महासुभाषितसंग्रह · श्लोक 5385-5404
आवासो विपिनायते प्रियसखीमालापि जालायते तापोऽपि श्वसितेन दावदहनज्वालाकलापायते ।
सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं कन्दर्पोऽपि यमायते विरचयञ् शार्दूलविक्रीडितम् ॥
आ विन्ध्यादा हिमाद्रर्विरचितविजयस्तीर्थयात्राप्रसङ्गाद् उद्ग्रीवेषु प्रहर्ता नृपतिषु विनमत्कन्धरेषु प्रसन्नः ।
आर्यावर्तं यथार्थं पुनरपि कृतवान् म्लेच्छविच्छेदनाभिर् देवः शाकंभरीन्द्रो जगति विजयते बीसलः क्षोणिपालः ॥
आविर्भवति नारीणां वयः पर्यस्तशैशवम् ।
सहैव विविधैः पुंसाम् अङ्गजोन्मादविभ्रमैः ॥
आविर्भवन्ती प्रथमं प्रियायाः सोच्छ्वासमन्तःकरणं करोति ।
संतापदग्धस्य शिखण्डियूनो वृष्टेः पुरस्तादचिरप्रभेव ॥
आविर्भावदिने न येन गणितो हेतुस्तनीयानपि क्षीयेतापि न चापराधविधिना नत्या न यो वर्धते ।
पीयूषप्रतिवेदिनस्त्रिजगतीदुःखद्रुहः सांप्रतं प्रेम्णस्तस्य गुरोः कथं नु करवै वाङ्निष्ठतालाघवम् ॥
आविर्भूतं चतुर्धा यः कपिभिः परिवारितः ।
हतवान् राक्षसानीकं रामं दाशरथिं भजे ॥
आविर्भूतज्योतिषां ब्राह्मणानां ये व्याहारास्तेषु मा संशयो भूत् ।
भद्रा ह्येषां वाचि लक्ष्मीर्निषिक्ता नैते वाचं विप्लुतार्थां वदन्ति ॥
आविर्भूतविपाण्डुरच्छवि मुखं क्षामा कपोलस्थली सव्यापारपरिश्लथे च नयनेऽनुत्साहमुग्धं वपुः ।
श्यामीभूतमुखं पयोधरयुगं मध्यः स्वभावोच्छ्रितो जातान्यैव मनोहराकृतिरहो गर्भोदये सुभ्रुवः ॥
आविर्भूतानुरागाः क्षणमुदयगिरेरुज्जिहानस्य भानोः पर्णच्छायैः पुरस्तादुपवनतरवो दूरमाश्वेव गत्वा ।
एते तस्मिन् निवृत्ताः पुनरपरगिरिप्रान्तपर्यस्तबिम्बे प्रायो भृत्यास्त्यजन्ति प्रचलितविभवं स्वामिनं सेवमानाः ॥
आविर्भूते शशिनि तमसा मुच्यमानेव रात्रिर् नैशस्यार्चिर्हुतभुज इव छिन्नभूयिष्ठधूमा ।
मोहेनान्तर्वरतनुरियं लक्ष्यते मुक्तकल्पा गङ्गा रोधःपतनकलुषा गृह्णतीव प्रसादम् ॥
आविर्भूतो जगति सुषमारूपतो भौतिकेऽस्मिन् ज्ञानात्मासौ लसति भगवान् विष्टपे मानसीये ।
प्राणानां वा ज्वलति भुवने प्रस्फुटः शक्तिमूर्त्या प्रेमद्वारा प्रकटिततनुर्भासते चैत्यलोके ॥
आविलपयोधराग्रं लवलीदलपाण्डुराननच्छायम् ।
तानि दिनानि वपुरभूत् केवलमलसेक्षणं तस्याः ॥
आ विवाहसमयाद् गृहे वने शैशवे तदनु यौवने पुनः ।
स्वापहेतुरनुपाश्रितोऽन्यया रामबाहुरुपधानमेष ते ॥
आविशद्भिरुटजाङ्गणं मृगैर् मूलसेकसरसैश्च वृक्षकैः ।
आश्रमाः प्रविशदग्निधेनवो बिभ्रति श्रियमुदीरिताग्नयः ॥
आविष्करोति न स्नेहं रागं बध्नाति नो रते ।
अभियुक्ता तु मन्देच्छा सान्यकामा तु कामिनी ॥
आविष्कुर्वन्निव नवनवेनादरेणानुरागं सर्वाङ्गीणं सुचिरविरहोन्मूर्च्छितायां नलिन्याम् ।
त्रैलोक्यान्धीकरणतिमिरद्वेषरोषारुणत्वं व्याकुर्वन् वा किमयमुदयत्यम्बरे तिग्मरोचिः ॥
आविष्कृतान् परगुणान् कलयन्ति तूष्णीं दुश्चेतसो बत विदूषयितुं न रागात् ।
आकर्णयन्ति किल कोकिलकूजितानि संधातुमेव किल सप्तनलीं किराताः ॥
आविष्ट इव दुःखेन तद्गतेन गरीयसा ।
समन्वितः करुणया परया दीनमुद्धरेत् ॥
आवृणोति यदि सा मृगीदृशी स्वाञ्चले कुचकाञ्चनाचलम् ।
भूय एव बहिरेति गौरवाद् उन्नतो न सहते तिरस्क्रियाम् ॥
आवृण्वतो लोचनमार्गमाजौ रजोऽन्धकारस्य विजृम्भितस्य ।
शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणोऽभूद् रुधिरप्रवाहः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0