महासुभाषितसंग्रह · श्लोक 5085-5104
आयाता जलदावली सरभसं विद्युत्समालिङ्गिता शैलानां परितः सशब्दमहिभुक्श्रेणी नरीनृत्यति ।
एवं सत्यपि हन्त संप्रति पतिर्देशान्तरं प्रस्थितस् तद् दुःखं विनिवेद्यतां सखि कथं कस्याधुनाग्रे मया ॥
आयाता मधुयामिनी यदि पुनर्नायात एव प्रभुः प्राणा यान्तु विभावसौ यदि पुनर्जन्मग्रहं प्रार्थये ।
व्याधः कोकिलबन्धने विधुपरिध्वंसे च राहुग्रहः कन्दर्पे हरनेत्रदीधितिरहं प्राणेश्वरे मन्मथः ॥
आयाता मधुरजनी मधुरजनीगीतिहृद्येयम् ।
अङ्कुरितः स्मरविटपी स्मर विट पीनस्तनीमबलाम् ॥
आयाता रजनी भविष्यति महाविश्लेषदावानलो नोद्वेगः सहसा कृशाङ्गि मनसा कार्यो रथाङ्गाह्वयः ।
इत्थं बाष्पनिरुद्धगद्गदतया संभाष्य कोकीं चिरं चिन्तापूर्णमना विनोदविमुखो हंहो विधिं निन्दति ॥
आयाता रतिनायकस्य विपिनं श्रीराधिकाभ्यागतो दैवादेव हरिश्च तत्र चतुरश्चेटोऽपि तत्रागमत् ।
शीघ्रं पर्वतकन्दरोदरगतं लास्यं शिखीनां पुरः पंश्यामीति हरिं निगद्य शनकैर्गेहं समभ्यागमत् ॥
आयातासि विमुञ्च वेपथुभरं दृष्टासि किं केनचिन् नीलं चोलममुं विमुञ्च हरतु स्वेदं निशीथानिलः ।
इत्यन्तर्भयसन्नकण्ठमसकृद् यामीति तल्पातिथिर् त्रस्यन्ती परिरभ्यते सुकृतिना स्वैरं नवस्वैरिणी ॥
आयाति फुल्लकुसुमः कुसुमागमोऽयम् एषा शशाङ्कतिलका शरदागतेति ।
बाढं प्रहृष्यति जनो न पुनर्ममैतद् आयुःप्रहीणमिति याति मनोविषादम् ॥
आयाति याति खेदं करोति मधु हरति मधुकरीवान्या ।
अधिदेवता त्वमेव श्रीरिव कमलस्य मम मनसः ॥
आयाति याति पुनरेव जलं प्रयाति पद्माङ्कुराणि विधुनोति धुनोति पक्षौ ।
उन्मत्तवद् भ्रमति कूजति मन्दमन्दं कान्तावियोगविधुरो निशि चक्रवाकः ॥
आयाति श्रियमञ्जसा नयनयोरम्भोरुहप्रेयसी संनाहः स्तनयोरयं कलयते संभोगयोग्यां दशाम् ।
वैदग्ध्येन सहासिकां वितनुते वाचामियं प्रक्रिया मुग्धायाः पुनरैन्दवीं न सहते मुख्यामभिख्यां मुखम् ॥
आयाति स्खलितैः पादैर् मुखवैवर्ण्यसंयुतः ।
ललाटस्वेदभाग् भूरिगद्गदं भाषते वचः ॥
कम्पमानमधोऽवेक्षी पापं प्राप्तः सदा नरः ।
तस्माद् यत्नात् परिज्ञेयश् चिह्नैरेतैर्विचक्षणैः ॥
आयाति हृष्टोऽभिमुखो यदि श्वा क्रीडां प्रकुर्वन् विलुथंस्तथाग्रे ।
शीघ्रं तदानीं ध्रुवमध्वगानां भवेत् प्रभूतो धनधान्यलाभः ॥
आयातु यातु खेदं करोतु मधु हरतु चाप्यन्या ।
अधिदेवता त्वमेव श्रीरिव कमलस्य मम मनसः ॥
आयाते च तिरोहितो यदि पुनर्दृष्टोऽन्यकार्ये रतो वाचि स्मेरमुखो विषण्णवदनः स्वक्लेशवादे मुहुः ।
अन्तर्वेश्मनि वासमिच्छति भृशं व्याधीति यो भाषते भृत्यानामपराधकीर्तनपरस्तन्मन्दिरं न व्रजेत् ॥
आयाते दयिते मनोरथशतैर्नीत्वा कथंचिद् दिनं गत्वा वासगृहं जडे परिजने दीर्घां कथां कुर्वति ।
दष्टास्मीत्यभिधाय सत्वरपदं व्याधूय चीनांशुकं तन्वङ्ग्या रतिकातरेण मनसा नीतः प्रदीपः शमम् ॥
आयाते दयिते मरुस्थलभुवामुल्लङ्घ्य दुर्लङ्घ्यतां गेहिन्या परितोषबाष्पतरलामासज्य दृष्टिं मुखे ।
दत्वा पीलुशमीकरीरकवलान् स्वेनाञ्चलेनादराद् आमृष्टं करभस्य केशरसटाभाराबलग्नं रजः ॥
आयाते रभसाद्यदि प्रियतमे प्रत्युद्गता नो चिरं नो वा मण्डलितोन्नतस्तनतटं गाढं समालिङ्गितः ।
आश्लिष्य स्वभुजावलम्बमथवा प्रेमार्द्रया नो गिरा संभाव्याभिहितो हतासि सरले स्वैरेव दुश्चेष्टितैः ॥
आयातेऽर्थिनि गोत्रभिद्यभिमते कर्णोऽमुचत् कुण्डलं कामास्त्रं किल भूरिलोचनयुगं तस्मिन् समासज्जताम् ।
नन्वेतत् कुरुनायकस्य हृदयं तस्मात् समाधीयतां संभूतस् तपसोऽत्र यो रतिरसो मापार्थतो हीयताम् ॥
आयाते श्रुतिगोचरं प्रियतमप्रस्थानकाले पुरस् तल्पान्तःस्थितया तदाननमलं दृष्ट्वा चिरं मुग्धया ।
सोच्छ्वासं दृढमन्युनिर्भरगलद्बाष्पाम्बुधौतं तया स्वं वक्त्रं विनिवेश्य भर्तृहृदये निःशब्दकं रुद्यते ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0