भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 5105-5124

5105

आयातैव निशा निशापतिकरैः कीर्णं दिशामन्तरं भामिन्यो भवनेषु भूषणगणैरङ्गान्यलंकुर्वते ।
मुग्धे मानमपाकरोषि न मनागद्यापि रोषेण ते हा हा बालमृणालतोऽप्यतितरां तन्वी तनुस्ताम्यति ॥

5106

आयातैव निशा मनो मृगदृशामुन्निद्रमातन्वती मानो मे कथमेष संप्रति निरातङ्कं हृदि स्थास्यति ।
ऊहापोहमिमं सरोजनयना यावद् विधत्तेतरां तावत् कामनृपातपत्रसुषमं बिम्बं बभासे विधोः ॥

5107

आयातो दयितस् तवेति सहसा न श्रद्दधे भाषितं सद्यः संमुखतां गतेऽपि सुमुखी भ्रान्तिं निजां मन्यते ।
कण्ठाश्लेषिभुजेऽपि शून्यहृदया स्वप्नान्तरं शङ्कते प्रत्यावृत्तिमियं प्रियस्य कियता प्रत्येतु शातोदरी ॥

5108

आयातो भवतः पितेति सहसा मातुर्निशम्योदितं धूलीधूसरितो विहाय शिशुभिः क्रीडारसान् प्रस्तुतान् ।
दूरात् स्मेरमुखः प्रसार्य ललितं बाहुद्वयं बालको नाधन्यस्य पुरः समेति परया प्रीत्या रटद्घर्घरम् ॥

5109

आयातो वनमाली गृहपतिरालि समायातः ।
स्मर सखि पाणिनिसूत्रं विप्रतिषेधे परं कार्यम् ॥

5110

आयात् त्रिभागतः कुर्याद् व्ययं धर्मपरो नरः ।
एतदेव हि पाण्डित्यं यदायादल्पको व्ययः ॥

5111

आयान्तं गुणिनं दृष्ट्वा प्रहृष्येदाद्रियेत च ।
गुणिनो ह्यादृता भूयश् चेष्टन्ते तस्य संपदे ॥

5112

आयान्तं स्वपतिं दृष्ट्वा भक्षयन्ती सदाखिलम् ।
परित्यक्ता निजैः पुत्रैर् बान्धवैः स्वजनैस् तथा ॥

5113

आयान्तमालोक्य हरिं प्रतोल्याम् आल्याः पुरस्तादनुरागमेका ।
रोमाञ्चकम्पादिभिरुच्यमानं भामा जुगूह प्रणमन्त्यथैनम् ॥

5114

आयान्ति त्वरितं गभीरसरितां कूलेषु भूमीरुहां मूलेषु व्यथिता निदाघपथिकाः कृत्यं तदेषां परम् ।
यत्पुष्पैरधिवासनं निबिडया यच्छायया पालनं यन्मन्दैरुपवीजनं च पवनैः कृत्यं तदुर्वीरुहाम् ॥

5115

आयान्ति यत्र निवसन्ति चिराय चेष्टं निर्यान्ति चैवममिताः सरितो यतोऽमी ।
देवैर्हृतेषु बहुलेषु मणिष्वपीभ्यो यः पूर्ववत् स जयतादमृतैकभूमिः ॥

5116

आयान्ति यान्ति सततं नीरं शिशिरं खरं न गणयन्ति ।
विद्मो न हन्त दिवसाः कस्य किमेते करिष्यन्ति ॥

5117

आयान्त्यग्रे ननु तनुभवा उत्तमर्णा इवेमे शय्यालग्नाः फणभृत इवाभान्ति दारा इदानीम् ।
कारागेहप्रतिममधुना मन्दिरं दृश्यते मे तत्र स्थातुं प्रसजति मनो न क्षणं न क्षणार्धम् ॥

5118

आयान्त्यां निजयुवतौ वनात् सशङ्कं बर्हाणामपरशिखण्डिनीं भरेण ।
आलोक्य व्यवदधतं पुरो मयूरं कामिन्यः श्रदधुरनार्जवं नरेषु ॥

5119

आयान्त्या दिवसश्रियः पदतलस्पर्शानुभावादिव व्योमाशोकतरोर्नवीनकलिकागुच्छः समुज्जृम्भते ।
आतन्वन्नवतंसविभ्रममसावाशाकुरङ्गीदृशाम् उन्मीलत्तरुणप्रभाकरकरस्तोमः समुद्भासते ॥

5120

आयामिनोस्तदक्ष्णोर् अञ्जनरेखाविधिं वितन्वन्त्याः ।
पाणिः प्रसाधिकायाः प्रापदपाङ्गं चिरेण विश्रम्य ॥

5121

आयासः परहिंसा वैतंसिकसारमेय तव सारः ।
त्वामपसार्य विभाज्यः कुरङ्ग एषोऽधुनैवान्यैः ॥

5122

आयासशतलभ्यस्य प्राणेभ्योऽपि गरीयसः ।
गतिरेकैव वित्तस्य दानं शेषा विपत्तयः ॥

5123

आयासशोकभयदुःखमुपैति मर्त्यो मानेन सर्वजननिन्दितवेषरूपः ।
विद्यादयादमयमादिगुणांश्च हन्ति ज्ञात्वेति गर्ववशमेति न शुद्धबुद्धिः ॥

5124

आयासश्लथबाहुवल्लिरधिकस्मेरै .- -.- लोलापाङ्गकपोलपालिरलिकस्तोमार्धलुप्तालका ।
न्यस्यन्ती मदयत्यनावृत इव प्रच्छादनायाञ्चलं मुग्धा स्वेदनिपीतसूक्ष्मसिचयव्यक्तस्तनी वक्षसि ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc