महासुभाषितसंग्रह · श्लोक 5165-5184
आयुस्ते नरवीर वर्धतु सदा हेमन्तरात्रिर्यथा लोकानां प्रियवर्धनो भव सदा हेमन्तसूर्यो यथा ।
लोकानां भयवर्धनो भव सदा हेमन्ततोयं यथा नाशं यान्तु तवारयोऽपि सततं हेमन्तपद्मं यथा ॥
आयूंषि क्षणिकानि यौवनमपि प्रायो जराध्यासितं संयोगा विरहावसानविरसा भोगाः क्षणध्वंसिनः ।
जानन्तोऽपि यथाव्यवस्थितमिदं लोकाः समस्तं जगच् चित्रं यद् गुरुगर्वभावितधियः क्रुध्यन्ति माद्यन्ति च ॥
आयूरेखां चकारास्याः करे द्राघीयसीं विधिः ।
शौण्डीर्यगर्वनिर्वाहप्रत्याशां च मनोभुवः ॥
आये व्यये तथा नित्यं त्यक्तलज्जस् तु वै भवेत् ।
न कुञ्चितेन गूढेन नित्यं प्रावरणादिभिः ॥
आयोधने कृष्णगतिं सहायम् अवाप्य यः क्षत्रियकालरात्रिम् ।
धारां शितां रामपरश्वधस्य संभावयत्युत्पलपत्रसाराम् ॥
आरक्ततामेति मुखं जिह्वा वा श्यामतां यदा ।
तदा प्राज्ञो विजानीयान् मृत्युमासन्नमात्मनः ॥
आरक्तदीर्घनयनो नयनाभिरामः कन्दर्पकोटिललितं वपुरादधानः ।
भूयात् स मेऽद्य हृदयाम्बुरुहाधिवर्ती वृन्दाटवीनगरनागरचक्रवर्ती ॥
आरक्तराजिभिरियं कुसुमैर्नवकन्दली सलिलगर्भैः ।
कोपाद् अन्तर्बाष्पे स्मरयति मां लोचने तस्याः ॥
आरक्ताङ्कुरदन्तुरा कमलिनी नायामिनी यामिनी स्तोकोन्मुक्ततुषारमम्बरमणेरीषत् प्रगल्भं महः ।
अप्येते सहकारसौरभमुचो वाचालिताः कोकिलैर् आयान्ति प्रियविप्रयुक्तयुवतीमर्मच्छिदो वासराः ॥
आरक्तानां नवमधु शनैरापिबन् पद्मिनीनां कालोन्निद्रे कुवलयवने घूर्णमानः सलीलम् ।
स्विन्नो दानैर्विपिनकरिणां सौम्य सेविष्यते त्वाम् आमोदानामहमहमिकामादिशन् गन्धवाहः ॥
आरक्तायतपुष्पबाणनयने स्निग्धाञ्जनश्यामिकां काश्मीरारुणकर्णिकारकुसुमोत्तंसे महानीलताम् ।
उन्मीलत्तिलकान्तरे मृगमदक्षोदार्द्रबिन्दूपमां धत्ते मुग्धतमालकान्तिमधुपीवृन्दं वसन्तश्रियः ॥
आरक्तैर्नवपल्लवैर्विटपिनो नेत्रोत्सवं तन्वते तान् धुन्वन्नयमभ्युपैति मधुरामोदो मरुद्दक्षिणः ।
तेनालिङ्गितमात्र एव विधिवत् प्रादुर्भवन्निर्भर- क्रीडाकूतकषायितेन मनसा लोकोऽयमुन्माद्यते ॥
आरण्यास् तु स्वकैः कुर्युः सार्थिकाः सार्थिकैः सह ।
सैनिकाः सैनिकैरेव ग्रामेऽप्युभयवासिभिः ॥
आरब्धमब्धिमथनं स्वहस्तयित्वा द्विजिह्वममरैर्यत् ।
उचितस् तत्परिणामो विषमं विषमेव यज्जातम् ॥
आरब्धा किमु केतकीकिसलयैर्माला किमायामिनी कर्पूरस्य परंपरा मलयजक्षोदस्य लेखाथवा ।
धारा वैबुधसैन्धवी नु विसयत्याहो हिमानीमयी वृष्टिः पञ्चशरस्य तावकदृशोर्भङ्गी कथं गीयते ॥
आरब्धा मकरध्वजस्य धनुषैतस्यास्तनुर्वेधसा त्वद्विश्लेषविशेषदुर्बलतया जाता न तावद्धनुः ।
तत् संप्रत्यपि रे प्रसीद किमपि प्रेमामृतस्यन्दिनीं दृष्टिं नाथ विधेहि सा रतिपतेः शिञ्जापि सम्जायताम् ॥
आरब्धे दयितामुखप्रतिसमे निर्मातुमस्मिन्नपि व्यक्तं जन्मसमानकालमिलितामंशुच्छटां वर्षति ।
आत्मद्रोहिणि रोहिणीपरिवृढे पर्यङ्कपङ्केरुहः संकोचादतिदुःस्थितस्य न विधेस् तच्छिल्पमुन्मीलितम् ॥
आरब्धे पटहे स्थिते गुरुजने भद्रासने लङ्घिते स्कन्धोच्चारणनम्यमानवदनप्रच्योतितोये घटे ।
राज्ञाहूय विसर्जिते मयि जनो धैर्येण मे विस्मितः स्वः पुत्रः कुरुते पितुर्यदि वचः कस्तत्र भो विस्मयः ॥
आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च ।
महारम्भाः कृतधियस् तिष्ठन्ति च निराकुलाः ॥
आरभेत नरः कर्म स्वपौरुषमहापयन् ।
निष्पत्तिः कर्मणो दैवे पौरुषे च व्यवस्थिता ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0