महासुभाषितसंग्रह · श्लोक 5285-5304
आलम्बिहेमरशनाह् स्तनसक्तहाराः कन्दर्पदर्पशिथिलीकृतगात्रयष्ट्यः ।
मासे मधौ मधुरकोकिलभृङ्गनादैर् नार्यो हरन्ति हृदयं प्रसभं नराणाम् ॥
आलम्बे जगदालम्बे हेरम्बचरणाम्बुजे ।
शुष्यन्ति यद्रजः स्पर्शात् सद्यः प्रत्यूहवार्धयः ॥
आलम्ब्याङ्गणवाटिकापरिसरे स्वेच्छानतां शाखिकां केयूरीभवदल्पशेषवलया बाला समस्तं दिनम् ।
सा दैवोपहृतस्य मूढमनसो भग्नावधेरद्य मे पन्थानं विवृताश्रुणा वदनकेनालोक्य किं वक्ष्यति ॥
आलम्भ्याङ्गणवापिकापरिसरे चूतद्रुमे मञ्जरीं सर्पत्सान्द्रपरागलम्पटरणद्भृङ्गाङ्गनाशोभिनीम् ।
मन्ये स्वां तनुमुत्तरीयशकलेनाच्छाद्य बाला स्फुरत्- कण्ठध्वाननिरोधकम्पितकुचश्वासोद्गमा रोदिति ॥
आलवाले स्थितं तोयं शोषं न भजते यदा ।
अजीर्णं तद् विजानीयान् न देयं तादृशे जलम् ॥
आलस्यं कुरु पापकर्मणि भव क्रूरः क्रुधस् ताडने नैष्ठुर्यं भज लोभमोहविषये निद्रां समाधौ हरेः ।
जाड्यं गच्छ परापवादकथने द्रोहं विधेहि स्मरे दोषा एव गुणत्वमेवमखिला यास्यन्ति चेतस् तव ॥
आलस्यं प्रथमं पश्चाद् व्याधिपीडा प्रजायते ।
प्रमादः संशयस्थाने चित्तस्येहानवस्थितिः ॥
आलस्यं मदमोहौ च चापलं गोष्ठिरेव च ।
स्तब्धता चाभिमानित्वं तथात्यागित्वमेव च ।
एते वै सप्त दोषास्तु सदा विद्यार्थिनां मताः ॥
आलस्यं यदि न भवेज् जगत्यनर्थः को न स्याद् बहुधनको बहुश्रुतो वा ।
आलस्यादियमवनिः ससागरान्ता संपूर्णा नरपशुभिश्च निर्धनैश्च ॥
आलस्यं स्त्रीसेवा सरोगता जन्मभूमिवात्सल्यम् ।
संतोषो भीरुत्वं षड् व्याघाता महत्त्वस्य ॥
आलस्यं स्थिरतामुपैति भजते चापल्यमुद्योगितां मूकत्वं मितभाषितां वितनुते मौग्ध्यं भवेदार्जवम् ।
पात्रापात्रविचारभावविरहो यच्छत्युदारात्मतां मातर्लक्ष्मि तव प्रसादवशतो दोषा अपि स्युर्गुणाः ॥
आलस्यं हरति प्रज्ञां धनमायुर्यशो बलम् ।
यस्मिन्नास्ते तदालस्यं सर्वदोषाकरस्तु सः ॥
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ॥
आलस्यमपि पारीन्द्रं प्रतिपद्य विजृम्भते ।
हतभागं प्रयत्नोऽपि प्रतिहन्यत एव हा ॥
आलस्यात् सुसहायोऽपि न गच्छत्युदयं जनः ।
हस्ताग्रास्फालितो भूमौ तोयार्द्र इव कन्दुकः ॥
आलस्येन हता विद्या परहस्तगताः स्त्रियः ।
अल्पबीजं हतं क्षेत्रं हतं सैन्यमनायकम् ॥
आलानं जयकुञ्जरस्य दृषदां सेतुर्विपद्वारिधेः पूर्वाद्रिः करवालचण्डमहसो लीलोपधानं श्रियः ।
संग्रामामृतसागरप्रमथनक्रीडाविधौ मन्दरो राजन् राजति वीरवैरिवनितावैधव्यदस्ते भुजः ॥
आलानत्वरुषेवैता दन्तिभिर्वृक्षपङ्क्तयः ।
स्फुरत् कटकटारावं पात्यन्ते कृतचित्कृतैः ॥
आलानमुन्मूल्य सुखाभिधानं तारुण्यनागे गमनोद्यतेऽस्मिन् ।
पलायिते कामिगणेऽङ्गनानां विमर्दभीत्येव कुचाः पतन्ति ॥
आलाने गृह्यते हस्ती वाजी वल्गासु गृह्यते ।
हृदये गृह्यते नारी यदीदं नास्ति गम्यताम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0