महासुभाषितसंग्रह · श्लोक 5506-5525
आश्लेषे सुन्दरीणां स्थितवति सहसा सर्वसंतृप्तिहेतौ व्यर्थः पीयूषमाप्तुं जलनिधिमथने यत्न इत्याकलय्य ।
तस्मादेते विरक्ता जगति सुमनसो यत् समस्तास्तदद्धा स्वर्गस्थानामिवैषां न कथमितरथा लाघवं स्यात् प्रतीतम् ॥
आश्वपेहि मम सीधुभाजनाद् यावदग्रदशनैर्न दृश्यसे ।
चन्द्र मद्दशनमण्डलाङ्कितः खं न यास्यसि हि रोहिणीभयात् ॥
आश्वसिहि महाबाहो प्राणिनां सर्वमापदः ।
स्पृशन्त्यनिलवल्लोके क्षणेन प्रतियान्ति च ॥
आश्वासयति काकोऽपि दुःखितां पथिकाङ्गनाम् ।
त्वं चन्द्रामृतजन्मापि दहसीति किमुच्यताम् ॥
आश्वासयेच्चापि परं सान्त्वधर्मार्थवृत्तिभिः ।
अथास्य प्रहरेत् काले यदा विचलिते पथि ॥
आश्वासस्नेहभक्तीनाम् एकमायतनं महत् ।
प्रकृष्टस्येव धर्मस्य प्रसादो मूर्तिसुन्दरः ॥
आश्वासितस्य मम नाम सुतोपलब्ध्या सद्यस् त्वया सह कृशोदरि विप्रयोगः ।
व्यावर्तितातपरुजः प्रथमाभ्रवृष्ट्या वृक्षस्य वैद्युत इवाग्निरुपस्थितोऽयम् ॥
आश्वास्य पर्वतकुलं तपनोष्णतप्तम् उद्दामदावविधुराणि च काननानि ।
नानानदीनदशतानि च पूरयित्वा रिक्तोऽसि यज्जलद सैव तवोत्तमश्रीः ॥
आश्विने कृष्णपक्षे च षष्ठ्यां भौमोऽथ रोहिणी ।
व्यतीपातस् तदा षष्ठी कपिलानन्तपुण्यदा ॥
आषाढशुक्लपक्षे भानोर्दिवसे शिरीषवृक्षस्य ।
मूलं जलेन पिष्ट्वा पिबेन् न भीस्तस्य सर्पोत्था ॥
आषाढी कार्त्तिकी माघी वचा शुण्ठी हरीतकी ।
गयायां पिण्डदानेन पुण्या श्लेष्महरानृणी ॥
आषाढे शशका दृष्टा स्थानास्थने सुभिक्षदाः ।
चतुष्पदादिनाशाय तल्लब्ध्यै शशदर्शनम् ॥
आषाढे श्रावणे मासि बीजावपनरोपणे ।
ग्रीष्मादन्यत्र वल्लीनां केचिदिच्छन्ति रोपणम् ॥
आ संप्रवृद्धेरपि वृद्धिकामः समेन संधानमिहोपगच्छेत् ।
अपक्वयोर्वा घटयोरवश्यम् अन्योऽन्यभेदी समसंनिपातः ॥
आसंसारं त्रिभुवनमिदं चिन्वतां तात तादृङ् नैवास्माकं नयनपदवीं श्रोत्रवर्त्मागतो वा ।
योऽयं धत्ते विषयकरिणीगाढरूढाभिभान- क्षीबस्यान्तःकरणकरिणः संयमालानलीलाम् ॥
आसक्ताः प्रतिकोटरं विषधरा भानोः करा मूर्धनि ज्वालाजालकरालदावदहनः प्रत्यङ्गमालिङ्गति ।
सर्वानन्दनचारुचन्दनतरोरेतस्य जीवातवे रे जीमूत विमुञ्च वारि बहुशो युष्मद्यशो जृम्भताम् ॥
आसज्य स्वयमेव चुम्बनविधिं याच्ञा विनालिङ्गनं तल्पान्ते जघनेन वेपथुमता पर्यर्पितं जानुनोः ।
क्रोधोत्कम्पममर्षयत्यनुनयत्यस्याः स्मरक्रीडया प्रौढैकाभिरतिः प्रियस्य हृदयं हेलाबलात् कर्षति ॥
आसते शतमधिक्षिति भूपास् तोयराशिरसि ते खलु कूपाः ।
किं ग्रहा दिवि न जाग्रति ते ते भास्करस्य कतमस् तुलयास्ते ॥
आसत्यलोकमखिलं भुवनं जलेषु निर्मज्जयेत् प्रकुपितो जलधिर्जवेन ।
किंतु स्वमन्तयितुमुद्यतमौर्वमग्निम् अन्तर्वसन्तमपि हन्तुमसौ न शक्तः ॥
आ सत्यलोकादा भूमेः स्वैरचारकृतश्रमाः ।
तेनुरिन्दुकराः स्वेदं द्रुतनीहारभूमिकम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0