महासुभाषितसंग्रह · श्लोक 5586-5605
आसीत् ताम्रमयं शरीरमधुना सौवर्णवर्णं गतं मुक्ताहारलताश्रुबिन्दुनिवहैर्निःस्वस्य मे कल्पिता ।
स्वल्पं स्वल्पमनल्पकल्पमधुना दीर्घं वयः कल्पितं स्वामिन् दुःख भवत्प्रसादवशतः किं किं न लब्धं मया ॥
आसीत् पूर्वं विमलजलधौ मण्डनं भूपतीनां नारीणां च प्रबलमुकुटे काञ्चनेन प्रसङ्गात् ।
तन्त्रीबद्धः कथमिदमहो काचखण्डेन सार्धं भिल्लीकण्ठे मरकतमणे कामवस्थां गतोऽसि ॥
आसीत् सत्ययुगे बलिस्तदनु च त्रेतायुगे भार्गवो रामः सत्यपराक्रमोऽथ भगवान् धर्मस् तथा द्वापरे ।
दाता कोऽपि न चास्ति संप्रति कलौ जीवन्ति केनार्थिनश् चेत्येवं कृतनिश्चयेन विधिना व्यापारिणो निर्मिताः ॥
आसीदञ्जनमत्रेति पश्यामि तव लोचने ।
भाविभूषणसंभारां साक्षात्कुर्वे तवाकृतिम् ॥
आसीददभ्रशरदभ्रमिषाद् यशस् ते नाके भ्रमन् नृप यदभ्रमुकान्तशुभ्रम् ।
तत् पुष्पवर्षणमिवाप्सरसां द्युलोके व्याप्नोत्यमादिव भुवं तुहिनच्छलेन ॥
आसीदासीमभूमीवलयमलयजालेपनेपथ्यकीर्ति ः सप्ताकूपारपारीसदनजनघनोद्गीतचापप्रताप् अः ।
वीरादस्मात् परः कः पदयुगयुगपत्पातिभूपातिभूयश् चूडारत्नोडुपत्नीकरपरिचरणामन्दनन्दन्नखेन्द् उः ॥
आसीदुप्तं यदेतद् रणभुवि भवता वैरिमातङ्गकुम्भान् मुक्ताबीजं तदेतत् त्रिजगति जनयामास कीर्तिद्रुमं ते ।
शेषो मूलं प्रकाण्डं हिमगिरिरुदधिर्दुग्धपूरालवालं ज्योत्स्ना शाखाप्रतानः कुसुममुडुचयो यस्य चन्द्रः फलं च ॥
आसीदेव यदार्द्रः किमपि तदा किमयमाहतोऽप्याह ।
निष्ठुरभावादधुना कटूनि सखि रटति पटह इव ॥
आसीद् गङ्गाधरस् तस्य भ्राता गङ्गाधरोपमः ।
एकान् बबन्ध यो व्यालान् मुमोचैकान् यदृच्छया ॥
आसीद् गङ्गान्वयायक्षितिपतितिलको राजराजक्षितीशः क्ष्मापालप्रौढमौलिप्रकरमणिरुचिप्रस्फुरत्पादपीठः ।
योऽरातिक्षत्रचक्रक्रथनकरभुजापालिताशेषपृत् ह्वी- चक्रश्चक्रायुधाभोऽदधदुरसि रमां वाचि वाचामधीशः ॥
आसीद् यस्तव पुत्रकस् त्रिचतुरैः पत्राङ्कुरैरावृतो मेघोन्मुक्तजलैकजीवनविधिः सन्मार्गलब्धास्पदः ।
सोऽयं संप्रति वासरैः कतिपयैरध्वन्यपुण्योच्चयैः संपन्नः फलनम्रपल्लवततिच्छायोपलिप्तावनिः ॥
आसीद् वरः कण्टकितप्रकोष्ठः स्विन्नाङ्गुलिः संववृते कुमारी ।
तस्मिन् द्वये तत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन ॥
आसीनः शयितः स्थितः प्रचलितः स्वप्नायितो जागृतः पश्यन् मीलितलोचनो व्यवहरन् मौनं प्रपन्नोऽथवा ।
तां प्रेमाकुलवीक्षितां स्मितमुखीं सव्रीडमन्दागमां श्लिष्यन्तीं प्रणयार्द्रमुग्धलपितां पश्यामि नक्तंदिवम् ॥
आसीनः सुखमापणे यदि वणिक् श्रद्धालुभिः प्रार्थितः किंचिच् शंसति पञ्चकं शतकमित्येतन्न तस्याद्भुतम् ।
आपातालविघूर्णिताम्भसि चलत्यौत्पातिके मारुते मज्जन्त्यामपि नावि मुञ्चति न यस्तामेव मूल्यस्थितिम् ॥
असीनः स्वामिनः पार्श्वे तन्मुखेक्षी कृताञ्जलिः ।
स्वभावं चास्य विज्ञाय दक्षः कार्याणि साधयेत् ॥
आसीना तटभुवि सस्मितेन भर्त्रा रम्भोरूरवतरितुं सरस्यनिच्छुः ।
धुन्वाना करयुगमीक्षितुं विलासाञ् शीतालुः सलिलगतेन सिच्यते स्म ॥
आसीने पूष्णि तूष्णीं व्यसनिनि शशिनि व्योम्नि कृष्णे सतृष्णे दैत्येन्द्रे जातनिद्रे द्रवति मघवति क्लान्तकान्तौ कृतान्ते ।
अब्रह्मण्यं ब्रुवाणे कमलपुटकुटीश्रोत्रिये शान्त्युपाये पायाद् वः कालकूटं झटिति कवलयंल्लीलया नीलकण्ठः ॥
आसीने लालयेद् बालां तरुणीं शयने तथा ।
उत्थितेऽप्यधिरूढां च लालनं त्रिविधं विदुः ॥
आसीनैः स्वं विमानं कृतपरिवृतिभिः सुन्दरीसंगतैस् तैर् देवैः सिद्धैश्च यक्षैरनिमिषनयनैर्दृश्यमानः सतृष्णम् ।
मध्येमघ्ये पयोदैर्मुरजसदृशतां बोधयद्भिः सुमन्द- मम्भः संपात्य पुष्पैरिव ननु महितस् ताण्डवः श्रेयसे स्तात् ॥
आसीन् नाथ पितामही तव मही माता ततोऽनन्तरं संप्रत्येव हि साम्बुराशिरशना जाया जयोद्भूतये ।
पूर्णे वर्षशते भविष्यति पुनः सैवानवद्या स्नुषा युक्तं नाम समस्तशास्त्रविदुषां लोकेश्वराणामिदम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0