महासुभाषितसंग्रह · श्लोक 5646-5665
आस्तीर्यन्तामुपान्ते वनवृतिनिपुणैर्जालिकैर्जालबन्धा मुच्यन्तां शृङ्खलाभ्यः श्वगणभिरटवीगह्वरे सारमेयाः ।
आकीर्यन्तां स्थलानि श्रमशिथिलहयैः सादिभिः पाशहस्तैर् व्याधूयन्तां कृतान्तैरिव महिषचरैर्दण्डिभिः काननानि ॥
आस्तृतेऽभिनवपल्लवपुष्पैर् अप्यनारतरताभिरताभ्यः ।
दीयते स्म शयितुं शयनीये न क्षणः क्षणदयापि वधूभ्यः ॥
आस्ते कश्चन भिक्षुः संगृह्णन्नव्ययानि दश ।
न ममेत्यव्यययुगलं याचामस् तं किमस्त्यन्यत् ॥
आस्तेऽत्रैव सरस्यहो बत कियान् संतोषपक्षग्रहो हंसस्यास्य मनाङ् न धावति मतिः श्रीधाम्नि पद्मे क्वचित् ।
सुप्तोऽद्यापि विबुध्यते न तदितस्तावत् प्रतीक्षामहे वेलामित्युषसि प्रिया मधुलिहः सोढुं त एव क्षमाः ॥
आस्ते दामोदरीयामियमुदरदरीं यावलम्ब्य त्रिलोकी संमातुं शक्नुवन्ति प्रथिमभरवशादत्र नैतद्यशांसि ।
तामेतां पूरयित्वा निरगुरिव मधुध्वंसिनः पाण्डुपद्म- च्छद्मापन्नानि तानि द्विपदशनसनाभीनि नाभीपथेन ॥
आस्ते द्वारि वधूर्विधातृरचनावैदुष्यविक्रान्तिभूर् भूरेतस्य बलादहारि भवता भीता नतारातिना ।
किं नामापरमत्र कार्यमधुना साध्यं समाशास्यते तत्पाणिग्रहमङ्गलाय मनुजाधीशास्तु यत्नो महान् ॥
आस्ते नो सुषमा न चापि कुसुमामोदो हि नो वा मनाक् चातुर्यं मकरन्ददानविषये किं चातुरीयं पुनः ।
यत्त्वं चित्रगतं कुशेशयदलं पुष्णासि गुञ्जारवैर् माहात्म्यं क इव ब्रवीमि तदहो हे चञ्चरीकाधुना ॥
आस्ते रोहत्कनककमले केलिपात्रे मृडान्याः खेलन् हेलोन्मदमधुकरीमानसे मानसे यः ।
भेकोद्रेकप्रणयिनि वलद्बालजम्बालजाले स स्यादुत्कः परिमितजले पल्वले किं मरालः ॥
आस्ते विधुः परमनिर्वृत एव मौलौ शंभोरिति त्रिजगतीजनचित्तवृत्तिः ।
अन्तर्निगूढनयनानलदाहदुःखं जानाति कः परमृते बत शीतरश्मेः ॥
आस्त्रीशिशु प्रथितयैष पिपासितेभ्यः संरक्ष्यतेऽम्बुधिरपेयतयैव दूरात् ।
दंष्ट्राकरालमकरालिकरालिताभिः किं भाययत्यपरमूर्मिपरंपराभिः ॥
आस्थामालम्ब्य नीतेषु वशं क्षुद्रेष्वरातिषु ।
व्यक्तिमायाति महतां माहात्म्यमनुकम्पया ॥
आस्थाय दारुणतरं कमपि स्वभावम् अत्यन्तदुष्कृतकृतामपि शिक्षणाय ।
गृह्णासि सायकपदे कुसुमान्यमूनि मातः सुतेषु महती किल रूक्षतेयम् ॥
आस्थितः स्थगितवारिदपङ्क्त्या संध्यया गगनपश्चिमभागः ।
सोर्मिविद्रुमवितानविभासा रञ्जितस्य जलधेः श्रियमूहे ॥
आस्फालितं यत् प्रमदाकराग्रैर् मृदङ्गधीरध्वनिमन्वगच्छत् ।
वन्यैरिदानीं महिषैस् तदम्भः शृङ्गाहतं क्रोशति दीर्घिकाणाम् ॥
आस्फालितैर्जलधिरूर्मिपरंपराणां दूरीकरोति यदि रत्नमवस्तुबुद्ध्या ।
रत्नाकरत्वमपि तस्य भवेद् विनष्टं रत्नं तु हन्त भविता महदङ्गधार्यम् ॥
आस्माकी युवतिदृशामसौ तनोति च्छायैव श्रियमनपायिनीं किमेभिः ।
मत्वैवं स्वगुणपिधानसाभ्यसूयैः पानीयैरिति विदधाविरेऽञ्जनानि ॥
आस्यं निरस्य रसितैः सुचिरं विहस्य गात्रान्तरेषु घन वर्षसि चातकस्य ।
तच्चञ्चुकोटिकुटिलायतकंधरस्य प्राणात्ययोऽस्य भवतः परिहासमात्रम् ॥
आस्यं पिधाय सकलं विरलाङ्गुलिना करेण सघ्राणम् ।
अयमुच्चरद्दकारं मनोहरं ज्योत्करोति शिशुः ॥
आस्यं यद्यपि हास्यवर्जितमिदं लास्येन वीतं वचो नेत्रे शोणसरोजकान्ति तदपि क्वापि क्षणं स्थीयते ।
मालायाः करणोद्यमे मकरिकारम्भः कुचाम्भोजयोर् धूपाः कुन्तलधोरणीषु सुदृशः सायंतनो दृश्यते ॥
आस्यं यस्याः सुधांशुं कलयति नयनाभ्यां जितः पुंसमूहः कान्त्या विद्युत् कुचाभ्यां जलकनकधरे निर्जिते हन्त मोहः ।
कुष्ठं दुर्गन्धियुक्तं लघुकृमिविकृतं पूयमज्जास्रवाहि- व्याप्तं तन् मक्षिकाभिर्गतिरिति वपुषः कुत्सिता नास्ति लोके ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0