महासुभाषितसंग्रह · श्लोक 5185-5204
आरभेतैव कर्माणि श्रान्तः श्रान्तः पुनः पुनः ।
कर्माण्यारभमाणं हि पुरुषं श्रीर्निषेवते ॥
आरभ्यते महत्कार्यं यैः क्षुद्रैरपि पार्थिवैः ।
ते चक्रवर्तिनो भूत्वा जायन्ते भद्रभाजनम् ॥
आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् ।
दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम् ॥
आरम्भरतिताऽधैर्यम् असत्कार्यपरिग्रहः ।
विषयोपसेवा चाजस्रं राजसं गुणलक्षणम् ॥
आरम्भरमणीयानि विमर्दे विरसानि च ।
प्रायो वैरावसानानि संगतानि खलैः सह ॥
आरात् कारीषवह्नेः प्रविरचिततृणप्रस्तरान्तर्निषण्णैः संशीर्णग्रन्थिकन्थाविवरवशविशच्छीतवाताभिभूतैः ।
नीताः कृच्छ्रेण पान्थैः श्वभिरिव निविडं जानुसंकोचकुब्जैर् अन्तर्दुर्वारदुःखद्विगुणतरकृतायामयामास्त्रि यामाः ॥
आरादसौ तरुवरस्तव कुन्तलानाम् आकल्पमात्मकुसुमैरभियाचमानः ।
भूयः समाह्वयति या कलकण्ठनादैर् आरोहभारमृदुगामिनि तत्र यामः ॥
आराद्धं किमु दैवतं कुवलयैस्तेपे तपश्चन्द्रमाः किं नामायमिदं च काञ्चनरुचां किं भाग्यमुज्जृम्भते ।
दैवं वाद्य किमानुकूलिकमभूद् बालप्रवालश्रियाम् अस्याः स्मेरदृशो दधत्यवयवौपम्यं यदेतान्यपि ॥
आराद्धो मूर्द्धभिर्यत् तुहिनकरकलालंकृतिर्विशतिर्यद् दोष्णामुष्णांशुमित्रं भुवनपरिभवी यत्प्रतापप्ररोहः ।
यत् तत् कैलासशैलोद्धरणमपि मृषा तत् समस्तं तवाभूत् बिभ्रल्लुण्टाकलीलां यदपहरसि नः पङ्कजाक्षीं परोक्षे ॥
आराधयति यं देवं तमुत्कृष्टतरं वदेत् ।
तन्न्यूनतां नैव कुर्याज् जोषयेत् तस्य सेवनम् ॥
आराधयितुः प्रेम- प्रतीक्षणार्थं स्पृहा परं यासाम् ।
ता ननु सौभगदेव्यो गणिकाः कृतिनां समाराध्याः ॥
आराधिता हि राजानो देववच् चोपसेविताः ।
अनुग्रहैर्योजयन्ति भक्तान् घ्नन्ति विपर्यये ॥
आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः ।
राजानः संप्रसीदन्ति प्रकुप्यन्ति विपर्यये ॥
आराधितो वाप्यपराधितो वा खलः करोत्येव सदापकारम् ।
मूर्ध्ना धृतो पादतले स्थितो वा दशत्यवश्यं खलु दन्दशूकः ॥
आराध्यः पतिरेव तस्य च पदद्वन्द्वानुवृत्तिर्व्रतं केनैताः सखि शिक्षितासि विपथप्रस्थानदुर्वासनाः ।
किं रूपेण न यत्र मज्जति मनो यूनां किमाचार्यकैर् गूढानङ्गरहस्ययुक्तिषु फलं येषां न दीर्घं यशः ॥
आराध्य दुग्धजलधिः सुधयैव देवान् देवाय हन्त महते गरलं दिदेश ।
येषां ध्रुवं प्रकृतिरेव जलाशयानां नीचेषु सन्मतिरसन्मतिरुत्तमेषु ॥
आराध्य भूपतिमवाप्य ततो धनानि भोक्ष्यामहे किल वयं सततं सुखानि ।
इत्याशया कलिविमोहितमानसानां कालः प्रयाति मरणावधिरेव पुंसाम् ॥
आराध्यमानो नृपतिः प्रयत्नाद् आराध्यते नाम किमत्र चित्रम् ।
अयं त्वपूर्वः प्रतिमाविशेषो यः सेव्यमानो रिपुतामुपैति ॥
आरामाधिपतिर्विवेकविकलो नूनं रसा नीरसा वात्याभिः परुषीकृता दश दिशश्चण्डातपो दुःसहः ।
एवं धन्वनि चम्पकस्य सकले सम्हारहेतावपि त्वं सिञ्चन्नमृतेन तोयद कुतोऽप्याविष्कृतो वेधसा ॥
आरामाभरणस्य पल्लवचयैरापीततिग्मत्विषः पाथोद प्रशमं नयागुरुतरोरेतस्य दावज्वरम् ।
ब्रूमस् त्वामुपकारकातर गतप्रायाः पयःसंपदो दग्धोऽप्येष तरुर्दिशः परिमलैरापूर्य निर्वास्यति ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0