भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 5466-5485

5466

आश्चर्यं पाणिपाशस्य गिरीन्द्रतनये तव ।
जगद्बन्धनहा शंभुर् येन बन्धं समिच्छति ॥

5467

आश्चर्यं वडवानलः स भगवानाश्चर्यमम्भोनिधिर् यत्कर्मातिशयं विचिन्त्य हृदये कम्पः समुत्पद्यते ।
एकस्याश्रयघस्मरस्य पिबतस्तृप्तिर्न जाता जलैर् अन्यस्यापि महात्मनो न वपुषि स्वल्पोऽपि तोयव्ययः ॥

5468

आश्चर्यं समराम्बरे रिपुयशश्चन्द्रप्रतापार्कयोः सर्वग्रासमयं सहैव तनुते त्वत्खङ्गराहुः कथम् ।
किं चान्यत् परलोकनिर्भय भवांस्तस्मिन् महत्युत्सवे गृह्णाति त्यजतामकम्पहृदयो राज्ञां समस्ता भुवः ॥

5469

आश्चर्यधामभिरतीव गुणैः किमेतज् जालं त्वया विरचितं यदपूर्वमेव ।
चेतांसि मूर्तिरहितान्यपि चञ्चलानि बध्नाति यच्छ्रुतिगतं तदपूर्वमेव ॥

5470

आश्चर्यमुत्पलदृशो वदनामलेन्दु- सांनिध्यतो मम मुहुर्जदिमानमेत्य ।
जात्येन चन्द्रमणिनेव महीधरस्य संधार्यते द्रवमयो मनसा विकारः ॥

5471

आश्चर्यमूर्जितमिदं किमु किं मदीयश् चित्तभ्रमो यदयमिन्दुरनम्बरेऽपि ।
तत्रापि कापि ननु चित्रपरंपरेयम् उज्जृम्भितं कुवलयद्वितयं यदत्र ॥

5472

आश्चर्यस्तिमिताः क्षणं क्षणमथ प्रीतिप्रमीलत्पुटा वातान्दोलितपङ्कजातसुमनःपीयूषधारामुचः ।
एताः कस्य हरन्ति हन्त न मनः किंचित्त्रपामञ्जुल- प्रेमप्रेरणमत्र मुग्धमुरचत्तारोत्तरा (?) दृष्टयः ॥

5473

आश्चर्यैकनिधिः स दुग्धजलधिर्मन्ये किमन्यद् यतो लेभे जन्म स लोकलोचनसुधासारस् तुषारद्युतिः ।
देवीकेलिकचग्रहेण ललिते गङ्गातरङ्गाङ्किते निःशङ्कं निरटङ्कि शंकरजटाजूटेऽपि येन स्थितिः ॥

5474

आ श्मशानान् निवर्तन्ते ज्ञातयः सह बान्धवैः ।
त्वयैकेनैव गन्तव्यं तत् कर्म सुकृतं कुरु ॥

5475

आश्यानैर्गलितं दलैर्बत कथाशेषाः प्रसूनश्रियो नोद्भेदोऽपि फलं प्रति प्रतिदिशं याता निराशाः खगाः ।
आपातालविशुष्कमूलकुहरोन्मीलज्जटासंततिस् तूष्णीमस्ति तथाप्यकालजलदं ध्यायन् मरुक्ष्मारुहः ॥

5476

आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः ।
भिक्षाबलिपरिश्रान्तः प्रव्रजन् प्रेत्य वर्धते ॥

5477

आश्रमी यदि वा वर्णी पूज्यो वाथ गुरुर्महान् ।
नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मेण तिष्ठति ॥

5478

आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः ।
न विब्रूयान् नृपो धर्मं चिकीर्षन् हितमात्मनः ॥

5479

आश्रयः कियतामेष तरुः सन्मार्गमाश्रितः ।
पाथोद सिच्यतां काले नोपेक्ष्यो दूरभावतः ॥

5480

आश्रयः सर्वभूतानां निवासः सर्वपक्षिणाम् ।
ददाति सदृशा भागं सजलस्य पयोमुचः ॥

5481

आश्रयमाश्रयलिप्सुस् तुङ्गं सेवेत दुरधिरोहमपि ।
विनिपतति यदि स तस्मात् तथाप्युपर्येव नीचानाम् ॥

5482

आश्रयवशेन सततं गुरुता लघुता च जायते जन्तोः ।
विन्ध्ये विन्ध्यसमानाः करिणो बत दर्पणे लघवः ॥

5483

आश्रयाशः कृष्णवर्त्मा दहनश्चैष दुर्जनः ।
अग्निरेव तथाप्यस्मिन् स्याद् भस्मनि हुतं हुतम् ॥

5484

आश्रयितव्यो नरपतिर् अर्जयितव्यानि भूरि वित्तानि ।
आरब्धव्यं वितरणम् आनेतव्यं यशोऽपि दशदिग्भ्यः ॥

5485

आश्रयेणैव शोभन्ते पण्डिता वनिता लताः ।
बहुमूल्यं हि माणिक्यं जटितं हेम्नि राजते ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc