महासुभाषितसंग्रह · श्लोक 5686-5705
आहते यत्र खड्गे स्याद् ध्वनिः काकस्वरोपमः ।
अं आकारध्वनिर्वा स्यात् स वर्ज्यो नरपुंगवैः ॥
आहते यत्र मधुरो ध्वनिः समुपजायते ।
पूज्यः स खड्गो नृपतेः शत्रुसंचयनाशनः ॥
आहत्य चिनुमः स्वर्गम् अपवर्गमनुक्रमात् ।
अनुकूले हि दाम्पत्ये प्रतिकूलं न किंचन ॥
आहत्याहत्य मूर्ध्ना द्रुतमनुपिबतः प्रस्नुतं मातुरूधः किंचित् कुब्जैकजानोरनवरतचलच्चारुपुच्छस्य धेनुः ।
उत्कर्णं तर्णकस्य प्रियतनयतया दत्तहुंकारमुद्रा विस्रंसत्क्षीरधारालवशबलमुखस्याङ्गमातृप्ति लेढि ॥
आह नाथवदनस्य चुम्बतः सा स्म शीतकरतामनक्षरम् ।
सीत्कृतानि सुदती वितन्वती सत्त्वदत्तपृथुवेपथुस् तदा ॥
आहरन्नपि न स्वस्थो विनिद्रो न प्रबुध्यति ।
वक्ति न स्वेच्छया किंचित् सेवकोऽपीह जीवति ॥
आहरेज् ज्ञानमर्थांश्च पुमानमरवत् सदा ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥
आहवे जगदुद्दण्डराजमण्डलराहवे ।
श्रीनृसिंह महीपाल स्वस्त्यस्तु तव बाहवे ॥
आहवेषु च ये शूराः स्वाम्यर्थे त्यक्तजीविताः ।
भर्तृभक्ताः कृतज्ञाश्च ते नराः स्वर्गगामिनः ॥
आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः ।
युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः ॥
आह स्मैषा नलादन्यं न जुषे मनसेति यत् ।
यौवनानुमितेनास्यास् तन्मृषाभून् मनोभुवा ॥
आहारं प्रति यत् कथापि शमिता यन् मौनमुद्रा मुखे यच् चक्षुर्विनिमीलनं तनुलता यत् तानवे वर्तते ।
एकान्ते यदवस्थितिर्यदपि च ध्यानैकतानं मनस् तन् मन्ये सुभग त्वदर्थमनया तप्येत तीव्रं तपः ॥
आहारः फलमूलमात्मरुचितं शय्या मही वल्कलं संवीताय परिच्छदः कुशसमित्पुष्पाणि पुत्रा मृगाः ।
वस्त्रान्नाश्रयदानभोगविभवा निर्यन्त्रणाः शाखिनो मित्राणीत्यधिकं गृहेषु गृहिणां किं नाम दुःखादृते ॥
आहारदोषाय च काकदीति स्यादाकुटानि ध्वनितं रणाय ।
केकेध्वनिष्ठा कुवती किकी च त्रयं त्विदं स्यात् पुरदूषणाय ॥
आहारनिद्राभयमैथुनानि सामान्यमेतत् पशुभिर्नराणाम् ।
ज्ञानं नराणामधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः ॥
आहारनिर्हारविहारयोगाः सुसंवृता धर्मविदा तु कार्याः ।
वाग्बुद्धिकार्याणि तपस् तथैव धनायुषी गुप्ततमे तु कार्ये ॥
आहारपानताम्बूलगन्धमाल्यफलादयः ।
भुज्यन्ते यत् स भोगश्च तन्मतः साधुसत्तमैः ॥
आहारभोजी कुरुतेऽनुमोदं नरो वधे स्थावरजङ्गमानाम् ।
तस्यापि तस्माद् दुरितानुषङ्गम् इत्याह यस् तं प्रति वच्मि किंचित् ॥
आहारवर्गे सुलभे विचित्रे विमुक्तपापे भुवि विद्यमाने ।
प्रारम्भदुःखं विविधं प्रपोष्य चेदस्ति गृद्धिर्न किमत्ति मांसम् ॥
आहाराज् जायते व्याधिर् गर्भात् क्रूरश्च जायते ।
अलक्ष्मीकश्च शय्यायां स्वपाठादायुषः क्षयः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0