महासुभाषितसंग्रह · श्लोक 5806-5825
इति देव भवत्युदारसत्त्वो दृढभक्तश्च विलासिनीजनोऽपि ।
अवरोधसमो महीपतीनां किमुतान्यः कुलजः पुरन्ध्रिलोकः ॥
इति देव सदैव हास्यभावं परिभावे च जनस्य निन्द्यतां च ।
विपदास्पदतां च यान्ति मूढा इह सन्तस् तु भवन्ति पूजनीयाः ॥
इति द्विकृत्वः शुचिमृष्टभोजिनां दिनानि तेषां कतिचिन् मुदा ययुः ।
द्विरष्टसंवत्सरवारसुन्दरी- परीष्टिभिस् तुष्टिमुपेयुषां निशि ॥
इति धर्मतरोर्मूलम् अशुद्धं यस्य मानसम् ।
शुद्धं यस्य च तद्रूपं फलं तस्य न संशयः ॥
इति निखिलमुदारमर्थसार्थ- प्रणिहितमेकमिहेव खड्गशास्त्रे ।
गिरिशमतमिदं निषेव्य चक्रे क्षितिपतिमन्त्रिसमूहचक्रवर्ती ॥
इति नेत्रादिविकारैर् वशमुपनीतं प्रलीनधैर्याङ्गम् ।
मारग्रहाभिभूतं परिमृष्टप्राङ्निराकृतिस्मरणम् ॥
प्रादुर्भूतरिरंसं क्षणे क्षणे जघनदेशगतदृष्टिम् ।
पक्वाम्रमिव विमोक्ष्यसि पूर्ववदाचूष्य निःशेषम् ॥
इति पथि विनिवेशितात्मनो रिपुरपि गच्छति साधु मित्रताम् ।
तदवनिपतिमत्सरादृते विनयगुणेन जगद् वशं नयेत् ॥
इति परिगणितार्थः शास्त्रमार्गानुसारी नियमयति यतात्मा यः प्रजा दण्डनीत्या ।
अपुनरपगमाय प्राप्तमार्गप्रचारा सरित इव समुद्रं संपदस्तं विशन्ति ॥
इति परिणयमित्थं यानमेकत्र याने दरचकितकटाक्षप्रेक्षणं चानयोस् ततत् ।
दिवि दिविषदधीशाः कौतुकेनावलोक्य प्रणिदधुरिव गन्तुं नाकमानन्दसान्द्राः ॥
इति पूर्वकर्मनियतं भवितव्यं जगति यस्य जन्तोर्यत् ।
तदयत्नेन स पुरतः पतितं प्राप्नोत्यसाध्यमपि ॥
इति प्रकुपितोरगप्रमुखभङ्गुरां सर्वदा निधाय निजचेतसि प्रबलदुःखदां संसृतिम् ।
विमुञ्चत परिग्रहग्रहमनार्जवं सज्जना यदीच्छत सुखामृतं रसितुमस्तसर्वाशुभम् ॥
इति प्रवीरे सुभगे च सत्यतो विवेकिनीनामपि देव योषिताम् ।
चलं मनो धावति यत्र कुत्रचिद् विशुद्धसत्त्वा विरलाः पुनः स्त्रियः ॥
इति प्रिये पृच्छति मानविह्वला कथंचिदन्तर्धृतबाष्पगद्गदम् ।
न किंचिदित्येव जगाद यद् वधूः कियन् न तेनैव तयास्य वर्णितम् ॥
इति बहुभिरुपायैः कुट्टनी कामुकानां कृतसुकृतविहीना वञ्चनां सा कृतघ्ना (?) ।
वनभुवि मृगबन्धं हन्त पश्यन्ति नित्यं तदपि हरिणशावाः कूटपाशं विशन्ति ॥
इति मदमदनाभ्यां रागिणः स्पष्टरागान् अनवरतरतश्रीसङ्गिनस् तानवेक्ष्य ।
अभजत परिवृत्तिं साथ पर्यस्तहस्ता रजनिरवनतेन्दुर्लज्जयाधोमुखीव ॥
इति मुषितधियः श्रिया प्रयान्त्या रभसवशादविचिन्त्य दग्धभूपाः ।
बलभरबहुमानतः पतङ्ग- व्रतमुपयान्ति परप्रतापदीपे ॥
इति यस्मादुभौ लोकौ धारयत्यात्मवान् नृपः ।
प्रजानां च ततः सम्यग् दण्डं दण्डीव धारयेत् ॥
इति रतिसमयोपदेशयुक्त्या रतगुरुदर्शितया पुरंध्रिलोकः ।
निजपरपरभागवृत्तिमौज्झीत् स्मरपरमाद्वयभूमिकानिलीनः ॥
इति राजगुणानेतान् यथोक्तान् योऽनुतिष्ठति ।
अनुभूयेह भद्राणि प्रेत्य स्वर्गे महीयते ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0