भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 5766-5785

5766

इडा नासापुटे वामे पिङ्गला दक्षिणे भवेत् ।
सुषुम्णा तालु भित्त्वैव ब्रह्मद्वारं प्रवर्तिता ॥

5767

इडायां यदि भूम्यम्बुतत्त्वे प्रवहतस् तदा ।
स्थिरसौम्यादिकार्याणाम् आरम्भः सिद्धिकृद् भवेत् ॥

5768

इडा सोमस्य नाडी स्यात् पिङ्गला सूर्यनाडिका ।
इडा सौम्या भवेत् वामा पिङ्गलोग्रा च दक्षिणा ॥

5769

इतः काकानीकं प्रतिभयमितः कौशिकरुताद् इतो गृध्रव्यूहः कुलमिदमितः कङ्कवयसाम् ।
श्मशानावस्थेऽस्मिन्नखिलगुणवन्ध्ये हतमराव् अपि द्वित्राः केचिन् न खलु कलवाचः शकुनयः ॥

5770

इतः केकी नादैस् तुदति शतकोटिप्रतिभटैर् इतः कामः कामं कठिनतरबाणैः प्रहरति ।
इतो गर्जत्युच्चैर्जलधरगणो भीमनिनदैर् विना नाथं जाने न सखि भविता किं ननु मम ॥

5771

इतः क्रोधो गृध्रः प्रकटयति पक्षं निजमितः सृगाली तृष्णेयं विवृतवदना धावति पुरः ।
इतः क्रूरः कामो विचरति पिशाचश् चिरमहो श्मशानं संसारः क इह पतितः स्थास्यति सुखम् ॥

5772

इतः परानर्भकहार्यशस्त्रान् वैदर्भि पश्यानुमता मयासि ।
एवंविधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममैभिः ॥

5773

इतः पौरस्त्यायां ककुभि विवृणोति क्रमदलत्- तमिस्रामर्माणं किरणकणिकामम्बरमणिः ।
इतो निष्क्रामन्ती नवरतिगुरोः प्रोञ्छति वधूः स्वकस्तूरीपत्राङ्कुरमकरिकामुद्रितमुरः ॥

5774

इतः प्रत्यादेशात् स्वजनमनुगन्तुं व्यवसिता मुहुस् तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे ।
पुनर्दृष्टिं बाष्पप्रसरकलुषामर्पितवती मयि क्रूरे यत् तत् सविषमिव शल्यं दहति माम् ॥

5775

इतः प्रालेयांशुः प्रलयमकरोत् कैरवकुल- क्लमच्छेदोत्सेकैः किरणनिकरैरेष तमसाम् ।
इतोऽप्याज्ञावज्ञां सखि न सहते दुःसहतर- प्रतापः पञ्चेषुस् तदिह शरणं साहसरसः ॥

5776

इतः शुक्ला चन्द्रद्युतिभिरिह रक्तारुणकरैस् तमिस्रैरप्यन्तःस्खलितगतिभिर्मेचकरुचिः ।
प्रभातश्रीरेषा विलसति पुरस्था सुकृतिनां मिमङ्क्षूणां जह्नुद्युमणिविधिजासंगम इव ॥

5777

इतः शोचिः प्राच्यां दिशि दिशति भानोररुणताम् इतो भृङ्गः कूजन्नभिकमलिनीं प्रोच्चलति च ।
इतो निर्यान्त्युच्चैर्विहितसुरतक्लान्तिशिथिल- स्खलत्पादन्यासक्षणरणितमञ्जीरमबलाः ॥

5778

इतः स दैत्यः प्राप्तश्रीर् नेत एवार्हति क्षयम् ।
विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम् ॥

5779

इतः स्वपिति केशवः कुलमितस् तदीयद्विषाम् इतश् च शरणार्थिनः शिखरिपत्रिणः शेरते ।
इतोऽपि वडवानलः सह समस्तसंवर्तकैर् अहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥

5780

इतरदेव बहिर्मुखमुच्यते हृदि तु यत् स्फुरतीतरदेव तत्।
चरितमेतदधीरवितारकं धुरि पयःप्रतिबिम्बमिवासताम् ॥

5781

इतरपापफलानि यथेच्छया वितर तानि सहे चतुरानन ।
अरसिकेषु कवित्वनिवेदनं शिरसि मा लिख मा लिख मा लिख ॥

5782

इतरभजनघनरसतः फलनिष्पत्तिर्नवा भवेदिति न ।
मुक्ताः परं तु लोके स्वातिघनरसं विना न जायेरन् ॥

5783

इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु ।
रजांसि समरोत्थानि तच्छोणितनदीष्विव ॥

5784

इतराश्चार्थमिच्छन्ति रूपमिच्छन्ति दारिकाः ।
ज्ञातयः कुलमिच्छन्ति स्वर्गमिच्छन्ति तापसाः ॥

5785

इतरेतरयन्त्रितोरुयुग्मं कठिनोरुस्तनपीडिताभिरामम् ।
भुजमूलशयानुगण्डमूलं मिथुनं स्यूतमिवाभवन् निशायाम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc