भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 5145-5164

5145

आयुर्बलं विपुलमस्तु सुखित्वमस्तु कल्याणमस्तु विपुला तव कीर्तिरस्तु ।
श्रीरस्तु धर्ममतिरस्तु रिपुक्षयोऽस्तु संतानवृद्धिरभिवाञ्छितसिद्धिरस्तु ॥

5146

आयुर्यशो बलं वित्तम् आकाङ्क्षद्भिः प्रियाणि च ।
पितैवाराधनीयोऽग्रे दैवतं हि पिता महत् ॥

5147

आयुर्लेखा पवनचलनाश्लिष्टदीपोपमेया संपच्चैषा मदवशचलत्कामिनीदृष्टिलोला ।
तीव्रश्चान्तर्दहति हृदयं विप्रयोगः प्रियेभ्यस् तस्मादेतत् सततममलं ब्रह्म शान्तं प्रपन्नाः ॥

5148

आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः ।
शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥

5149

आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं हृतं तस्यार्धस्य च किंचिदेव जरया बाल्येन किंचिद् हृतम् ।
किंचिद् व्याधिवियोगदुःखमरणैर्भूपालसेवारसैर् नष्टं शिष्टमतस्तरङ्गतरलं पुंसां सुखं क्व क्षणे ॥

5150

आयुर्वायुचलं सुरेश्वरधनुर्लोलं बलं यौवनं विद्युद्वच् चपलं धनं गिरिनदीकल्लोलवच् चञ्चलम् ।
तारुण्यं करिकर्णतालतरलं देहं च रोगाकुलं ज्ञात्वा सर्वमिदं कुरुध्वममलं धर्मं सदा निश्चलम् ॥

5151

आयुर्वायुव्यथितनलिनीपत्रमित्रं किमन्यत् संपच्छम्पाद्युतिसहचरी स्वैरचारी कृतान्तः ।
कस्मादस्मिन् भ्रमसि तमसि त्वं प्रयाहि प्रयागं पौनःपुन्यं भुवि भगवती स्वर्धुनी ते धुनीते ॥

5152

आयुर्वासरमासवत्सरगणे गच्छत्यदूरं पथैर् आक्रामन्ति कृतान्तकासरखुरक्षुण्णा रजोराजयः ।
ईषल्लङ्घितशैशवा इति वयःसंधिं दधाना इति व्यक्ता वर्जितयौवना इति तथा नन्दन्ति तन्द्रालवः ॥

5153

आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम् ।
अपमानं तपो दानं नव गोप्यानि यत्नतः ॥

5154

आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम् ।
दानमानापमानं च नवैतानि सुगोपयेत् ॥

5155

आयुर्वृद्धिक्षयोत्कर्षहेतुं कालविनिर्गतम् ।
वाञ्छतां धनिनामिष्टं जीवितात् परमं धनम् ॥

5156

आयुर्वेदकृताभ्यासः सर्वेषां प्रियदर्शनः ।
आर्यशीलगुणोपेत एष वैद्यो विधीयते ॥

5157

आयुर्वेदमधीयानाः केवलं सपरिग्रहम् ।
दृश्यन्ते बहवो वैद्या व्याधिभिः समभिप्लुताः ॥

5158

आयुषः क्षण एकोऽपि न लभ्यः स्वर्णकोटिभिः ।
स चेन्निरर्थकं नीतः का नु हानिस्ततोऽधिका ॥

5159

आयुषः क्षण एकोऽपि न लभ्यः स्वर्णकोटिभिः ।
स वृथा नीयते येन तस्मै नृपशवे नमः ॥

5160

आयुषः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते ।
नीयते यद् वृथा सोऽपि प्रमादः सुमहानयम् ॥

5161

आयुष्मान् प्राङ्मुखो भुञ्जात् धनवान् दक्षिणामुखः ।
पश्चिमे तु यशस्वी स्यान् न कदाचिदुदङ्मुखः ॥

5162

आयुष्यं सर्वथा रक्ष्यं प्राणिनामिह धीमता ।
अप्यल्पगुणसंपन्नो जीवन् भद्राणि पश्यति ॥

5163

आयुस्तडिच्चलमपायि शरीरमेतन् मृत्युर्ग्रसिष्यति कदेति न कोऽपि वेद ।
अद्यैव तद् भजत मुक्तिपथं द्विजेन्द्रा ज्येष्ठागमावधि हि तिष्ठति किं न दर्शः ॥

5164

आयुस्ते कियदस्ति तत्र च कियत् तारुण्यमत्रापि वाप्य् अर्धं निर्गिलितं निशात्मकतया यत्रास्ति सङ्गो न ते ।
शेषाः सन्ति कति क्षणाः प्रणयजस् तत्रापि कोपो यदि व्यर्थं निश्चिनु चक्रवाकि जननं कस्ते हितं वक्ष्यति ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc