महासुभाषितसंग्रह · श्लोक 5345-5364
अलोकवन्तः सन्त्येव भूयांसो भास्करादयः ।
कलावानेव तु ग्रावद्रावकर्मणि कर्मठः ॥
आलोकविशाला मे सहसा तिमिरप्रवेशविच्छिन्ना ।
उन्मीलितापि दृष्टिर् निमीलितेवान्धकारेण ॥
आ लोकान्तात् प्रतिहततमोवृत्तिरासां प्रजानां तुल्योद्योगस् तव दिनकृतश् चाधिकारो मतो नः ।
तिष्ठत्येष क्षणमधिपतिर्ज्योतिषां व्योममध्ये षष्ठे भागे त्वमपि दिवसस्यात्मनश् छन्दवर्ती ॥
आलोकावधि यद्वशेन सुगतिं विन्दन्ति भूतान्यसौ दृष्टिस्नेहवशेन सा वितनुते वंशे भुजङ्गभ्रमम् ।
दक्षा भोगिषु केषुचिद् विषमितां दृष्टिं निहन्तुं क्षणात् तानप्याशु विनाशयेत् क्षणरुचिः काचित् क्षणस्फूर्जथुः ॥
आलोकितं गृहशिखण्डिभिरुत्कलापैर् हंसैर्यियासुभिरपाकृतमुन्मनस्कैः ।
आकालिकं सपदि दुर्दिनमन्तरिक्षम् उत्कण्ठितस्य हृदयं च समं रुणद्धि ॥
आलोकैरतिपाटलैरचरमां विस्तारयद्भिर्दिशं नक्षत्रद्युतिमाक्षिपद्भिरचिरादाशङ्क्य सूर्योदयम् ।
पुञ्जीभूय भयादिवान्धतमसं मन्ये द्विरेफच्छलान् मीलन्नीलसरोरुहोदरकुटीकोणान्तरे लीयते ॥
आलोक्य कोमलकपोलतलाभिषिक्त- व्यक्तानुरागसुभगामभिराममूर्तिम् ।
पश्यैष बाल्यमतिवृत्य विवर्तमानः शृङ्गारसीमनि तरङ्गितमातनोति ॥
आलोक्य चन्द्रमसमभ्युदितं समन्ताद् उद्वेल्लदूर्मिविचलत्कलशाम्बुराशेः ।
विष्वग्विसारिपरमाणुपरंपरैव ज्योत्स्नात्मना जगदिदं धवलीकरोति ॥
आलोक्य चिकुरनिकरं सततं सुमनोऽधिवासयोग्यं ते ।
कामो निजं निषङ्गं परिवृत्यामृशति साशङ्कः ॥
आलोक्य पाणी सुविमृज्य नेत्रे तल्पात् समुत्थाय विधाय भूषाम् ।
आचुम्ब्य कान्तं परिधाय वासो यान्ती सलज्जा हृदयं दुनोति ॥
आलोक्य प्रियतममंशुके विनीवौ यत्तस्थे नमितमुखेन्दु मानवत्या ।
तन्नूनं पदमवलोकयांबभूवे मानस्य द्रुतमपयानमास्थितस्य ॥
आलोक्य सुन्दरि मुखं तव मन्दहासं नन्दन्त्य्मन्दमरविन्दधिया मिलिन्दाः ।
किं चासिताक्षि मृगलाञ्छनसंभ्रमेण चञ्चूपुटं चटुलयन्ति चिरं चकोराः ॥
आलोचनं च वचनं च निगूहनं च यासां स्मरन्नमृतवत् सरसं कृशस् त्वम् ।
तासां किमङ्ग पिशितास्रपुरीषपात्रं गात्रं स्मरन् मृगदृशां न निराकुलोऽसि ॥
आलोच्य वाक्यं स्वयमन्तरात्मा हृष्टः परानन्दमिव प्रविष्टः ।
प्रायेण भावीनि भवन्ति वस्तून्य् आलोच्यमानानि मनोहराणि ॥
आलोड्य सर्वशास्त्राणि पुराणान्युत्तमोत्तमाः ।
विचिन्त्य सर्वभूतेषु दयां कुर्वन्ति साधवः ॥
आलोड्य सर्वशास्त्राणि विचार्यैवं पुनः पुनः ।
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥
आलोलामलकावलीं विलुलितां बिभ्रच्चलत्कुण्डलं किंचिन्मृष्टविशेषकं तनुतरैः स्वेदाम्भसां जालकैः ।
तन्व्या यत् सुरतान्ततान्तनयनं वक्त्रं रतिव्यत्यये तत् त्वां पातु चिराय किं हरिहरब्रह्मादिभिर्देवतैः ॥
आलोलैरुपगम्यते मधुकरैः केशेषु माल्यग्रहः कान्तिः कापि कपोलयोः प्रथयते ताम्बूलमन्तर्गतम् ।
अङ्गानामनुलेपनं परिमलैरालेपनप्रक्रिया वेषः कोऽपि सरोजसुन्दरदृशः सूते सुखं चक्षुषोः ॥
आलोहितमाकलयन् कन्दलमुत्कम्पितं मधुकरेण ।
संस्मरति पथिषु पथिको दयिताङ्गुलितर्जनाललितम् ॥
आवक्त्रेन्दु तदङ्गमेव सृजतः स्रष्टुः समग्रस्त्विषां कोषः शोषमगादगाधजगतीशिल्पेऽपि नाल्पायितः ।
निःशेषद्युतिमण्डलव्ययवशादीषल्लभैस्त् अत्तनू- शेषः केशमयः किमन्धतमसस्तोमैरभून्निर्मितः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0