भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 5305-5324

5305

आलापं कलकण्ठिका न कुरुते कीरा न धीरध्वनिं व्याहारं कलयन्ति कोमलगिरः कूजन्ति नो बर्हिणः ।
नीराडम्बरदुर्दिनाम्बरतले दूरे द्विरेफध्वनिः काकाः केवलमेव केङ्कृतरवैः कुर्वन्ति कर्णज्वरम् ॥

5306

आलापः स्मितकौमुदीसहचरो दृष्टिः प्रहर्षोज्ज्वला भ्रूर्नृत्याध्वरदीक्षिता चरणयोर्न्यासः समे भङ्गुरः ।
वेशेषु क्षणिकस्पृहा मदविधेर्बन्धो न वादाश्रयस् तन्व्या नैकविकारभूर्मधुमदप्रायो मदः स्फूर्जति ॥

5307

आलापमालिनिकरस्य निशम्य भीता मुग्धा विलोक्य वदनं मुकुरं जहाति ।
मन्दं न निश्वसिति मन्मथवेदनार्ता कीरेन्दु मारुत भयात् किमु मन्न भूप ॥

5308

आलापयत्यकार्याणि किंचिदाख्याति वा स्वयम् ।
या न प्रयाति शयनं साप्यनुत्पन्नसस्पृहा ॥

5309

आलापाद् गात्रसंस्पर्शात् संसर्गात् सहभोजनात् ।
आसनाच् शयनाद् यानात् पापं संक्रमते नृणाम् ॥

5310

आलापान् भ्रूविलासो विरलयति लसद्बाहुविक्षिप्तियातं नीविग्रन्थिं प्रथिम्ना प्रतनयति मनाङ्मध्यनिम्नो नितम्बः ।
उत्पुष्यत्पार्श्वमूर्च्छत्कुचशिखरमुरो नूनमन्तःस्मरेण स्पृष्टा कोदण्डकोट्या हरिणशिशुदृशो दृश्यतेयौवनश्रीः ॥

5311

आलापैर्मधुरैश्च काश्चिदपरानालोकितैः सस्मितैर् अन्यान् विभ्रमकल्पनाभिरितरानङ्गैरनङ्गोज्ज्वलैः ।
आचारैश्चतुरैः परानभिनवैरन्यान् भ्रुवः कम्पनैर् इत्थं काश्चन रञ्जयन्ति सुदृशो मन्ये मनस्त्वन्यथा ॥

5312

आलि कपालिनि जटिले पत्यावत्याग्रहैस्तवालमिति ।
हरगतमिति दुःसहमपि मुहुरपि मुखरान्निगादयति गौरी ॥

5313

आलि कल्पय पुरः करदीपं चन्द्रमण्डलमिति प्रथितेन ।
नन्वनेन पिहितं मम चक्षुर् मङ्क्षु पाण्दुरतमोगुलकेन ॥

5314

आलिङ्गत्यन्यमन्यं रमयति वचसा लीलया वीक्षतेऽन्यं रोदित्यन्यस्य हेतोः कलयति शपथैरन्यमन्यं वृणोति ।
शेते चान्येन सार्धं शमनमुपगता चिन्तयत्यन्यमन्यं स्त्रीमाया दुश्चरित्रा जगदहितकरी केन कष्टेन सृष्टा ॥

5315

आलिङ्गदाप्य गोपीं तद्बाहुं सहरिरंसयाधाय ।
श्रुत्वेति निश्चिनोम्यहम् अङ्गिषु दुर्वारताम् अनङ्गस्य ॥

5316

आलिङ्गनाधरसुधारसपानवक्षो- निष्पीडनादिविधिरस्तु विदूरतस्ते ।
यत्त्वं विलोकयसि चञ्चलदृङ्निपातैर् एतावतैव हरिणाक्षि वयं कृतार्थाः ॥

5317

आलिङ्गन्ते मलयजतरूनास्वजन्ते वनान्तान् आपृच्छन्ते चिरपरिचितान् मालयान् निर्झरौघान् ।
अद्य स्थित्वा द्रविडमहिलाभ्यन्तरे श्वः प्रभाते प्रस्थातारो मलयमरुतः कुर्वते संनिधानम् ॥

5318

आलिङ्गन्तो वसुधां निजखुरदलितामिवानुनेतुममी ।
वदनविगतचरणा इव संलक्ष्यन्ते जवादश्वाः ॥

5319

आलिङ्गन्नतिसौरभानवयवान् बिम्बाधरं पाटलं चुम्बन्नाकलयन् पयोधरतटीं शृण्वन् रुतं हांसकम् ।
पश्यन् वानिशमायतां दृशमुपस्कुर्वंल्लवङ्गीरसं बालायां सकलर्तुसंगमसुखं धन्यः परं मन्यते ॥

5320

आलिङ्गन् भृशमङ्गकानि सुदृशामास्यानि चुम्बं नयन् वक्षोजोरुनितम्बकण्ठनखरश्रीचित्रभावं नयन् ।
बिम्बोष्ठामृतमापिबञ्छिथिलयन् नीवीं करक्रीडना- सङ्गेनातिसहासकेलिपरमः स्वैरं विचिक्रीड ना ॥

5321

आलिङ्गयत्यनुनयत्यवचुम्बयत्या- --- लोकयत्यनुमृजत्यवगूहते च ।
पार्श्वं विलोकयति मन्मथभावभिन्ना शून्यान्तरा स्मरति केलिकृतं समस्तम् ॥

5322

आलिङ्गसे चारुलतां लवङ्गीम् आचुम्बसे चाम्बुजिनीं क्रमेण ।
तां चूतवल्लीं मधुप प्रकामं संताडयस्येव पदैः किमेतत् ॥

5323

आलिङ्गितस् तत्र भवान् सांपराये जयश्रिया ।
आशीःपरंपरां वन्द्यां कर्णे कृत्वा कृपां कुरु ॥

5324

आलिङ्गिताः परैर्यान्ति प्रस्खलन्ति समे पथि ।
अव्यक्तानि च भाषन्ते धनिनो मद्यपा इव ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc