महासुभाषितसंग्रह · श्लोक 5245-5264
आरोहत्यवनीरुहः प्रविशति श्वभ्रं नगैः स्पर्धते खं व्यालेधि विचेष्टते क्षितितले कुञ्जोदरे लीय ।
अन्तर्भ्राम्यति कोटरस्य विरसत्यालम्बते वीरुधः किं तद् यन्न करोति मारुतवशं यातह् कृशानुर्वने ॥
आरोहन्ति सुखासनान्यपटवो नागान् हयांस् तज्जुषस् ताम्बूलाद्युपभुञ्जते नटविटाः खादन्ति हस्त्यादयः ।
प्रासादे चटकादयोऽपि निवसन्त्येते न पात्रं स्तुतेः स स्तुत्यो भुवने प्रयच्छति कृती लोकाय यह् कामिताम् ॥
आरोहवल्लीभिरिवाम्बुधारा- राजीभिराभूमिविलम्बिनीभिः ।
संलक्ष्यते व्योम वटद्रुमाभम् अम्भोधरश्यामदलप्रकाशम् ॥
आर्जवं चानृशंस्यं च दमश्चेन्द्रियनिग्रहः ।
एष साधारणो धर्मश् चातुर्वर्ण्येऽब्रवीन् मनुः ॥
आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो ।
इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥
आर्जवत्वं चतुर्थं च पञ्चमं धर्ममेव हि ।
मधुरत्वं ततः प्रोक्तं षष्ठमेव वरानने ॥
आर्जवममलकराणां विनयो वररत्नमुकुटानाम् ।
द्यूतं दुर्व्यसनानां स्त्रीजितता मरुतटीपिशाचानाम् ॥
आर्जवेन धृता दीक्षा या नो दैवं परं प्रति ।
अत्यन्तमानुषीयाभ्यः पीडाभ्यस् तद्विमोचनम् ॥
आर्जवेन नरं युक्तम् आर्जवात् सव्य्पत्रपम् ।
अशक्तिमन्तं मन्यन्तो धर्षयन्ति कुबुद्धयः ॥
आर्तत्राणपरायणेन करिणा दाहादिमूलेति यद् वाक्यं चक्रधरेण नक्रमुखतो हाकाररोरीकृतम् ।
यः स्तम्भे करताडनध्वनिरभूत् कर्णे सुरस्याप्यहो हा कृष्णेति यदक्षयं स भगवान् पायादपायाज्जगत् ॥
आर्तदुःख्यपरित्राणदुर्गतादि यथाक्रमम् ।
पात्रमाहुर्दयालूनाम् अलाभे गुणवानिति ॥
आर्तद्रुतस्वरज्ञा विभिन्नदीनप्रभिन्नलघुरौद्राः ।
निन्द्याः शुभास्तु शब्दाः प्रमुदितपरिपूर्णदृढशान्ताः ॥
आर्तस्य मे प्रणमतो जगदन्तरात्मन् पश्यन् न पश्यसि विभो न शृणोषि शृण्वन् ।
दुर्दैवकुम्भजनुषा ननु सांप्रतं मे पीतस्तदीयकरुणावरुणालयोऽपि ॥
आर्ता देवान् नमस्यन्ति तपः कुर्वन्ति रोगिणः ।
निर्धना दानमिच्छन्ति वृद्धा नारी पतिव्रता ॥
आर्तानामार्तिसंबन्धं प्रीतिविश्रामकारणम् ।
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥
आर्तानामिह जन्तूनाम् आर्तिच्छेदं करोति यः ।
शङ्खचक्रगदाहीनो द्विभुजः परमेश्वरः ॥
आर्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा ।
मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥
आर्तेषु दीयते दानं शून्यलिङ्गस्य पूजनम् ।
अनाथप्रेतसंस्कारम् अश्वमेधफलं लभेत् ॥
आर्तेषु विप्रेषु दयान्वितश्च यच्छ्रद्धया स्वल्पमुपैति दानम् ।
अनन्तपारं समुपैति राजन् यद्दीयते तन्न लभेद् द्विजेभ्यः ॥
आर्तो मत्सदृशो नान्यस् त्वत्तो नान्यः कृपापरः ।
तुल्य एवावयोर्योगः कथं नाथ न पासि माम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0