भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 5205-5224

5205

आरामुखं क्षुरप्रं च गोपुच्छं चार्धचन्द्रकम् ।
सूचीमुखं च भल्लं च वत्सदन्तं द्विभल्लकम् ॥

5206

कर्णिकं काकतुण्डं च तयान्यान्यप्यनेकशः ।
फलानि देशदेशेषु भवन्ति बहुरूपतः ॥

5207

आरामुखेन वै चर्म क्षुरप्रेण च कार्मुकम् ।
सूचीमुखेन कवचम् अर्धचन्द्रेण मस्तकम् ॥

5208

भल्लेन हृदयं वेध्यं द्विभल्लेन गुणः शरः ।
लोहं च काकतुण्डेन लक्ष्यं गोपुच्छकेन च ॥

5209

आरामैः सदनैर्हयैर्गजवरैर्गानैः परिक्रीडनैर् वाद्यैर्यौवनगर्वमञ्जुलतरैर्वृन्दैश्च वामभ्रुवाम् ।
मुक्तिः स्याद् यदि तद्विहाय सकलं चैतत् प्रवीणा नराः कर्तुं हन्त तपस्तु मुक्तिसुखदं कस्मादरण्यं गताः ॥

5210

आरामोऽयमनर्गलेन बलिना भग्नः समग्रो मयेत्य् अन्तःसंभृतहर्षवर्धितमदोदग्रः किमुन्माद्यसि ।
मातङ्ग प्रतिवर्शमेव भवतो भावी निदाघज्वरस् तत्रापि प्रतिकारमर्हसि सखे सम्यक् समालोचितुम् ॥

5211

आरिप्सुना मन्त्रबलान्वितेन प्रागेव कार्यो निपुणं विचारः ।
दोष्णां बलान् मन्त्रबलं गरीयः शक्रोऽसुरान् मन्त्रबलाद् विजिग्ये ॥

5212

आरिराधयिषुः सम्यग् अनुजीवी महीपतिम् ।
विद्याविनयशिल्पाद्यैर् आत्मानमुपपादयेत् ॥

5213

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥

5214

आरुह्य दूरमगणित- रौद्रक्लेशा प्रकाशयन्ती स्वम् ।
वातप्रतीच्छनपटी वहित्रमिव हरसि मां सुतनु ॥

5215

आरुह्य नृपतिः पूर्वम् इन्द्रियाश्वान् यशीकृतान् ।
कामक्रोधादिकाञ् जित्वा रिपून् आभ्यन्तरांश्च तान् ।

5216

जयेदात्मानमेवादौ विजयायान्यविद्विषाम् ।
अजितात्मा हि विवशो वशीकुर्यात् कथं परान् ॥

5217

आरुह्य शैलशिखरं त्वद्वदनापहृतकान्तिसर्वस्वः ।
प्रतिकर्तुमिवोर्ध्वकरः स्थितः पुरस्तान् निशानाथः ॥

5218

आरुह्याक्रीदशैलस्य चन्द्रकान्तस्थलीमिमाम् ।
नृत्यत्येष लसच्चारुचन्द्रकान्तः शिखावलः ॥

5219

आरूढः पतित इति स्वसंभवोऽपि स्वच्छानां परिहरणीयतामुपैति ।
कर्णेभ्यश्च्युतमसितोत्पलं वधूनां वीचीभिस्तटमनु यन्निरासुरापः ॥

5220

आरूढक्षितिपालभालविगलत्स्वेदाम्बुसेकोद्धता भेरीझांकृतिचापटंकृतिचमत्कारोल्लसन्म् आनसा ।
क्षुभ्यत्क्षोणितलंस्फुरत्खुरपुटं चञ्चच्चलत्केशरं मन्दभ्रान्तविलोचन प्रतिदिशं नृत्यन्ति वाजिव्रजाः ॥

5221

आरूढवेणुतरुणाधरविभ्रमेण माधुर्यशालिवदनाम्बुजमुद्वहन्ती ।
आलोक्यतां किमनया वनदेवता वः कैशोरके वयसि कापि च कान्तियष्टिः ॥

5222

आरूढस्य चितां कृतानुमरणोद्योगप्रियालिङ्गनं पुण्ड्रेक्षुद्रवपानमुल्बणमहामोहप्रलुप्तस्मृते ः ।
वीतासोरवतंसमाल्यवलयामोदश्च यादृग् भवेद् भावानां सुभगः स्वभावमहिमा निश्चेतसस् तादृशः ॥

5223

आरूढस्वामिकोऽश्वः स्याद् वित्तचिन्तितसिद्धये ।
सर्वेषां सुरतक्रीडा दृष्टादौ भोगलब्धये ॥

5224

आरूढान्तरयौवनस्य परितो गोष्ठीरनुभ्राम्यतस् तत्तत् तासु मनोगतं सुनिभृतं संव्याचिकीर्षोर्हरेः ।
वेगादुच्छलितास्फुटाक्षरदशागर्भास् त्रपागौरवात् प्रत्यञ्चो वलिता भवन्तु भवतां कृत्याय वागूर्मयः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc