भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 5486-5505

5486

आश्रितस्याप्रदानेन दत्तस्य हरणेन च ।
जन्मप्रभृति यद् दत्तं सर्वं नश्यति भारत ॥

5487

आश्रितानां भृतौ स्वामिसेवायां धर्मसेवने ।
पुत्रस्योत्पादने चैव न सन्ति प्रतिहस्तकाः ॥

5488

आश्रिताश्चैव लोकेन समृद्धिं यान्ति विद्विषः ।
समृद्धाश्च विनाशाय तस्मान् नोद्वेजयेत् प्रजाः ॥

5489

आश्रित्य नूनममृतद्युतयः पदं ते देहक्षयोपनतदिव्यपदाभिमुख्याः ।
लावण्यपुण्यनिचयं सुहृदि त्वदास्ये विन्यस्य यान्ति मिहिरं प्रतिमासभिन्नाः ॥

5490

आश्लिष्टभूमिं रसितारमुच्चैर् लोलद्भुजाकारबृहत्तरङ्गम् ।
फेनायमानं पतिमापगानाम् असावपस्मारिणमाशशङ्के ॥

5491

आश्लिष्टापि करोति सा मम तनुं कण्ठग्रहोत्कण्ठितां दृष्टापि प्रियदर्शना नियमयत्यक्ष्णोर्दिदृक्षां पुनः ।
अन्तश्चेतसि संस्थितापि हृदयं भूयो विशत्येव मे रूढप्रेमसमागमापि नवतां धत्ते प्रिया प्रत्यहम् ॥

5492

आश्लिष्टा रभसाद् विलीयत इवाक्रान्ताप्यनङ्गेन या यस्याः कृत्रिमचण्डवस्तुकरणाकूतेषु खिन्नं मनः ।
कोऽयं काहमिति प्रवृत्तसुरता जानाति या नान्तरं रन्तुः सा रमणी स एव रमणः शेषौ तु जायापती ॥

5493

आश्लिष्य वा पादरतां पिनष्टु माम् अदर्शनान् मर्महतां करोतु वा ।
यथा तथा वा विदधातु नागरो मत्प्राणनाथस्तु स एव नापरः ॥

5494

आश्लेषचुम्बनरतोत्सवकौतुकानि क्रीडादुरोदरपणः प्रतिभूरनङ्गः ।
भोगः स यद्यपि जये च पराजये च यूनोर्मनस्तदपि वाञ्छति जेतुमेव ॥

5495

आश्लेषशेषा रतिरङ्गनानाम् आमोदशेषा कुचकुङ्कुमश्रीः ।
तूणीरशेषः कुसुमायुधोऽपि प्रभातशेषा रजनी बभूव ॥

5496

आश्लेषादनु चुम्बनादनु नखोल्लेखादनु स्वान्तज- प्रोद्बोधादनु संभ्रमादनु रतारम्भादनु प्रीतयोः ।
अन्यार्थं गतयोर्भ्रमान् मिलितयोः संभाषणैर्जानतोर् दम्पत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः ॥

5497

आश्लेषाधरबिम्बचुम्बनसुखालापस्मितान्यासत् आं दूरे तावदिदं मिथो न सुलभं जातं मुखालोकनम् ।
इत्थं व्यर्थकृतैकदेहघटनाविन्यासयोरावयोः केयं प्रीतिविदम्बनेत्यवतु वः स्मेरोऽर्धनारीश्वरः ॥

5498

आश्लेषेण पयोधरप्रणयिनीं प्रत्यादिशन्त्या दृशं दृष्ट्वा चाधरबद्धतृष्णमधरं निर्भर्त्सयन्त्या मुखम् ।
ऊर्वोर्गाढनिपीडनेन जघने पाणिं च रुद्ध्वानया पत्युः प्रेम न खण्डितं निपुणया मानोऽपि नैवोज्झितः ॥

5499

आश्लेषे प्रथमं क्रमादपहृते हृद्येऽधरस्यार्पणे केलिद्यूतविधौ पणं प्रियतमे कान्तां पुनः पृच्छति ।
अन्तर्गूढविगाढसंभ्रमरसस्फारीभवद्गण्डया तूष्णीं शारिविसारणाय निहितः स्वेदाम्बुगर्भः करः ॥

5500

आश्लेषे सर्वदा पत्युः सतृष्णेवान्तरात्मना ।
अर्धनारीश्वरतनौ गौरीवृत्तं समीहते ॥

5501

संभोगायोग्यकालेषु सार्धं कान्तेन कामिनी ।
वापीसौधे गृहोद्याने यात्रासङ्गेन तिष्ठति ॥

5502

अन्यच्छायावलोकेऽपि परालापे मनागपि ।
पत्ये क्रुद्ध्यत्यनर्थादौ स्वयं चापि निमज्जति ॥

5503

अपरोपगमारम्भम् उन्नाटयति वल्लभम् ।
दरिद्रजरतीवार्ता शिशिरे सायमातपम् ॥

5504

पत्युः शय्यापरावृत्तिं वियोगमिव मन्यते ।
देवागारप्रयाणं च प्रवासमिव पश्यति ॥

5505

अतिस्नेहस्य निस्यन्दाद् अतिप्रेम्णः प्रवृत्तिभिः ।
छायेवानुचरेत् कान्तं यान्तं तिष्ठन्तमङ्गना ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc