भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 5225-5244

5225

आरूढो मलयानिलद्विपवरं युक्तो विलासानुगैः पीतः पुष्पविलोचनैर्नवलतापौराङ्गनानां गणैः ।
अभ्राम्यद् वनपत्तने मधुमहीपालः स्फुरत्कोकिला- लीलालापमिलद्भ्रमद्भ्रमरिकाझांकारभेरीर् अवैः ॥

5226

आरूढो वासयष्टिं गृहवलभितले दुष्टमार्जारकेण क्रूरास्यं ग्रस्यमानः सकृदपि शनकैर्यद् विचुक्रोश कीरः ।
गङ्गेति स्वामिनीं स्वामयममरपतेर्लब्धवानासनार्धं यस्तु त्रैस्रोतसाम्भः स्पृशति मृशति वा तत्कथां के विदन्तु ॥

5227

आरोग्यं चिरमश्विनी नरपते तोषं शिवः केशवः कल्याणं तव सर्वदा शशिरवी प्रोद्दीपनं देवताः ।
ब्रह्माद्याः सकलाः सुभद्रमवनं गौर्यादयो मातरः कुर्वाते कुरुते करोति कुरुतः कुर्वन्ति कुर्वन्तु च ॥

5228

आरोग्यं परमानन्दः सुखमुत्साह एव च ।
ऐश्वर्यं प्रियसंभोगं विना सर्वं निरर्थकम् ॥

5229

आरोग्यं भास्करादिच्छेच् श्रियमिच्छेद् हुताशनात् ।
ज्ञानं महेश्वरादिच्छेन् मोक्षमिच्छेज् जनार्दनात् ॥

5230

आरोग्यं भास्करादिच्छेद् धनमिच्छेद् हुताशनात् ।
महेश्वराज् ज्ञानमिच्छेन् मुक्तिमिच्छेज् जनार्दनात् ॥

5231

आरोग्यं विद्वत्ता सज्जनमैत्री महाकुले जन्म ।
स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थैः ॥

5232

आरोग्यं सौभाग्यं धनाढ्यता नायकत्वमानन्दः ।
कृतपुण्यस्य स्यादिह सदा जयो वाञ्छितावाप्तिः ॥

5233

आरोग्यबुद्धिविनयोद्यमशास्त्ररागाः पञ्चान्तराः पठनसिद्धिगुणा भवन्ति ।
आचार्यपुस्तकनिवाससहायकर्णा बाह्यास्तु पञ्च पठनं परिवर्धयन्ति ॥

5234

आरोग्यमानृण्यमविप्रवासः सद्भिर्मनुष्यैः सह संप्रयोगः ।
स्वप्रत्यया वृत्तिरभीतवासः षड् जीवलोकस्य सुखानि राजन् ॥

5235

आरोग्यलक्ष्मीरुपयाति पित्त- ज्वरातुरं रेणुकषायभाजम् ।
मा त्वं यथा रत्नकले स्मरार्ता कृतप्रकोपप्रशमा सखीभिः ॥

5236

आरोढुं वरमौपवाह्यमपहर्तुं सुन्दरी कन्यका भोक्तुं भोगमुपस्थितं सुखमलंकर्तुं च रत्नैस्तनुम् ।
सम्नह्यन्त्यमृतान्धसो हि शमिते येनैव हालाहले स स्वामी मम दैवतं तदितरो नाम्नापि न म्नायते ॥

5237

आरोपयसि मुधा किं नाहमभिज्ञा किल त्वदङ्कस्य ।
दिव्यं वर्षसहस्रं स्थित्वेति न युक्तमभिधातुम् ॥

5238

आरोपितः पृथुनितम्बतटे तरुण्या कण्ठे च बाहुलतया निविडं गृहीतः ।
उत्तुङ्गपीनकुचनिर्भरपीडितोऽयं कुम्भः करीषदहनस्य फलानि भुङ्क्ते ॥

5239

आरोपिता अपि प्राज्या गुणा लोकेषु पूजितैः ।
पूजयन्तीह दृष्टान्तः प्रतिमा द्युःसदां ननु ॥

5240

आरोपिता शिलायाम् अश्मेव त्वं भवेति मन्त्रेण ।
मग्नापि परिणयापदि जारमुखं वीक्ष्य हसितैव ॥

5241

आरोप्यतेऽश्मा शैलाग्रं यथा यत्नेन भूयसा ।
निपात्यते सुखेनाधस् तथात्मा गुणदोषयोः ॥

5242

आरोहणं गोवृषकुञ्जराणां प्रासादशैलाग्रवनस्पतीनाम् ।
विष्ठानुलेपो रुधिरं मृतं च स्वप्नेष्वगम्यागमनं च धन्यम् ॥

5243

आरोहणाय तव सज्ज इवास्ति तत्र सोपानशोभिवपुरश्मवलिच्छटाभिः ।
भोगीन्द्रवेष्टशतघृष्टिकृताभिरब्धि- क्षुब्धाचलः कनककेतकगोत्रगात्रि ॥

5244

आरोहतु गिरिशिखरं समुद्रमुल्लङ्घ्य यातु पातालम् ।
विधिलिखिताक्षरमालं फलति कपालं न भूपालः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc