महासुभाषितसंग्रह · श्लोक 5405-5425
आवृण्वाना झगिति जघनं मद्दुकूलाञ्चलेन प्रेङ्खत्क्रीडाकुलितकबरीबन्धनव्यग्रपाणिः ।
अर्धोच्छ्वासस्फुटनखपदालंकृताभ्यां स्तनाभ्यां दृष्टा धार्ष्ट्यस्मृतिनतमुखी मोहनान्ते मया सा ॥
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥
आवृतान्यपि निरन्तरमुच्चैर् योषितामुरसिजद्वितयेन ।
रागिणामित इतो विमृशद्भिः पाणिभिर्जगृहिरे हृदयानि ॥
आवृत्य श्रीमदेनान्धान् अन्योन्यकृतसंविदः ।
स्वैरं हसन्ति पार्श्वस्था बालोन्मत्तपिशाचवत् ॥
आवेदयितुमस्माकं कृतज्ञत्वं प्रभुं प्रति ।
पन्थाः श्रेयस्करो नान्यः तूष्णीं तोषेण वर्तनात् ॥
आवेद्यतामविदितं किमथाप्यनुक्तं वक्तव्यमान्तररुजोपशमाय नालम् ।
इत्युच्यते किमपि तच्छ्रवणे निधातुं मातः प्रसीद मलयध्वजपाण्ड्यकन्ये ॥
आवेपते भ्रमति सर्पति मोहमेति कान्तं विलोकयति कूजति दीनदीनम् ।
अस्तं हि भानुमति गच्छति चक्रवाकी हा जीवितेऽपि मरणं प्रियविप्रयोगः ॥
आशङ्क्य प्रणतिं पटान्तपिहितौ पादौ करोत्यादराद् व्याजेनागतमावृणोति हसितं न स्पष्टमुद्वीक्षते ।
मय्यालापवति प्रतीपवचना सख्या समं भाषते तन्व्यास् तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः ॥
आशया कृतदासो यः स दासः सर्वदेहिनाम् ।
आशा दासीकृता येन तस्य दासायते जगत् ॥
आशां कालवतीं कुर्यात् कालं विघ्नेन योजयेत् ।
विग्नं निमित्ततो ब्रूयान् निमित्तं चापि हेतुतः ॥
आशाः काञ्चनपुष्पकुड्मलकुलच्छन्ना न काः क्ष्मातले सौजन्यामृतवर्षिभिस् तिलकितं सेव्यैर्न किं मण्डलम् ।
पन्थानः सुचिरोपचाररुचिरैर्व्याप्ता न कैः संस्तुतैस् तेषामत्र वसन्ति निह्नुतगुणाः कालेन ये मोहिताः ॥
आशाः खर्वय गर्वयातिमुखरानुन्नादिनो बर्हिणः सर्वांस्त्रासय गर्जितैः कलगिरो हंसान् समुत्सारय ।
द्रागास्कन्दय मित्रमण्डलमलं सद्वर्त्म संदूषय श्रीमन्नब्द नयत्ययं न पवनो यावद् दशां कामपि ॥
आशाः पूरयति श्रियं वितरति त्रैलोक्यतापं हरत्य् अव्याजामृतसेचनं विदधति प्रीतिं परां तन्वति ।
एतेन प्रसभं चिरं जलमुचा कालेन दूरीकृते पूर्णे राजनि जातमुल्बणतमस्तोमावशेषं जगत् ॥
आशाः प्रकाशयति यस्तिमिराणि भङ्क्त्वा बोधं दृशां दिशति भूरिगुणेष्वभीष्टः ।
खेदाय यस्य न परोपकृतिष्वटाट्या धीमान् नमस्यति न कस्तमिनं प्रशस्यम् ॥
आशाः प्रसादयतु पुष्यतु वा चकोरान् कामं तनोतु कुमुदेषु मुदं सुधांशुः ।
एकः स एव परमुत्कटराहुदन्त- पत्रप्रवेशसमदुःखसुखः कुरङ्गः ॥
आशाः संतमसोपलेपमलिनाः पीयूषगौरैः करैर् आलिम्पन्नयमुद्गतैर्दिवमिमां कर्पूरपूरं सृजन् ।
चन्द्रश्चन्द्रशिलैककुट्टिममयं क्षोणीतलं कल्पयन् पश्योद्गच्छति पाकपाण्डुरशरच्छायोपमेयच्छविः ॥
आशाखनिरगाधेयं दुष्पूरा केन पूर्यते ।
या महद्भिरपि क्षिप्तैः पूरकैरेव खन्यते ॥
आशाखनिरगाधेयम् अधःकृतजगत्त्रया ।
उद्धृत्योद्धृत्य तत्रस्थान् अहो सद्भिः समीकृता ॥
आशागर्तः प्रतिप्राणि यस्मिन् विश्वमणूपमम् ।
कस्य किं कियदायाति वृथा या विषयैषिता ॥
आशागृहीता विकला भवन्ति हतत्रपा न्यस्तगुणाभिमानाः ।
भ्राम्यन्ति मत्ता इव नष्टसंज्ञा देहीतिवाचस् तरलस्वभावाः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0