महासुभाषितसंग्रह · श्लोक 5325-5344
आलिङ्ग्य पूर्वामनुगृह्य याम्यां सौम्यां समालोक्य सहस्रभानुः ।
सम्ध्याश्रितोऽप्याप निपातमब्धौ तद् वारुणीसङ्गफलं चकास्ति ॥
आलिङ्ग्य मधुरहुंकृतिम् अलसोन्मिषदीक्षणां रहः कान्ताम् ।
यद् बोधयन्ति सुप्तां जन्मनि यूनां तदेव फलम् ॥
आलिङ्ग्य मन्दिरे रम्ये सदानन्दविधायिनि ।
कान्ता कान्तं कुरङ्गाक्षी कुम्भिकुम्भपयोधरा ॥
आलि पालिललितौ तव भातः कर्णिकारसखकर्णि कपोलौ ।
पद्मजेन रतिपञ्चबाणयोर् दर्पणाविव सुवर्णनिर्मितौ ॥
आलि बालिशतया बलिरस्मै दीयतां बलिभुजे न कदापि ।
केवलं हि कलकण्ठशिशूनाम् एष एव कुशलेषु निदानम् ॥
आलिर्दिव्यौषधी प्रोक्ता सूक्ष्मकण्टकसंवृता ।
विमुच्यते विषैः प्राणी पीत्वा तोयेन तज्जटाम् ॥
आलीचालितपद्मिनीदलचलत्सर्वाङ्गमङ्गीकृत् अ- स्वाङ्गालिङ्गनमर्मरीकृतनवाम्भोजालिशय् या चिरात् ।
चैतन्यं कथमप्युपेत्य शनकैरुन्मील्य नेत्राञ्चलं बाला केवलमेव शून्यहृदया शून्यं जगत् पश्यति ॥
आलीभिः शपथैरनेककपटैः कुञ्जोदरं नीतया शून्यं तच् च निरीक्ष्य विक्षुभितया न प्रस्थितं न स्थितम् ।
न्यस्ताः किंतु नवोढनीरजदृशा कुञ्जोपकण्ठे रुषा तादृग्भृङ्गकदम्बडम्बरचमत्कारस्पृशो दृष्टयः ॥
आलीभिः सह भाषितं किमपि तद्वर्त्मापि संवीक्षितं पञ्चेषुः कुसुमैरपूजि कथमप्याधाय चित्ते मनाक् ।
तेनापि प्रिय चेत् तथा मयि कृपाकार्पण्यमालम्बसे प्राणेश प्रबलं तदत्र निखिलं तत्प्रातिकूल्यं विधेः ॥
आलीषु केलीरभसेन बाला मुहुर्ममालापमुपालपन्ती ।
आरादुपाकर्ण्य गिरं मदीयां सौदामिनीयां सुषमामयासीत् ॥
आलेख्यं गगने लिखामि बिसिनीसूत्रैर्वयाम्यम्बरं स्वप्नालोकितमानयामि कनकं ग्रथ्नामि वप्रं हिमैः ।
इत्याद्युक्तमपि स्फुटं जडमतिर्जानाति सत्यं नृपो यस्तादृक्त्रपया न वक्ति स गतप्रौढिः परं वञ्च्यते ॥
आलेख्यं निजमुल्लिलेख विजने सोल्लेखया रेखया संकल्पानकरोद् विकल्पबहुलाकल्पाननल्पानपि ।
अद्राक्षीदपरप्रजापतिमतं चक्रे च तीव्रं व्रतं त्वन्निर्माणविधौ कियन्न विदधे बद्धावधानो विधिः ॥
आलोक एव विमुखी क्वचिदपि दिवसे न दक्षिणा भवसि ।
छायेव तदपि तापं त्वमेव मे हरसि मानवति ॥
आलोकत्रस्तनारीकृतसभयमहानादधावज्जनौघ- व्याप्तद्वारप्रदेशप्रचुरकलकलाकर्णनस्तब्धचक्षुः ।
काष्ठं दण्डं गृहाणेत्यतिमुखरमुखैस् ताडितो लोष्टघातैर् भीतः सर्पो गृहस्यानधिगतविवरः कोणतः कोणमेति ॥
आलोकदानाच् चक्षुष्मान् प्रभायुक्तो भवेन् नरः ।
तान् दत्त्वा नोपहिंसेत न हरेन् नोपनाशयेत् ॥
दीपहर्ता भवेदन्धस् तमोगतिरसुप्रभः ।
दीपप्रदः स्वर्गलोके दीपमाली विराजते ॥
आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः ।
बद्धुं न संभावित एव तावत् करेण रुद्धोऽपि च केशपाशः ॥
आलोकयति पन्थानं दास्यतीत्यागतः किल ।
रचयत्यादराद् वेणीं यदि नान्यैर्वशीकृता ॥
आलोकयति पयोधरम् उपमन्दिरमभिनवाम्बुभरनीलम् ।
दयितारचितचितानल- धूमोद्गमशङ्कया पथिकः ॥
आलोकयेद् बुद्धिगुणोपपन्नैश् चरैश्च दूतैश्च परप्रचारम् ।
एतैर्वियुक्तो भवति क्षितीन्द्रो जनैरनेत्रैश्च समानधर्मा ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0