भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 5566-5585

5566

आसादितस्य तमसा नियतेर्नियोगाद् आकाङ्क्षतः पुनरपक्रमणेन कालम् ।
पत्युस् त्विषामिह महौषधयः कलत्र- स्थानं परैरनभिभूतममूर्वहन्ति ॥

5567

आसाद्य कृष्णपक्षान् अत्रसतः सर्वदाऽभीकान् ।
परयात्मनि रतचित्तान् विभाव्य तत्कर्म कुर्वतः क्व भयम् ॥

5568

आसाद्यते कथं वा शौर्याश्रयणेन गौरवध्वंसः ।
तत् तत्र दत्तचित्तश् चित्तजसंतापभाजनं न जनः ॥

5569

आसाद्य दक्षिणां दिशम् अविलम्बं त्यजति चोत्तरां तरणिः ।
पुरुषं हरन्ति कान्ताः प्रायेण हि दक्षिणा एव ॥

5570

आसाद्य भङ्गमनया द्यूते विहिताभिरुचितकेलिपणे ।
निःसारयताक्षानिति कपटरुषोत्सारिताः सख्यः ॥

5571

आसाद्य मन्दरागोऽपि भुजङ्गेनातिसंगतिम् ।
तद्भोगात्तु भ्रमन् कष्टं प्राप्नोति विषमन्ततः ॥

5572

आसाद्य सोमभुवमास्वहि यत्र नित्यं मङ्क्तुं प्रलोभयति सैकतमंशुकाभम् ।
तत् तत्र निर्वहति संप्रति नित्यकृत्यम् एतस्य विस्मृतगृहस्य परानुभूत्या ॥

5573

आसाद्यापि महोदधिं न वितृषो जातो जलैर्वाडवो मेघं प्राप्य न चातकोऽपि चरणौ भानुं न लेभेऽरुणः ।
चन्द्रः शंकरशेखरेऽपि निवसन् पक्षक्षये क्षीयते प्रायः सज्जनसंगतोऽपि लभते दैवानुरूपं फलम् ॥

5574

आसाद्याम्रवनीमिमां प्रति नवामास्वाद्य तन्मञ्जरीं मैवं पञ्चममञ्च नन्दनवनभ्रान्त्या तया कोकिल ।
एषा वायसमण्डली घनशिरःशूलाहतिव्याकुला कुध्वानैर्बधिरीकरिष्यति वृथा श्रोत्राणि सत्पत्रिणाम् ॥

5575

आसामुपरि दद्याच् च पानीयस्य विचक्षणः ।
एवं यामद्वयं कुर्यात् ततस् त्वासां न दापयेत् ॥

5576

आसायं सलिलभरे सवितारमुपास्य सादरं तपसा ।
अधुनाब्जेन मनाक् तव मानिनि तुलना मुखस्याप्ता ॥

5577

आसारान्तमृदुप्रवृत्तमरुतो मेघोपलिप्ताम्बरा विद्युत्पातमुहूर्तदृष्टककुभः सुप्तेन्दुताराग्रहाः ।
धाराक्लिन्नकदम्बसंभृतसुरामोदोद्वहाः प्रोषितैर् निःसंपातविसारिदर्दुररवा नीताः कथं रात्रयः ॥

5578

आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते शीतोत्कम्पनिमित्तमायतदृशा गाढं समालिङ्ग्यते ।
जालैः शीकरशीतलाश्च मरुतो रत्यन्तखेदच्छिदो धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासंगमे ॥

5579

आसारोपरमे प्रगाढतिमिराः किर्मीरयन्त्यो निशाः पान्थस्त्रीमनसां स्मरानलकणासन्तानशङ्कास्पृशः ।
पिष्टानां प्रसभं घनाघनघटासंघट्टतो विद्युतां चूर्णाभाः परितः पतन्ति तरलाः खद्योतकश्रेणयः ॥

5580

आसितानि हसितानि कृतानि प्रेक्षितानि गदितानि गतानि ।
प्रायशोऽनुकुरुते ललिताङ्गी नर्तकीव चतुरं दयितस्य ॥

5581

आसित्वा विजने विमुक्तविषयासङ्गं मनो निश्चलं कृत्वा हृज्जलजान्तरे प्रियतमारूपं परं दैवतम् ।
ध्यात्वा हारलतामयाक्षवलयं हस्तेन धृत्वा मया तत्सायुज्यफलाप्तये प्रतिदिनं तन्नाम संजप्यते ॥

5582

आसिष्ये सुखितो गृहीति विहितो मोहेन दारग्रहस् तत्सङ्गात् सुतदासबान्धवसुहृत्संबन्धिनामुद्भवः ।
तन्निर्वाहकदर्थनापरिभवानौचित्यचिन्ताजुषः किं सौख्यं कतमा गृहस्थितिरतोऽनर्थो मया स्वीकृतः ॥

5583

आसीज् जनः कृतघ्नः क्रियमाणघ्नश्च सांप्रतं जातः ।
इति मे मनसि वितर्को भविता लोकः कथं भविता ॥

5584

आसीता मरणात् क्षान्ता नियता ब्रह्मचारिणी ।
यो धर्म एकपत्नीनां काङ्क्षन्ती तमनुत्तमम् ॥

5585

आसीत् कल्पमुदन्वदम्बुनि चिरं भेजे च भालानलं भर्गस्य प्रतिमासकर्महुतभुक्कुण्डेऽप्यहौषीद् वपुः ।
तीव्रैरेव तपोभिरिन्दुरकरोदित्थं जनुर्यापनं किं कुर्याद् विधुरो न वाञ्छति विधिस् तल्लाञ्छनप्रोञ्छनम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc