महासुभाषितसंग्रह · श्लोक 5626-5645
आस्तां तावदहो समुद्रमहिमा दूरेऽपि कर्णप्रियस् तीरे यस्य पिपासयैव मरणं प्राप्नोति शीघ्रं जनः ।
तस्मादम्बुनिधेर्वरं लघुसरः कूपोऽथवा वापिका यत्र स्वात्मकरद्वयेन सलिलं पेपीयते स्वेच्छया ॥
आस्तां तावद् दिगन्तप्रथितसुयशसां संगमः सज्जनानां तैः साकं वैरयोगोऽप्यतिशयमहितामुन्नतिं संनिधत्ते ।
लोके कस्यागमिष्यच्छ्रुतिपथमवपुर्वक्त्रशेषोऽपि राहुस् त्रैलोक्यख्यातधाम्नोर्यदि रविशशिनोर्वैरितां नाकरिष्यत् ॥
आस्तां तावद् वचनरचनाभाजनत्वं विदूरे दूरे चास्तां तव तनुपरीरम्भसंभावनापि ।
भूयो भूयः प्रणतिभिरिदं किं तु याचे विधेया स्मारं स्मारं स्वजनगणने कापि रेखा ममापि ॥
आस्तां ते गुणिनस्तावद् भूषिताशेषभूतलाः ।
येषां गुणरुचिर्भूयः सांप्रतं तेऽपि दुर्लभाः ॥
आस्तां दूरतया तदीयवदनाम्भोजामृतास्वादनं नोदेत्येव मनोरथोऽपि हृदये तत्संगमाशां प्रति ।
उत्कण्ठाशिथिलीकृताङ्गलतिकं वीक्षेत मामेकदा सस्नेहं यदि सा सरोजवदना धन्योऽस्म्यहं तावता ॥
आस्तां दूरेण विश्लेषः प्रियामालिङ्गतो मम ।
स्वेदः किं न सरिन्नाथो रोमाञ्चः किं न पर्वतः ॥
आस्तां भवान्तरविधौ सुविपर्ययोऽयम् अत्रैव जन्मनि नृणामधरोच्चभावः ।
अल्पः पृथुः पृथुरपि क्षणतोऽल्प एव स्वामी भवत्यनुचरः स च तत्पदार्हः ॥
आस्तां मण्डलमैन्दवं वरतनोर्वक्त्रश्रियश् चेत् कथा कोणे कुत्रचिदासतां कुवलयान्यक्ष्णोः प्रसङ्गो यदि ।
दूरे तिष्ठतु वल्लकीकलरवः प्रस्तावना चेद् गिरां वार्त्ता चेदवलग्नकस्य यशसां व्योम्नः प्रथायै नमः ॥
आस्तां महाबोधबलेन साध्यो मोक्षो विबाधामलसौख्ययुक्तः ।
धर्मार्थकामा अपि नो भवन्ति ज्ञानं विना तेन तदर्चनीयम् ॥
आस्तां माद्य भवे शुभे सखि लता न्यस्ता त्वया माधवी कान्ते तन् मम संप्रयच्छ कुसुमं किं वामुना मे फलम् ।
नाल्पं निर्मलयामि मौक्तिकमिदं न्यस्तं त्वया दह्यताम् इत्थं विभ्रमसंभ्रमो मदयति प्रेयांसमेणीदृशः ॥
आस्तां मानः कथनं सखीषु वा मयि निवेद्यदुर्विनये ।
शिथिलितरतिगुणगर्वा ममापि सा लज्जिता सुतनुः ॥
आस्तां वरमवकेशी मा दोहदमस्य रचय पूगतरोः ।
एतस्मात् फलितादपि केवलमुद्वेगमधिगच्छ ॥
आस्तां विश्वसनं सखीषु विदिताभिप्रायसारे जने तत्राप्यर्पयितुं दृशं सलिलतां शक्नोमि न व्रीडया ।
लोको ह्येष परोपहासचतुरः सूक्ष्मेङ्गितज्ञोऽप्यलं मातः कं शरणं व्रजामि हृदये जीर्णोऽनुरागानलः ॥
आस्तां सकण्टकमिदं वसुधाधिपत्यं त्रैलोक्यराज्यमपि देव तृणाय मन्ये ।
निःशङ्कसुप्तहरिणीकुलसंकुलासु चेतः परं वलति शैलवनस्थलीषु ॥
आस्तामनङ्गीकरणाद् भवेन दृश्यः स्मरो नेति पुराणवाणी ।
तवैव देहं श्रितया श्रियेति नवस्तु वस्तु प्रतिभाति वादः ॥
आस्तामन्यत्सुजनाः परोपकारैककरणदुर्ललिताः ।
संतापितपिशुनेषु स्वगुणेष्वपि हन्त खिद्यन्ते ॥
आस्तामपरो लोकः क्रीडापेक्षापरो यदि प्रीतिः ।
ब्यसनान्तरे पतन्ती न वारिता परिजनेनापि ॥
आस्तामेव सरोवरेण्य भवतो दुग्धोदलब्धामृत- स्वादस्पर्धि सरोजवृन्दखचितं हंसावतंसं पयः ।
स्फारोल्लोलसुशीतशीकरचयासारप्रसिक्तानिल- स्पर्शैरेव मनोहरैरपगताः संतापशोषक्लमाः ॥
आस्तिक्यं चेद् धनमखिलमप्यर्थिसात्कर्तुमर्हं नास्तिक्यं चेत् तदपि सुतरां भोगहेतोरपास्यम् ।
अस्पृष्ट्वापि स्वयमतिरहःस्थाप्यते यत् तदन्तस् तस्मिन् हेतुः क इति निभृतं तर्कयामो न विद्मः ॥
आस्तीकवचनं स्मृत्वा यः सर्पो न निवर्तते ।
शतधा भिद्यते मूर्ध्नि शिंशवृक्षफलं यथा ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0