महासुभाषितसंग्रह · श्लोक 5426-5445
आशातुरगमारुह्य नित्यं धावति याचकः ।
न चार्तिः न श्रमो ह्यस्य न गतौ नापि मन्दता ॥
आशा धृतिं हन्ति समृद्धिमन्तकः क्रोधः श्रियं हन्ति यशः कदर्यता ।
अपालनं हन्ति पशूंश्च राजन्न् एकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम् ॥
आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी ।
मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी तस्याः पारगता विशुद्धमनसो नन्दन्तु योगीश्वराः ॥
आशा नाम मनुष्याणां काश्चिदाश्चर्यशृङ्खला ।
यया बद्धाःप्रधावन्ति मुक्तास् तिष्ठन्ति कुत्रचित् ॥
आशा निष्ठा प्रतिष्ठा मम किल महिलास्तासु सौख्यं कदा स्याद् या प्रान्त्या सा विदध्यादिह किमपि तथा मध्यमा सा परत्र ।
आद्या सा नोभयत्राप्यहह तदपि किं सक्ततां यामि तस्यां या प्रौढ्यादप्रगल्भे प्रतिदिवसमुभे ते कदर्थीकरोति ॥
आशापाशनिबद्धो नृत्यति किं वा नरो न धनिकपुरः ।
हतशैलूषस्य विधेः कुत्र विधेयः सुखमुपैति ॥
आशापाशविमुक्तिनिश्चलसुखा स्वायत्तचित्तस्थितिः स्नेहद्वेषविषादलोभविरतिः संतोषतृप्तं मनः ।
चिन्ता नित्यमनित्यतापरिचये सङ्गेऽपि निःसङ्गता संवित्सेकविवेकपूतमनसामित्येष मोक्षक्रमः ॥
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।
ईहन्ते कामभोगार्थम् अन्यायेनार्थसंचयान् ॥
आशापाशशतैर्बद्धा वासनाभरवाहिनः ।
कायात् कायमुपायान्ति वृक्षाद् वृक्षमिवाण्डजाः ॥
आशापाशैः परीताङ्गा ये भवन्ति नरोऽर्दिताः ।
ते रात्रौ शेरते नैव तदप्राप्तिविचिन्तया ॥
आशापिशाचिका मां भ्रमयति परितो दशस्वपि दिशासु ।
स्वीये पिशाचवर्गे सेवायै किं न योजयसि ॥
आशापिशाचिकाविष्टः पुरतो यस्य कस्यचित् ।
वन्दते निन्दति स्तौति रोदिति प्रहसत्यपि ॥
आशा बलवती कष्टा नैराश्यं परमं सुखम् ।
आशां निराशां कृत्वा तु सुखं स्वपिति पिङ्गला ॥
आशा बलवती राजन् विपरीता हि शृङ्खला ।
यया बद्धाः प्रधावन्ति मुक्तास्तिष्ठन्ति पङ्गुवत् ॥
आशा भङ्गकरी पुंसाम् अजेयारातिसंनिभा ।
तस्मादाशां त्यजेत् प्राज्ञो यदीच्छेच् शाश्वतं सुखम् ॥
आशाभरेण निखिलाशासु धावनमथाशातकुम्भगिरि वा क्लेशावहं विविधदेशाटनं द्रविणलेशायनापि ववृते ।
आशातिदामवितुमाशास्व पाणिधृतपाशामनेकजगताम् ईशामुपासितगिरीशामिहाङ्गदिगधीशार्चिताङ्घ्रिनलिनाम् ॥
आशाभिभूता ये मर्त्या महामोहा महोद्धताः ।
अवमानादिकं दुःखं न जानन्ति कदाप्यहो ॥
आशामुत्पाद्य चाकृष्य वञ्चयेद् रिपुमन्त्रिणम् ।
असुरेभ्यो हृतौ दत्वा शाण्डामर्कौ ग्रहं सुरैः ॥
आशायाः खलु ये दासास् ते दासाः सर्वदेहिनाम् ।
आशा दासीकृता येन तस्य दासायते जगत् ॥
आशाया ये दासास् ते दासाः सर्वलोकस्य ।
आशा येषां दासी तेषां दासायते लोकः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0