भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 5446-5465

5446

आशायास् तनया माया क्रोधोऽसूयासुतः स्मृतः ।
हिंसायास् तनयः पापः कृतघ्नो नार्हति प्रजाम् ॥

5447

आशालतावलयितं बद्धमूलमविद्यया ।
को हि तापयितुं शक्तः मुखेन भवपादपम् ॥

5448

आशावलम्बोपचिता न कस्य तृष्णालतानर्थफलं प्रसूते ।
दिने दिने लब्धरुचिर्विवस्वान् मीनं च मेषं च वृषं च भुङ्क्ते ॥

5449

आशाविप्लुतचेतसोऽभिलषिताल्लाभादलाभो वरस् तस्यालाभनिराकृता हि तनुतामापद्यते प्रार्थना ।
इष्टावाप्तिसमुद्भवस्तु सुतरां हर्षः प्रमाथी धृतेः सेतोर्भङ्ग इवाम्भसां विवशतां वेगेन विस्तार्यते ॥

5450

आशासरसीं शोषय तपसा तन्मध्यस्थः पोषय मनसा ।
कायक्लेशं शोधय परुषं शिथिलय परमब्रह्मणि कलुषम् ॥

5451

आशासानो न वै भृत्यः स्वामिन्याशिष आत्मनः ।
न स्वामी भृत्यतः स्वाम्यम् इच्छन् यो राति चाशिषः ॥

5452

आशासु राशीभवदङ्गवल्ली- भासैव दासीकृतदुग्धसिन्धुम् ।
मन्दस्मितैर्निन्दितशारदेन्दुं वन्देऽरविन्दासनसुन्दरि त्वाम् ॥
आशास्यमन्यत् पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस् ते ।
पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव ॥

5453

आशा हि परमं दुःखं निराशा परमं सुखम् ।
आशापाशं परित्यज्य सुखं स्वपिति पिङ्गला ॥

5454

आशा हि परमं दुःखं नैराश्यं परमं सुखम् ।
यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ॥

5455

आशिषं च तिलकं च जनन्या मन्यते स्म कवचाधिकमन्यः ।
येन संयति हि सर्वभटानां विक्रमैकवचतां (?) प्रतिपेदे ॥

5456

आशीर्वादमुखा स्त्री मन्त्रमुखो ब्राह्मणः प्रियवाक् ।
कुशलं पृच्छन्नतिथिः प्रियसुहृदानन्दपरिपूर्णः ॥

5457

आशीविषमिव क्रुद्धं प्रभुं प्राणधनेश्वरम् ।
यत्नेनोपचरेन् नित्यं नाहमस्मीति मानवः ॥

5458

आशीविषेण रदनच्छददंशदानम् एतेन ते पुनरनर्थतया न गण्यम् ।
बाधां विधातुमधरे हि न तावकीने पीयूषसारघटिते घटतेऽस्य शक्तिः ॥

5459

आशु कान्तमभिसारितवत्या योषितः पुलकरुद्धकपोलम् ।
निर्जिगाय मुखमिन्दुमखण्डं खण्डपत्रतिलकाकृति कान्त्या ॥

5460

आशु लङ्घितवतीष्टकराग्रे नीविमर्धमुकुलीकृतदृष्ट्या ।
रक्तवैणिकहताधरतन्त्री- मण्डलक्वणितचारु चुकूजे ॥

5461

आशैकतन्तुमवलम्ब्य विलम्बमाना रक्षामि जीवमवधिर्नियतो यदि स्यात् ।
नो चेद् विधिः सकललोकहितैककारी यत् कालकूटमसृजत् तदिदं किमर्थम् ॥

5462

आ शैलेन्द्राच् शिलान्तःस्खलितसुरधुनीशीकरासारशीत् आद् आ तीरान्नैकरागस्फुरितमणिरुचो दक्षिणस्यार्णवस्य ।
आगत्यागत्य भीतिप्रणतनृपशतैः शश्वदेव क्रियन्ते चूडारत्नांशुगर्भास्तव चरणयुगस्याङ्गुलीरन्ध्रभागाः ॥

5463

आशैव राक्षसी पुंसाम् आशैव विषमञ्जरी ।
आशैव जीर्णमदिरा धिगाशा सर्वदोषभूः ॥

5464

आ शैशवान् ममतया कलितस् त्वयासौ आनृण्यमम्ब तव लब्धुमना मृगाङ्कः ।
स्वात्मानमेव नियतं बहुधा विभज्य त्वत्पादयोर्विनिदधे नखरापदेशात् ॥

5465

आश्चर्यं कथयामि कस्य पुरतः कुर्वे किमेमि क्व वा काचित् काञ्चनवल्लरी गृहशिरोरूढा समुज्जृम्भते ।
अस्यां किं च सखे दधन्ति सुषमां नारङ्गबिम्बोपमां दृष्ट्वा पक्वफलानि मेमृदु मनो मोहं समुत्पद्यते ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc