महासुभाषितसंग्रह · श्लोक 5666-5685
आस्यं सहास्यं नयनं सलास्यं सिन्दूरबिन्दूदयशोभि भालम् ।
नवा च वेणी हरिणीदृशश्चेद् अन्यैरगण्यैरपि भूषणैः किम् ॥
आस्यप्रोञ्छितपार्वणेन्दुयशसं नेत्रावधूतोत्पल- श्रीगर्वां दशनच्छदव्यवहिताशोकप्रवालद्युतिम् ।
एतां दृष्टिसुधाप्रपां त्रिजगतः शिल्पी विधाय स्वयं मन्ये हर्षवशादजायत निजस्तोत्रप्रचण्डः कविः ॥
आस्यश्रीजितजर्जरेन्दुमलिनं कृत्वा करे कन्दुकं क्रीडाकौतुकमिश्रभावमनया ताम्रं वहन्त्याननम् ।
भृङ्गाग्रग्रहकृष्णकेतकदलस्पर्धावतीनां दृशा दीर्घापाङ्गतरङ्गितैकसुहृदामेषोऽस्मि पात्रीकृतः ॥
आस्यश्रीर्द्विजराजबाधनकरी दृष्टिः श्रुतेर्लङ्घिनी मूर्धन्यावलिगामिनी कुटिलता बद्धाश्च मुक्ता गुणैः ।
यत्ते सुन्दरि दुर्विनीतिरियती दृष्टाबलाया मया तन् मन्ये मकरध्वजो भवजयी जातस्त्वदग्रेसरः ॥
आस्येन्दोः परिवेषवद्रतिपतेश्चाम्पेयकोदण्डवद् धम्मिल्लाम्बुमुचः क्षणद्युतिवदासज्जौ क्षिपन्ती भुजौ ।
विश्लिष्यद्वलि लक्ष्यनाभि विगलन्नीव्युन्नमन्मध्यमं किंचित् किंचिदुदञ्चदञ्चलमहो कुम्भस्तनी जृम्भते ॥
आस्ये पूर्णसुधानिधिश्चरणयोः काल्पद्रुमं वैभवं देहे काञ्चनकान्तता त्वचि पुनर्हैयङ्गवीनं स्वयम् ।
यस्या लोचनयोर्निरूपधि सदोदीतानुकम्पाततिः सा माता जगतां प्रसादपदवी साक्षान्मुदे स्तादुमा ॥
आस्रावयेच्चोपचितान् विपर्यस्येच्च कर्मसु ।
यथा न भक्षयन्त्यर्थं भक्षितं निर्वमन्ति वा ॥
आस्रावयेदुपचितान् साधु दुष्टव्रणानिव ।
आयुक्तास्ते च वर्तेरन्न् अग्नाविव महीपतौ ॥
आ स्वर्लोकादुरगनगरं नूतनालोकलक्ष्मीम् आतन्वद्भिः किमिव सिततां चेष्टितैस् ते न नीतम् ।
अप्येतासां रमणविरहे विद्विषत्कामिनीनां यैरानीता नखपदमयी मण्डना पाण्डिमानम् ॥
आस्वादितं स्वादुमरन्दबिन्दु- स्वच्छन्दमिन्दीवरसुन्दरीभिः ।
माकन्दपुष्पं प्रमदाजनस्य प्रमोदमामोदभरैरकार्षीत् ॥
आस्वादितदयिताधर- सुधारसस्येव सूक्तयो मधुराः ।
अकलितरसालमुकुलो न कोकिलः कलमुदञ्चयति ॥
आस्वादितद्विरदशोणितशोणशोभां संध्यारुणामिव कलां शशलाञ्छनस्य ।
जृम्भाविदारितमुखस्य मुखात् स्फुरन्तीं को हर्तुमिच्छति हरेः परिभूय दंष्ट्राम् ॥
आस्वादितोन्मुक्तमिवार्द्धबिम्बं तमोमुखाद् हन्त सुधाकरस्य ।
सीमन्तसीमान्तमुदाररूपम् इदं ललाटं ननु पङ्कजाक्ष्याः ॥
आस्वादितोऽसि मोहाद् बत विदिता वदनमाधुरी भवतः ।
मधुलिप्तक्षुर रसनाच् छेदाय परं विजानासि ॥
आस्वाद्यं प्रमदारदच्छद इव श्रव्यं नवं जल्पितं बालाया इव दृश्यमुत्तमवधूलावण्यलक्ष्मीरिव ।
प्रोद्घोष्यं चिरविप्रयुक्तवनितासन्देशवाणीव मे नैवेद्यं चरितं च रूपमनिशं श्रीकृष्ण नामास्तु ते ॥
आस्वाद्य निर्विशेषं विरहिवधूनां मृदूनि मांसानि ।
करकामिषेण मन्ये निःष्ठीवति नीरदोऽस्थीनि ॥
आस्वाद्य स्वयमेव वच्मि महतीर्मर्मच्छिदो वेदना मा भूत् कस्यचिदप्ययं परिभवो याच्ञेति संसारिणः ।
पश्य भ्रातरियं हि गौरवजराधिक्कारकेलिस्थली मानम्लानिमसी गुणव्यतिकरप्रागल्भ्यगर्भच्युतिः ॥
आस्वाद्यात्र मधूनि षट्पद मदं मा गाः कषायाङ्कुरैर् माकन्दस्य पिकान् प्रतारितवतो मूर्धानमध्यासितः ।
प्रत्यासन्नतमे पिकेऽपि भवते येनार्पिता तादृशी माध्वी तस्य विवेकविच्युतिरियं साद्गुण्यमेतन् न ते ॥
आस्वाद्यैष कषायमङ्कुरमुरुप्रेमानुबद्धाशयो माकन्दस्य यशांसि कोकिलयुवा निर्माति दिग्भित्तिषु ।
माध्वीकानि निपीय तस्य मधुपास् तत्रैव गुञ्जन्त्यमी को ब्रूतामसतां सतां च वचसां वर्त्मातिगं चेष्टितम् ॥
आहतं कुचतटेन तरुण्याः साधु सोढममुनेति पपात ।
त्रुट्यतः प्रियतमोरसि हारात् पुष्पवृष्टिरिव मौक्तिकवृष्टिः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0