भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 5125-5144

5125

आयासादलघुतरस्तनैः स्वनद्भिः श्रान्तानामविकचलोचनारविन्दैः ।
अभ्यम्भः कथमपि योषितां समूहैस् तैरुर्वीनिहितचलत्पदं प्रचेले ॥

5126

आयासानविचिन्तयन्नगणयल्लाभं ततः किंचिदप्य् अम्भो मुञ्चति कीर्तिमात्रशरणो धाराधरः सर्वतः ।
तद्यत्नादुपयुज्य वर्धयतु वा दातुर्यशः शाश्वतं मौढ्यादेतदुपेक्ष्य नाशयतु वा लोकः प्रमाणं ततः ॥

5127

आयास्य बहुभिर्दुग्धां पीतां वत्सेन सद्गवीम् ।
सुशिक्षितोऽपि गोपालः प्रयत्नेन दुहीत किम् ॥

5128

आयास्यसि कदा कान्ते मदन्तकमयि प्रभे ।
इति प्र्ष्टेन्दुवदनाच्छादयद् वाससा मुखम् ॥

5129

आयास्यस्यवधावपर्यवसिते गत्वेति संभाव्यते संप्राप्ते त्वयि यानि तान्यपि सुखान्यद्यापरोक्षाणि नः ।
किंत्वज्ञातवियोगवेदनमिदं सद्यस्त्वयि प्रस्थिते चेतः किं नु करीष्यतीत्यविदितं सम्यङ् न निश्चीयते ॥

5130

आयास्यामि पुनस्तवान्तिकमहं यामे व्यतीते प्रियेत्य् उक्त्वा पङ्कजलोचना सरभसं कान्ता समाजं ययौ ।
जाते क्वापि च सीञ्जते किमु समायातेति मार्गं मुहुर् दर्शं दर्शमथो मया निशि मनाग् लब्धो न निद्रारसः ॥

5131

आयुः कर्म च वित्तं च विद्या निधनमेव च ।
पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥

5132

आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीर् अर्थाः संकल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूराः ।
कण्ठाश्लेषोपगूढं तदपि च न चिरं यत् प्रियाभिः प्रणीतं ब्रह्मण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ॥

5133

आयुःप्रश्ने दीर्घमायुर् वाच्यं मौहूर्तिकैर्जनैः ।
जीवन्तो बहु मन्यन्ते मृताः प्रक्ष्यन्ति कं पुनः ॥

5134

आयुः श्रियं यशो धर्मं लोकानाशिष एव च ।
हन्ति श्रेयांसि सर्वाणि पुंसो महदतिक्रमः ॥

5135

आयुः श्रीः कीर्तिरैश्वर्यम् आशिषः पुरुषस्य याः ।
भवन्त्येव हि तत्काले यथानिच्छोर्विपर्ययाः ॥

5136

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥

5137

आयुःसारं युअवनम् ऋतुसारः कुसुमसायकवयस्यः ।
सुन्दरि जीवितसारो रतिभोगरसामृतस्वादः ॥

5138

आयुक्तकेभ्यश्चोरेभ्यः परेभ्यो राजवल्लभात् ।
पृथिवीपतिलोभाच्च प्रजानां पञ्चधा भयम् ॥

5139

आयुधानां धनुः श्रेष्ठम् आसनानां च मेदिनी ।
फलानां चाम्रवृक्षस्य देवानां च महेश्वरः ॥

5140

आयुर्घृते गुडे रोगा नित्यं मृत्युर्विदाहिषु ।
आरोग्यं कटुतिक्तेषु बलं माषे पयस्तु च ॥

5141

आयुर्दानमहोत्सवस्य विनतक्षोणीभृतां मूर्तिमान् विश्वासो नयनोत्सवो मृगदृशां कीर्तेः प्रकाशः परः ।
आनन्दः कलिताकृतिः सुमनसां वीरश्रियो जीवितं धर्मस्यैव निकेतनं विजयते वीरः कलिङ्गेश्वरः ॥

5142

आयुर्दीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं वित्तं भूरितरं बलं बहुतरं स्वामित्वमुच्चैस्तरम् ।
आरोग्यं विगतान्तरं त्रिजगति श्लाघ्यत्वमल्पेतरं संसाराम्बुनिधिं करोति सुतरं चेतः कृपार्द्रान्तरम् ॥

5143

आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः ।
लक्ष्मीस् तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं यस्मान्मां शरणागतं शरणद त्वं रक्ष रक्षाधुना ॥

5144

आयुर्नीरतरङ्गभङ्गुरमिति ज्ञात्वा सुखेनासितं लक्ष्मीः स्वप्नविनश्वरीति सततं भोगेषु बद्धा रुचिः ।
अभ्रस्तम्बविडम्बि यौवनमिति प्रेम्णावगूढाः स्त्रियो यैरेवात्र विमुच्यते भवरसात् तैरेव बद्धो जनः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc