्त्रियो देवि महाकुलोद्गताः विशुद्धधीरैश् चरितैरुपासते ।
सदैव भर्तारमनन्यमानसाः पतिः सतीनां परमं हि दैवतभ् ॥
इति स्फुटं तद्वचसस्तयादरात् सुरस्पृहारोपविडम्बनादपि ।
कराङ्कसुप्तैककपोलकर्णया श्रुतं च तद्भाषितमश्रुतं च तत् ॥
इति स्मरः शीघ्रमतिश् चकार तं वधूं च रोमाञ्चभरेण कर्कशौ ।
स्खलिष्यति स्निग्धतनुः प्रियादियं म्रदीयसी पीडनभीरुदोर्युगात् ॥
इति स्म राजा नयवर्त्मना व्रजन् समुद्यमी मण्डलशुद्धिमाचरेत् ।
विराजते साधु विशुद्धमण्डलः शरच्छशीव प्रतिरञ्जयन् प्रजाः ॥
इति स्म राजा विनयं नयान्वितो निषेवमाणो नरदेवसेवितम् ।
पदं समाक्रामति भास्वरं श्रियः शिरो महारत्नगिरेरिवोन्नतम् ॥
इतिहासपुराणानि शृणुयात् तदनन्तरम् ।
भुक्तवान् विहरेच् चैव स्त्रीभिरन्तःपुरे सह ॥
ईतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
बिभेत्यल्पश्रुताद् वेदो मामयं प्रचरिष्यति ॥
इतिहासोत्तमादस्माज् जायन्ते कविबुद्धयः ।
पञ्चभ्य इव भूतेभ्यो लोकसंविधयस् त्रयः ॥
इतीरयित्वा विरतां स तां पुनर् गिरानुजग्राहतरां नराधिपः ।
विरुत्य विश्रान्तवतीं तपात्यये घनाघनश् चातकमण्डलीमिव ॥
इतीष्टमप्यनिष्टाय जायतेऽविधिना कृतम् ।
तस्मान् न विधिमुत्सृज्य प्राज्ञः कुर्वीत किंचन ।
अप्रेक्षापूर्वकारी च निन्द्यतेऽवद्यकृत् क्षणात् ॥
इतो गङ्गाभङ्गा घटिततटभङ्गा पुनरितो दवज्वाला ज्वालाज्वलिततरुमाला वनभुवः ।
सरंहः सिंहोऽग्रे ध्वनति मम हंहो न हि गतिर् विना दैवं दैवं हरिणशिशुरेवं प्रलपति ॥
इतो दावज्वालः स्थलभुव इतो जालजटिला इतो व्याधो धावत्ययमनुपदं वक्रितधनुः ।
इतोऽप्यग्रे तिष्ठत्ययमजगरो विस्तृतमुखः क्व यायात् किं कुर्यान् मृगशिशुरयं दैववशगः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0