महासुभाषितसंग्रह · श्लोक 5365-5384
आवत्सरमहिभीतिर् न स्याद् अस्य प्रभावेण ।
शुकनासां च पिबेद् यो जलपिष्टां तस्य भीर्नास्ति ॥
आवयोर्योधमुख्याभ्यां मदर्थः साध्यतामिति ।
यस्मिन् पणः प्रक्रियते स संधिः पुरुषान्तरः ॥
आवर्जित इव विनयाद् ईषन्मधुरस्मिताननसरोजः ।
अङ्कार्पितकरयुगलः कलयति विज्ञप्तिमीक्षितो नृपतेः ॥
आवर्जिता किंचिद् इव स्तनाभ्यां वासो वसाना तरुणार्करागम् ।
पर्याप्तपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव ॥
आवर्जितालकालि श्वासोत्कम्पस्तनार्पितैकभुजम् ।
शयनं रतिविवशतनोः स्मरामि शिथिलांशुकं तस्याः ॥
आवर्तः ककुदे यस्य ककुदी स उदाहृतः ।
मुष्केणैकेन युक्तस्तु हयस् त्वेकाण्डसंज्ञितः ॥
आवर्तः संशयानाम् अविनयभवनं पत्तनं साहसानां दोषाणां संनिधानं कपटशतमयं क्षेत्रमप्रत्ययानाम् ।
स्वर्गद्वारस्य विघ्नं नरकपुरमुखं सर्वमायाकरण्डं स्त्रीयन्त्रं केन सृष्टं विषममृतमयं प्राणिलोकस्य पाशः ॥
आवर्त इव तोयस्य ज्ञानावर्तो यदाकुलः ।
चित्तमास कृतावर्तम् उपसर्गः स उच्यते ॥
आवर्त एव नाभिस्ते नेत्रे नीलसरोरुहे ।
तरङ्गा वलयस्तेन त्वं लावण्याम्बुवापिका ॥
आवर्तशोभा नतनाभिकान्तेर् भङ्ग्यो भ्रुवां द्वन्द्वचराः स्तनानाम् ।
जातानि रूपावयवोपमानान्य् अदूरवर्तीनि विलासिनीनाम् ॥
आवर्तिनः शुभफलप्रदशुक्तियुक्ताः संपन्नदेवमणयो भृतरन्ध्रभागाः ।
अश्वाः प्यधुर्वसुमतीमतिरोचमानास् तूर्णं पयोधय इवोर्मिभिरापतन्तः ॥
आवर्तैरातर्पण- शोभां डिण्डीरपाण्डुरैर्दधती ।
गायति मुखरितसलिला प्रियसंगममङ्गलं सुरसा ॥
आवर्त्य कण्ठं सिचयेन सम्यग् आबद्ध्य वक्षोरुहकुम्भयुग्मम् ।
कासौ करालम्बिततैलपात्रा मन्दं समासीदति सुन्दरीं ताम् ॥
आवर्त्य यो मुहुर्मन्त्रं धारयेच्च प्रयत्नतः ।
अप्रयत्नधृतो मन्त्रः प्रचलन्नग्निवद् दहेत् ॥
आवाचां व्यक्ततायाः कविपदविषयेष्वाचचष्टे समन्यो मुक्तास्माभिर्न कोऽपि स्मरपदमवनौ संस्तुतः सत्यमेतत् ।
मिथ्यैतद् भोः कथं रे ननु शतमकृथाः कुन्तलेन्द्रस्य तत्तत् काव्यस्तोत्राणि धिक् त्वां जडमय न मनोरेव मूर्तिप्रभेदः ॥
आवाति स्फुटितप्रियङ्गुसुरभिर्नीहारवारिच्छलात् स्वच्छन्दं कमलाकरेषु विकिरन् प्रच्छन्नवह्निच्छटाः ।
प्रातः कुन्दसमृद्धिदर्शनरसप्रीतिप्रकर्षोल्लसन् मालाकारवधूकपोलपुलकस्थैर्यक्षमो मारुतः ॥
आवासः किलकिञ्चितस्य दयिताः पार्श्वे विलासालसाः कर्णे कोकिलकामिनीकलरवः स्मेरो लतामण्डपः ।
गोष्ठी सत्कविभिः समं कतिपयैर्मुग्धाः सितांशोः कराः केषांचित् सुखयन्ति चात्र हृदयं चैत्रे विचित्राः स्रजः ॥
आवासः क्रियतां गाङ्गे पापवारिणि वारिणि ।
स्तनमध्ये तरुण्या वा मनोहारिणि हारिणि ॥
आवासेऽस्मिन् विदग्धाः क्वचिदपि न विभो नापि निद्रोपभोग- योग्यत्वं स्रस्तरास्था विलयमुपगता संमुखे विद्युदेषा ।
प्रोद्यंश्चायं पयोभृत् तदिति यदि रुचिर्नैशवासेतदास्स्वेत्य् उक्तः पान्थः सुदत्या हतमदनभयस् तत्र मुग्धोऽतिमुग्धः ॥
आवासोत्सुकपक्षिणः कलरुतं क्रामन्ति वृक्षालयान् कान्ताभाविवियोगभीरुरधिकं क्रन्दत्ययं कातरः ।
चक्राह्वो मधुपाः सरोजगहनं धावन्त्युलूको मुदं धत्ते चारुणतांगतो रविरसावस्ताचलं चुम्बति ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0