भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 5606-5625

5606

आसीन् मे मनसि हृता न सा मृता सा या दृष्टेर्व्रजति न गोचरं प्रिया मे ।
ज्योत्स्ना हि स्फुटधवलापि कौमुदीन्दोर् अन्धानां बहलतमोमलीमसैव ॥

5607

आसीमा कालिका यस्य क्षुद्राङ्गं कुण्डलीकृतम् ।
क्षुद्रवज्रकनामानं प्राह नागार्जुनो मुनिः ॥

5608

आसीमान्तान् निवर्तन्ते सुहृदः सह बन्धुभिः ।
सुकृतं दुष्कृतं वापि गच्छन्तमनुगच्छति ॥

5609

आसीस्त्वं निशिराजरक्तहृदयेतीर्ष्यालुना वज्रिणा प्रातः शङ्कितयेव दिव्यपदवीं गत्वात्मनः शुद्धये ।
और्वोत्तापितवार्धितापकतलादादाय मुक्तो बहिः प्राच्यासौ दिवि तप्तमाषक इव प्रद्योतनो द्योतते ॥

5610

आसुरं कुलमनादरणीयं चित्तमेतदमलीकरणीयम् ।
रामधाम शरणीकरणीयं लीलया भवजलं तरणीयम् ॥

5611

आसे चेत् स्वगृहे कुटुम्बभरणं कर्तुं न शक्तोऽस्म्यहं सेवे चेत् सुखसाधनं मुनिवनं मुष्णन्ति मां तस्कराः ।
श्वभ्रे चेत् स्वतनुं त्यजामि नरकाद् भीरात्महत्यावशान् नो जाने करवाणि दैव किमहं मर्तुं न वा जीवितुम् ॥

5612

आसेव्यते मुखं सर्वैर् विद्यानां योषितामपि ।
हृदयग्राहिणस् तासां द्वित्राः सन्ति न सन्ति वा ॥

5613

आस्कन्दन् कथमपि योषितो न यावद् भीमत्यः प्रियकरधार्यमाणहस्ताः ।
औत्सुक्यात् त्वरितममूस्तदम्बु तावत् संक्रान्तप्रतिमतया दधाविवान्तः ॥

5614

आस्कन्दितो भुजलताचलिताग्रशाखाम् आलिङ्गितो युवतिभिः कलिकार्थिनीभिः ।
धन्योऽसि चम्पकतरो कुसुमानुरूपैर् आसां घनस्तनफलैः फलितोऽसि यच्च ॥

5615

आस्कन्धावधि कण्ठकाण्डविपिने द्राक् चन्द्रहासासिना छेत्तुं प्रक्रमिते मयैव तरसा त्रुट्यच्छिरासंततौ ।
अस्मेरं गलिताश्रुगद्गदपदं भिन्नभ्रुवा यद्यभूद् वक्त्रेष्वेकमपि स्वयं स भगवांस्तन्मे प्रमाणं शिवः ॥

5616

आ स्तन्यपानाज् जननी पशूनाम् आ दारलाभाच्च नराधमानाम् ।
आगेहकर्मावधि मध्यमानाम् आ जीवितात् तीर्थमिवोत्तमानाम् ॥

5617

आस्त भावमधिगच्छतोस् तयोः संमदेषु करजक्षतार्पणा ।
फाणितेषु मरिचावचूर्णना सा स्फुटं कटुरपि स्पृहावहा ॥

5618

आस्तां किं बहुभिः परोपकृतयः संसारसारं फलं सिद्धं तत् प्रतिकूलवर्तिनि विधौ न स्तोकमप्यत्र नः ।
एते स्मः किल मानुषा वयमपि व्यर्थं व्यपेतायुषो येषां स्वोदरपूर्तिरेव हि किमप्यष्टौ महासिद्धयः ॥

5619

आस्तां क्लमापहरणं जलधेर्जलेन दूरे दवाग्नि परिदीपितमानसानाम् ।
एतावदस्तु यदि तोयकणैर्न जिह्वा दन्दह्यते द्विगुणतां च न याति तृष्णा ॥

5620

आस्तां गाढतरानुशीलनविधिः संस्पर्शनं दूरतः संश्लेषे विषयीकृतोऽसि न मनागक्ष्णोः पदं प्रापितः ।
किं ब्रूमः सहकार तावकगुणानन्यादृशैर्दुर्लभान् सौरभ्येण यदध्वगानपि मुहुः प्रीणासि दूरादपि ॥

5621

आस्तां चक्षुरिदं तिरोऽञ्चति कियच्चेतोऽपि यद्वैभवैर् निष्प्रत्याशमयं मुने जलनिधिर्गण्डूषितः सत्तपः ।
एतेनैव विरन्तुमर्हसि न ते गण्डूषपानाधिका काचित् ख्यातिरतःपरं परमसौ पर्जन्यनीवीव्ययः ॥

5622

आस्तां तत् करकानिपातकृतभीमण्डूकनिर्मज्जन- क्षेमैकक्षमवारि पल्वलशतं सिन्धुं तमेव स्तुमः ।
कुप्यच्छक्रकरस्वरुप्रहरणक्षुण्णाखिलाङ्गक्षरत्- कीलालेन गिरिव्रजेन शरणं यद्गर्भवासः कृतः ॥

5623

आस्तां तावत् किमन्येन दौरात्म्येनेह योषिताम् ।
विधृतं स्वोदरेणापि घ्नन्ति पुत्रमपि स्वकम् ॥

5624

आस्तां तावदकीर्तिर्मे त्वया तथ्यं तु कथ्यताम् ।
चित्तं कथमिवासीत् ते हरिवंशीरवश्रुतौ ॥

5625

आस्तां तावदसीमपौरुषजुषः संमानितात्यद्भुत- प्रारम्भाभ्यधिकक्रियस्य स खलु प्राच्यः प्रचारो हरेः ।
जीर्णस्यापि च विन्ध्यकन्दरदरीद्वारावताराक्षमैर् अङ्गैरङ्गभृतो दलन्ति दरतो गन्धेन गन्धद्विपाः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc