भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 5265-5284

5265

आर्तो वा यदि वा त्रस्तः परेषां शरणागतः ।
अरिः प्राणान् परित्यज्य रक्षितव्यः कृतात्मना ॥

5266

आर्द्रकीकसमुखः पुरतश्चेद् दृश्यते भवति तच्छुभदः श्वा ।
चर्म शुष्कमथवास्थि विशुष्कं बिभ्रदेष मरणं विदधाति ॥

5267

आर्द्रमपि स्तनजघनान्- निरस्य सुतनु त्वयैतदुन्मुक्तम् ।
खस्थमवाप्तुमिव त्वां तपनांशूनंशुकं पिबति ॥

5268

आर्द्रां कण्ठे मुखाब्जस्रजमवनमयत्यम्बिका जानुलम्बां स्थाने कृत्वेन्दुलेखां निबिडयति जटाः पन्नगेन्द्रेण नन्दी ।
कालः कृत्तिं निबध्नात्युपनयति करे कालरात्रिः कपालं शंभोर्नृत्यावतारे परिषदिति पृथग्व्यापृता वः पुनातु ॥

5269

आर्द्रालक्तकमस्याश् चरणं मुखमारुतेन वीजयितुम् ।
प्रतिपन्नः प्रथमतरः संप्रति सेवावकाशो मे ॥

5270

आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते ।
हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ॥

5271

आर्यजननिन्दितानां पापैकरसप्रकाशनारीणाम् ।
एतावानेव गुणो यदभीष्टसमागमो निरावरणः ॥

5272

आर्यजुष्टमिदं वृत्तम् इति विज्ञाय शाश्वतम् ।
सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम् ॥

5273

आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता ।
स्थौललक्ष्यं च सततम् उदासीनगुणोदयः ॥

5274

आर्यत्वं च चतुर्थं च पञ्चमं धर्ममेव हि ।
षष्ठं सतीत्वं दृढता सप्तमं साहसोऽष्टमम् ॥

5275

आर्यदेशकुलरूपबलायुर्- बुद्धिबन्धुरमवाप्य नरत्वम् ।
धर्मकर्म न करोति जडो यः पोतमुज्झति पयोधिगतः सः ॥

5276

आर्यपुत्र पिता माता भ्राता पुत्रस् तथा स्नुषा ।
स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते ॥
भर्तुर्भाग्यं तु भार्यैका प्राप्नोति पुरुषर्षभ ॥

5277

आर्यानङ्ग महाव्रतं विदधता विन्ध्यानिलैः पारणां कृत्वा साङ्गमकारि केन मुरलाकूले कठोरं तपः ।
येनास्या रतिखेदमेदुरमृदुश्वासाधिवासस्पृशः पीयन्तेऽधरसीधवो विहसितज्योत्स्नोपदंशं रहः ॥

5278

आर्या मुखे तु चपला तथापि चर्या न मे यतः सा तु ।
दक्षा गृहकृत्येषु त- था दुःखे भवति दुःखार्ता ॥

5279

आर्ये कर्मणि युञ्जानः पापे वा पुनरीश्वरः ।
व्याप्य भूतानि चरते न चायमिति लक्ष्यते ॥

5280

आर्येण सुकरं ह्याहुर्य् आर्यकर्म धनंजय ।
अनार्यकर्म त्वार्येण सुदुष्करतरं भुवि ॥

5281

आलक्ष्य दन्तमुकुलान् अनिमित्तहासैर् अव्यक्तवर्णरमणीयवचः प्रवृत्तीन् ।
अङ्काश्रयप्रणयिनस् तनयान् वहन्तो धन्यास् तदङ्गरजसा मलिनीभवन्ति ॥

5282

आ लङ्कानाथनारीस्तनतरलपयोवीचिमुद्रात् समुद्राद् आ स्वर्गङ्गातरङ्गावलिविरलशिलादुस्तरादुत्तराद्रेः ।
आ प्राक्शैलासुरस्त्रीसुरतगतिविदो मग्नभास्वन्मृगाङ्काद् आ च प्राचेतसाब्धेर्भवतु मम पुरः कोऽपि यद्यस्ति वीरः ॥

5283

आलपति पिकवधूरिव पश्यति हरिणीव चलति हंसीव ।
स्फुरति तडिल्लतिकेव स्वदते तुहिनांशुलेखेव ॥

5284

आलप यथा यथेच्छसि युक्तं तव कितव किमपवारयसि ।
स्त्रीजातिलाञ्छनमसौ जीवितरङ्का सखी सुभग ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc