महासुभाषितसंग्रह · श्लोक 5786-5805
इतरोपायदुःसाध्ये चण्डदण्डो महीपतिः ।
अदुष्टायत्यसौ नीतेर् अश्नाति विपुलं फलम् ॥
इतश्चञ्चच्चूतच्युतमधुचया वान्ति चतुराः समीराः संतोषं दिशि दिशि दिशन्तो मधुलिहाम् ।
निशान्ते कान्तानां स्मरसमरकेलिश्रममुषो विजृम्भन्ते जृम्भाकलितकमलामोदसुहृदः ॥
इतश्चन्द्रः सान्द्रः स्मरमयवयःसंधिमधुरः स्फुरन्मुग्धाकेलिस्मितमिव मयूखैः सुखयति ।
चकोराणां चक्रं कुमुदसमुदायोऽपि च शरन्- निशारम्भेऽमुष्मिन् समसमयमन्तर्विकसति ॥
इतश्चेतश्चाद्भिर्विघटिततटः सेतुरुदरे धरित्री दुर्लङ्घ्या बहुलहिमपङ्को गिरिरयम् ।
इदानीं निर्वृत्ते करितुरगनीराजनविधौ न जाने यातारस् तव च रिपवः केन च पथा ॥
इतस्ततश् चङ्क्रमणो रजोभिः क्रीडन्मनोमत्तमतङ्गजोऽयम् ।
यः सर्वदा पिप्पलभोगतुष्टस् तच्छान्तये त्वं हरिमाश्रयस्व ॥
इतस्ततो भषन् भूरि न पतेत् पिशुनः शुनः ।
अवदाततया किं च न भेदो हंसतः सतः ॥
इतस्ततो वातविधूतिचञ्चलैर् नीरन्ध्रिताशागगनैर्ध्वजांशुकैः ।
लक्षैः क्वणत्काञ्चनकिङ्किणीकुलैर् अमज्जि धूलीजलधौ नभोगते ॥
इतस्ततो वान्ति विशिष्य यस्यां वाताः शकृद्वेश्मविहारविस्राः ।
सा वर्ण्यते रौरवराजधानी केन प्रतोली मनसाप्यगम्या ॥
इतस्ततोऽस्मिन् विलसन्ति मेरोः समानवप्रे मणिसानुरागाः ।
स्त्रियश्च पत्यौ सुरसुन्दरीभिः समा नवप्रेमणि सानुरागाः ॥
इतस्तावन् नेत्रे वलय मलयाद्रे निधिरपाम् अपारस्त्वत्पादप्रणयपरतन्त्रो निवसति ।
अथात्मानं किं न स्मरसि कुलशैलं किमयशः- पताका सर्पौघैः प्रतिशिखरिशाखासु वहसि ॥
इतस् त्रसद्विद्रुतभूभृदुज्झिता प्रियाथ दृष्टा वनमानवीजनैः ।
शशंस पृष्टाद्भुतमात्मदेशजं शशित्विषः शीतलशीलतां किल ॥
इति कृतवचनायाः कश्चिदभ्येत्य बिभ्यद् गलितनयनवारेर्याति पादावनामम् ।
करुणमपि समर्थं मानिनां मानभेदे रुदितमुदितमस्त्रं योषितां विग्रहेषु ॥
इति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः ।
समारुरुक्षुर्दिवमायुषः क्षये ततान सोपानपरंपरामिव ॥
इति गदन्तमनन्तरमङ्गना भुजयुगोन्नमनोच्चतरस्तनी ।
प्रणयिनं रभसादुदरश्रिया वलिभयालिभयादिव सस्वजे ॥
इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेशरेण ।
श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च ॥
इति गन्तुमिच्छुमभिधाय पुरः क्षणदृष्टिपातविकसद्वदनाम् ।
स्वकरावलम्बनविमुक्तगलत्- कलकाञ्चि कांचिदरुणत् तरुणः ॥
इति गुह्यतमं शास्त्रम् इदमुक्तं मयानघ ।
एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत ॥
इति जगति न रक्षितुं समर्थः क्वचिदपि कश्चिदपि प्रसह्य नारीम् ।
अवति तु सततं विशुद्ध एकः कुलयुवतीं निजसत्त्वपाशबन्धः ॥
एवं चेर्ष्या नाम दुःखैकहेतुर् मोघः पुंसां द्वेषदायी परेषाम् ।
योऽयं मा भूद् रक्षणायाङ्गनानाम् अत्यौत्सुक्यं प्रत्युतासां तनोति ॥
इति तत्त्वधियः परिचिन्त्य बुधाः सकलस्य जनस्य विनश्वरताम् ।
न मनागपि चेतसि संदधते शुचमङ्गयशःसुखनाशकराम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0