महासुभाषितसंग्रह · श्लोक 5065-5084
आयताग्रसितरश्मिनिबद्धं लाञ्छनच्छविमषीरसदिग्धम् ।
चन्द्रकैतवमरुत्पटचक्रं क्रीडयोत्सृजति किं स्मरबालः ॥
आयताङ्गुलिरभूदतिरिक्तः सुभ्रुवां क्रशिमशालिनि मध्ये ।
श्रोणिषु प्रियकरः पृथुलासु स्पर्शमाप सकलेन तलेन ॥
आयतिं सर्वकार्याणां तदात्वं च विचारयेत् ।
अतीतानां च सर्वेषां गुणदोषौ च तत्त्वतः ॥
आयतीमिव विध्वस्ताम् आज्ञां प्रतिहतामिव ।
दीप्तामिव दिशं काले पूजामपहतामिव ॥
आयत्यां गुणदोषज्ञस् तदात्वे क्षिप्रनिश्चयः ।
अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते ॥
आयत्यां च तदात्वे च यत् स्यादास्वादपेशलम् ।
तदेव तस्य कुर्वीत न लोकद्विष्टमाचरेत् ॥
आयत्यां प्रतिकारज्ञस् तदात्वे दृढनिश्चयः ।
अतीते कार्यशेषज्ञो नरोऽर्थैर्न प्रहीयते ॥
आयत्या च जयेदाशाम् अर्थं सङ्गविवर्जनात् ।
अनित्यत्वेन च स्नेहं क्षुधं योगेन पण्डितः ॥
आयद्वारेषु सर्वेषु कुर्यादाप्तान् परीक्षितान् ।
आददीत धनं तैस्तु भास्वानुस्रैरिवोदकम् ॥
आयव्ययं सदानुष्णं छेदनं संशयस्य च ।
अनिशं तस्य च ज्ञानं मन्त्रिणां त्रिविधं फलम् ॥
आयव्ययेऽन्नसंस्कारे गृहोपस्काररक्षणे ।
शौचेऽग्निकार्ये संयोज्याः रक्षा स्त्रीणामियं स्मृता ॥
आयव्ययौ यस्य च संविभक्तौ छन्नश्च चारो निभृतश्च मन्त्रः ।
न चाप्रियं मन्त्रिषु यो ब्रवीति सा सागरान्तां पृथिवीं प्रशास्ति ॥
आयस्ता कलहं पुरेव कुरुते न स्रंसने वाससो भुग्नभ्रूरतिखण्ड्यमानमधरं धत्ते न केशग्रहे ।
अङ्गान्यर्पयति स्वयं भवति नो वामा हठालिङ्गने तन्व्या शिक्षित एष संप्रति पुनः कोपप्रकारोऽपरः ॥
आयस्य तावदपि कर्म करोतु कश्चित् तेनापि मातरधिकं किमिहानुभाव्यम् ।
आस्ते सुखं य इह भारतवर्षसीमन्य् आस्ते स किंचिदित उत्तरतोऽपसृत्य ॥
आयस्य तुर्यभागेन व्ययकर्म प्रवर्तयन् ।
अन्यूनतैलदीपोऽपि चिरं भद्राणि पश्यति ॥
आयाच्चतुर्थभागेन व्ययकर्म प्रवर्तयेत् ।
प्रभूततैलदीपो हि चिरं भद्राणि पश्यति ॥
आयातं मामपरिचितया वेलया मन्दिरं ते चोरो दण्ड्यस् त्वमिति मधुरं व्याहरन्त्या भवत्या ।
मन्दे दीपे मधुलवमुचां मालया मल्लिकानां बद्धं चेतो दृढतरमिदं बाहुबन्धच्छलेन ॥
आयातं सखि दयितं चिरात् प्रवासात् क्षामाङ्गं तव विरहानलेन तप्तम् ।
सद्योऽमुं निजमृदुलाङ्गसङ्गदानात् संतृप्तिं नय भव संमुखी किमेवम् ॥
आयातः कुमुदेश्वरो विजयते सर्वेश्वरो मारुतो भृङ्गः स्फूर्जति भैरवो न निकटं प्राणेश्वरो मुञ्चति ।
एते सिद्धरसाः प्रसूनविशिखो वैद्योऽनवद्योत्सवो मानव्याधिरयं कृशोदरि कथं त्वच्चेतसि स्थास्यति ॥
आयातस्ते समीपं तव गुणविमलान् पण्डितो वादकर्ता काव्ये भव्ये हि रेवाभवविगतरसे रुग्युगे रोगहर्ता ।
नाहं जाने चिकित्सां सकलगुणनिधे दुर्दरिद्रत्वरोगे श्रीमद्राजार्जुनेन्द्रप्रबलमपि यते कल्पिता सा चिकित्सा ॥
आयाताः सखि वर्षा वर्षादपि यासु वासरो दीर्घः ।
दिशि दिशि नीरतरङ्गो नीरतरङ्गो ममापि हृदयेशः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0