भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 5546-5565

5546

आसन्नान् पुरतो भोगान् दर्शयित्वा पुनः पुनः ।
छागो हरितमुष्ट्येव दूरं नीतोऽस्मि तृष्णया ॥

5547

आसन्नाभ्रजलस्य दावविगमे विद्युद्भयं शाखिनो नक्रास्याद् गलतश्च मज्जनमयी शङ्का भवेद् वारिधौ ।
भोक्तव्यस्य विधिः शुभस्य रभसात् स्वादुत्वनिष्पत्तये जन्तोः संतनुते निराकृतभियो भीत्यन्तरोत्पादनम् ॥

5548

आसन्नामवलम्ब्य केसरलतामेकेन पुष्पोज्ज्वलां सव्यं निःसहया नितम्बफलके कृत्वा कराम्भोरुहम् ।
आमीलन् नयनान्तवान्तसलिलं श्लाघ्यस्य निन्द्यस्य वा कस्येदं दृढसौहृदं प्रतिदिनं दीनं त्वया स्मर्यते ॥

5549

आसन्नामवलम्ब्य केसरलतामेकेन पुष्पोज्ज्वलां सव्यं निःसहया नितम्बफलके कृत्वा कराम्भोरुहम् ।
उद्ग्रीवं वद दुर्दिनेऽद्य चरणावुन्नम्य मार्गस् त्वया बालोद्भ्रान्तमृगेक्षणे सुकृतिनः कस्यायमालोक्यते ॥

5550

आसन्नाय सुदूराय सुप्ताय प्रकटात्मने ।
सुलभायातिदुर्गाय नमश्चित्राय शंभवे ॥

5551

आसन्ने फलमासन्नं दूरगे दूरगं फलम् ।
मिश्रं तु मिश्रे शकुने फलमाहुर्मनीषिणः ॥

5552

आसन्नो मधुरागतं वनभुवः साम्राज्यमित्यद्भुताः श्रूयन्ते गिर एष तत्त्वमिह न ज्ञातुं विधातुः क्षमः ।
यत् पर्णैस् त्रुटितं तदप्युपरतं पुष्पोद्गमैः शाखिनां यद् ग्लानं विटपैरिदं पुनरिह प्रत्यक्षमालक्ष्यते ॥

5553

आसन्नो वल्मीको दक्षिणपार्श्वे विभीतस्य ।
अध्यर्धे भवति शिरा पुरुषे ज्ञेया दिशि प्राच्याम् ॥

5554

आसन् यावन्ति याच्ञासु चातकाश्रूणि चाम्बुद ।
तावन्तोऽपि त्वया मेघ न मुक्ता वारिबिन्दवः ॥

5555

आ सप्ततेर्यस्य विवाहपङ्क्तिर् विच्छिद्यते नूनमपण्डितोऽसौ ।
जीवन्ति ताः कर्तनकुट्टनाभ्यां गोभ्यः किमुक्षा यवसं ददाति ॥

5556

आसप्तमं कुलं हन्ति शिरोऽभ्यङ्गे चतुर्दशी ।
मांसाशने पञ्चदशी कामधर्मे तथाष्टमी ॥

5557

आ समन्ताच् चतुर्दिक्षु सन्निकृष्टाश्च ये नृपाः ।
तत्परास् तत्परा येऽन्ये क्रमाद् हीनबलारयः ॥

5558

आसमस्ताक्षिविक्षेपसमर्पितमनोभुवाम् ।
मन्मथोद्दीपनं तासां विटवृत्तं विधास्यते ॥

5559

आ सर्गात् प्रतिवासरं रसशतैर्या बोधिता पोषिता कल्पान्तावसरेऽथ सैव पृथिवी स्वैरेव दग्धा करैः ।
कृत्वेत्थं किमपि स्वकर्म नियतेः पूर्वापरोपप्लुतं कष्टं सोऽपि दिनान्तवीतकिरणस् तिग्मांशुरस्तं गतः ॥

5560

आसवरतिरतिबहुभुक् कट्वम्लाशी च कर्मठः पिशुनः ।
स्थूलः कृशोऽतिदीर्घः खर्वो वा कृष्णपीतो वा ॥

5561

आससाद मुनिरात्मनस् ततः शिष्यवर्गपरिकल्पितार्हणम् ।
बद्धपल्लवपुटाञ्जलिद्रुमं दर्शनोन्मुखमृगं तपोवनम् ॥

5562

आसां जलास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु ।
पयोधरोत्सर्पिषु शीर्यमाणः संलक्ष्यते न च्छिदुरोऽपि हारः ॥

5563

आसां व्रतमतीवाक्ष्णोर् यत् पुरः परिसर्पणम् ।
सह यातं मनस् तत्र त्यक्त्वा भूयो निवर्तनम् ॥

5564

आसादितप्रकटनिर्मलचन्द्रहासः प्राप्तः शरत्समय एष विशुद्धकान्तः ।
उत्खाय गाढतमसं घनकालमुग्रं रामो दशास्यमिव संभृतबन्धुजीवः ॥

5565

आसादितव्योऽस्ति करालकेशः सखेदयार्हः समयोऽपकारी ।
तदुत्तमश्लोककथानुबन्धस् तावद् यथा स्यात् प्रयते तथाहम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc