भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 5526-5545

5526

आसनं चैव यानं च संधाय च विगृह्य च ।
कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयमेव च ॥

5527

आसनं प्राणसंरोधः प्रत्याहारश्च धारणा ।
ध्यानं समाधिरेतानि योगाङ्गानि स्मृतानि षट् ॥

5528

आसनं प्राणसंरोधो ध्यानं चैव समाधिकः ।
एतच् चटुष्टयं विद्धि सर्वयोगेषु संमतम् ॥

5529

आसनाच् शयनाद् यानात् संगतेश् चापि भोजनात् ।
कृते संचरते पापं तैलबिन्दुरिवाम्भसि ॥

5530

आसनादेकशय्यायां संभाषात् सहभोजनात् ।
पुंसां संक्रमते पापं घटाद् घटमिवोदकम् ॥

5531

आसनावसथौ शय्याम् अनुव्रज्यामुपासनम् ।
उत्तमेषूत्तमं कुर्याद् हीने हीनं समे समम् ॥

5532

आसनाशनशय्याभिर् अद्भिर्मूलफलेन वा ।
नास्य कश्चिद् वसेद् गेहे शक्तितोऽनर्चितोऽतिथिः ॥

5533

आसने पादमारोप्य यो भुङ्क्ते स द्विजाधमः ।
मुखेन धमते चान्नं तुल्यं गोमांसभक्षणम् ॥

5534

आसने लालयेद् बालां तरुणीं शयने तथा ।
उत्सङ्गे पतिरूढां च लालनं त्रिविधं विदुः ॥

5535

आसने शयने याने पानभोजनवस्तुषु ।
दृष्ट्वान्तरं प्रमत्तेषु प्रहरन्त्यरयोऽरिषु ॥

5536

आसने शयने याने भावा लक्ष्या विशेषतः ।
पुरुषाणां प्रदुष्टानां स्वभावो वलवत्तरः ॥

5537

आसन् क्षीणानि यावन्ति चातकाश्रूणि तेऽम्बुद ।
तावन्तोऽपि त्वयोदार न मुक्ता जलबिन्दवः ॥

5538

आसन्नतरतामेति मृत्युर्जन्तोर्दिने दिने ।
आघातं नीयमानस्य वध्यस्येव पदे पदे ॥

5539

आसन्ननाशं सलिलं तटाके कूपादिकानामतियत्नलभ्यम् ।
नदि त्वमग्र्यासि जलाश्रयाणां यस्यां युगस्थायि सुलम्भमम्भः ॥

5540

आसन्नमार्गमतिलङ्घ्य नतेन मूर्ध्ना पश्चात् प्रसङ्गवलितेन मुखेन यान्त्या ।
आरोपिताः कतिपये मयि पङ्कजाक्ष्या साकूतहासमनतिप्रकटाः कटाक्षाः ॥

5541

आसन्नमित्रागमसूच्यमान- समागमे वासरवल्लभस्य ।
निर्यान्ति दीपा इव रात्रिभोग्याः पश्य प्रभाते गणिकागृहेभ्यः ॥

5542

आसन्नमेव नृपतिर् भजते मनुष्यं विद्याविहीनमकुलीनमसंस्तुतं वा ।
प्रायेण भूमिपतयः प्रमदा लताश्च यः पार्श्वतो वसति तं परिवेष्टयन्ति ॥

5543

आसन्नयौवनस् त्वं दुहितुर्मे यौवनं त्वया प्रायः ।
क्षपितमलक्ष्यं स्त्रीणां गलति हि सहसैव तारुण्यम् ॥

5544

आसन्नसेवां नृपतेः क्रीडाशस्त्राहिपावकैः ।
कौशलेनातिमहता विनीतः सानुरुध्यते (?) ॥

5545

आसन्नाः कण्टकिनो रिपुभयदाः क्षीरिणोऽर्थनाशाय ।
फलिनः प्रजाक्षयकरा दारूण्यपि वर्जयेत् तेषाम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc